+१० अङ्कुरार्पणम्

प्राणानायम्य -

श्रीगोविन्देत्यादि अस्यां शुभतिथौ अमुक-गोत्रस्य अमुक-शर्मणः कुमारस्य अमुक-कर्माङ्गम् अङ्कुरार्पणकर्म करिष्यामि ।

प्राणानायम्य पञ्चपालिकाशुद्ध्यर्थं पुण्याहं वाचयिष्ये पुण्याहं वाचयित्वा, पुण्याहजलेन पञ्चपालिकाः कूर्चेन व्याहृतिभिः प्रोक्ष्य पञ्चपालिकाः सौवर्णरजतताम्रमृण्मयीर्वा यथासम्भवं गृहीत्वा -

मध्ये प्रजापतिं विद्यादिन्द्रं प्राच्यां तथैव च ।
दक्षिणे तु यमं विद्यात् पश्चाद्वरुणमेव च ॥
उत्तरे सोम एव स्यात् पालिकासु यथाक्रमम् ।
वल्मीकमृत्तिकां हृत्वा गोमयं च तथैव च ॥

[[71]]

एतानि प्रक्षिपेत्तासु पालिकासु यथाक्रमम् ।
दूर्वामश्वत्थपत्रं च शिरीषं विल्वपत्रकम् ॥
तासां मूले तु बध्नीयात् श्वेतसूत्रेण वेष्टयेत् ।
आवहनासनं पाद्यमर्घ्यमाचमनं तथा ॥
स्नानं वस्त्रोपवीतं च गन्धपुष्पाक्षता अपि ।
धूपदीपे च नैवेद्यं ताम्बूलं च पृथक् पृथक् ॥

पञ्चपालिकासु प्रागग्रं कूर्चं निधाय, व्याहृतिभिः ब्रह्मादीनावाहयेत् ॥

मध्यमपालिकायाम्

ओं भूः ब्रह्माणमावाहयामि, ओं भुवः प्रजापतिमावाहयामि, ओं सुवः चतुर्मुखमावाहयामि, ओं भूर्भुवस्सुवः हिरण्यगर्भमावाहयामि, ब्रह्मादिभ्यो नमः, ब्रह्मादीनामिदमासनम् ।

पूर्वपालिकायाम्

ओं भूः इन्द्रमावाहयामि, ओं भुवः वज्रिणमावाहयामि, ओं सुवः शतक्रतुमावाहयामि, ओं भूर्भुवस्सुवः शचीपतिमावाहयामि, इन्द्रादिभ्यो नमः, इन्द्रादीनामिदमासनम् ।

दक्षिणपालिकायाम्

ओं भूः यममावाहयामि, ओं भुवः वैवस्वतमावाहयामि, ओं सुवः पितृपतिमावाहयामि, ओं भूर्भुवस्सुवः धर्मराजमावाहयामि, यमादिभ्यो नमः यमादीनामिदमासनम् ।

पश्चिमपालिकायाम्

ओं भूः वरुणमावाहयामि, ओं भुवः प्रचेतसमावाहयामि, सुवः सुरूपिणमावाहयामि, ओं भूर्भुवस्सुवः अपां पतिमावाहयामि, वरुणादिभ्यो नमः वरुणादीनामिदमासनम् ।

उत्तरपालिकायाम्

ओं भूः सोममावाहयामि, ओं भुवः इन्दुमावाहयामि, ओं सुवः निशाकरमावाहयामि, ओं भूर्भुवस्सुवः ओषधीशमावाहयामि, सोमादिभ्यो नमः, सोमादीनामिदमासनम् ।

ब्रह्मादिभ्यो नमः, इदं पाद्यमिदमाचमनीयमिदमर्घ्यमिदमाचमनीयम्, इन्द्रादिभ्यो नमः इदं पाद्यमिदमाचमनीयमिदमर्घ्यमिदमाचमनीयम्, यमादिभ्यो नमः, इदं पाद्यमिदमाचमनीयमिदमर्घ्यमिदमाचमनीयम्, वरुणादिभ्यो नमः, इदं पाद्यमिदमाचमनीयमिदमर्घ्यमिदमाचमनीयम्, सोमादिभ्यो नमः, इदं पाद्यमिदमाचमनीयमिदमर्घ्यमिदमाचमनीयम् । “दधिक्राव्ण्ण”इत्यृचा “आपो हिष्ठा मयो भुवः” इति तिसृभिः, “हिरण्यवर्णाः शुचयः पावकाः” इति चतसृभिः, “पवमानस्सुवर्जन" इत्येतेनानुवाकेन च स्नापयित्वा, ब्रह्मादिभ्यो नमः इदं स्नानम्, इन्द्रादिभ्यो नमः इदं स्नानं, यमादिभ्यो नमः इदं स्नानं, वरुणादिभ्यो नमः इदं स्नानं, सोमादिभ्यो नमः इदं स्नानम् । ब्रह्मादिभ्यो नमः इदमाचमनीयम् इदं वस्त्रम् इदमाचमनीयम् इदमुपवीतम् इदमाचमनीयम् । इन्द्रादिभ्यो नमः इदमाचमनीयम् इदं वस्त्रम् इदमाचमनीयम् इदमुपवीतम् इदमाचमनीयम् । यमादिभ्यो नमः इदमाचमनीयम् इदं वस्त्रम् इदमाचमनीयम् इदमुपवीतम् इदमाचमनीयम् । वरुणादिभ्यो नमः इदमाचमनीयम् इदं वस्त्रम् इदमाचमनीयम् इदमुपवीतम् इदमाचमनीयम् । सोमादिभ्यो नमः इदमाचमनीयम् इदं वस्त्रम् इदमाचमनीयम् इदमुपवीतम् इदमाचमनीयम् । ब्रह्मादिभ्यो नमः एते गन्धाक्षतपुष्पधूपदीपोत्तरीयाभरणाद्यलङ्कारास्सर्वोपचाराः । इन्द्रादिभ्यो नमः, यमादिभ्यो नमः, वरुणादिभ्यो नमः, सोमादिभ्यो नमः

[[73]]

एते गन्धाक्षतपुष्पधूपदीपोत्तरीयाद्याभरणाद्यलङ्कारास्सर्वोपचाराः । ब्रह्मेन्द्रयमवरुणसोमादिभ्यो नमः यथाभागशः गुडोपहारं निवेदयामि, ताम्बूलं समर्पयामि । सर्वोपचारान् समर्पयामि । ओषधीस्सम्भृत्योत्थाय -

दिशां पतीन् नमस्यामि सर्वकामफलप्रदान् ।
कुर्वन्तु सफलं कर्म कुर्वन्तु सततं शुभम् ॥

उपविश्य व्रीहियवमाषतिलमुद्गसर्षपान् मिश्रीकृत्य क्षीरेण प्रक्षाल्य ओषधिसूक्तेन “या जाता” इत्यनुवाकेनाभिमन्त्र्य ।