०३ आ-दशम-दिन-कृत्यानि

नग्नश्राद्धम्

अथ कर्ता त्रयोदशवारं निमज्य घृतप्राशनादि पुनःस्नानान्तं कृत्वा कण्ठादुपरि वापयित्वा, स्नात्वा आर्द्रवासाः कनिष्ठपूर्वं ग्रामं प्रविश्य, गृहं गत्वा पादौ प्रक्षाल्य, पवित्रं गृहीत्वा, प्राचीनावीती,

अशेषे हे परिषत् ...{Loading}...

स्वामिनः!
अशेषे हे परिषत्
भवत्-पादमूले मया समर्पिताम् इमां सौवर्णीं यत्-किञ्चिद्-दक्षिणां
यथोक्तदक्षिणामिव स्वीकृत्य

… गोत्रस्य … शर्मणः पितुः प्रेतस्य नग्नप्रच्छादनश्राद्धं कर्तुं योग्यतासिद्धिमनुगृहाण । तथास्तु - योग्यतासिद्धिरस्तु

इति प्रतिवचनम् । उपवीती - प्राणानायम्य - प्राचीनावीती सङ्कल्प्य,

अस्यां तिथौ गोत्रस्य शर्मणः पितुः प्रेतस्य अद्य प्रथमेऽहनि नग्नत्वान्धत्वकाणत्वबधिरत्वमूकत्वनिवृत्यै -

कृतो यत्र ते ययुः तत्र त्वा देवस्सविता दधातु,

तुरीयमध्वनो गत्वा, प्रेतं निधाय, सर्वस्य प्रतिशीवरी सप्रथाः अपनश्शोदघम् । पूर्ववत् प्रदक्षिणादिकं कृत्वा, प्रेतस्य दक्षिणपार्श्वे, दक्षिणापवर्गाः खात्वा तेषु तिलोदकं निक्षिप्य पथि भूतेभ्यः इमं बलि ददामि पुनस्तिलोदकं ददामि । अथास्य अपालानि सुसम्भिन्नानि सम्भिनत्ति यथैषूदकं न तिष्ठेत् ।

आयुर्विश्वायुः परिपासति त्वा पूषा त्वा पातु प्रपथे पुरस्तात् ।
यत्रासते सुकृतो यत्र ते ययुस्तत्र त्वा देवस्सविता दधातु ।

चतुर्थांशम् आदाय गत्वा, चित्तेः पश्चाद्भागे निधाय तत्पूर्वभागे अग्निं निधाय,

[[48]]

एषा वै देवमनुष्याणाँ शान्ता दिक्, तामेवैता[[??]]ननूत्क्रामन्ति,

कर्त्रा सह उदीचीं दिशं गच्छेयुः । हिरण्येन पलाशशाखया शमीशाखया तासामभावे बहुपर्णशाखया ययाकयाचिच्छाखया “अपेत वीते"त्येतया पीठेन संमृज्य, “नग्रप्रच्छादनैकोद्दिष्टश्राद्धम् आमरूपेण करिष्ये” इति सङ्कल्प्य, निमित्तस्य इदम् आसनं सकलाराधनैः स्वर्चितम् आमं प्रोक्ष्य “भूर्भुवस्सुवः, देव सवितः प्रसुव” हस्ते शुद्धोदकं दत्वा,

पृथिवी न पात्रं द्यौरपिधानं ब्रह्मणस्त्वा, मुखे जुहोमि ब्राह्मणानां त्वा प्राणापानयोः जुहोमि अक्षितमसि मास्य क्षेष्ठा अमुत्रामुष्मिन् लोके एतत्ते इदमाम रक्षा वस्त्रवेष्टितं कुम्भं तदुपरि घृतपूर्णं हिरण्यं कांस्यपात्रजलपात्रदीपपात्रदक्षिणाताम्बूलसहितम् इदं नग्नप्रच्छादनश्राद्धं तुभ्यमहं संप्रददे न मम

इति श्रोत्रियाय कुलीनाय दत्वा ततो निम्बपत्राणि विदश्य आचम्य, अग्निम् उदकं गोरसर्षपं गां दूर्वां [[??]]वालम् अक्षतां तिलम् अश्मानम् ऋषभं च स्पृष्ट्वा, गोमयोपलिप्तं सुसंमृष्टं सदीपं गृहं प्रविश्य, यस्मिन् देशे प्राणा उत्क्रान्ताः, तं देशं गोमयेन उपलिप्य, तत्र दूर्वाक्षिततण्डुलान् उदकमिश्रान् प्रकीर्य, “स्वस्त्यस्तु वो गृहाणां शेषं शिवं वो अस्तु” इति तदेवमभिमृश्य ।

[[49]]

पाषाणस्थापनम्

अथ कर्ता स्नात्वा ऊर्ध्वपुण्ड्रादिकं धृत्वा

गोत्रस्य शर्मणः पितुः तस्य अद्य प्रथमेऽहनि पाषाणस्थापनं कर्तुं योग्यतासिद्धिमनुग्रहाण

उपविश्य उपवीती प्राणानायम्य, प्राचीनावीती, सङ्कल्प्य,

अस्यां तिथौ … गोत्रस्य … शर्मणः पितुः प्रेतस्य अद्य प्रथमेऽहनि तटाकतीरे कुण्डे वासोदकतिलोदकप्रदानार्थं पाषाणस्थापनं करिष्ये

इति सङ्कल्प्य पाषाणस्थापनकाले,

तिथिवारनक्षत्रयोगकरणलग्नेषु यो दोषः समजनि, तद्दोषपरिहारार्थं यथाशक्ति हिरण्यरूपेण करिष्ये,

इति सङ्कल्प्य, हिरण्यं हस्ते निधाय,

Hira Nya garbha garbhastha M sampradade ...{Loading}...
हिरण्य-गर्भ--गर्भ-स्थं ...{Loading}...
विश्वास-प्रस्तुतिः

+++(हिरण्य!)+++ हिरण्य-गर्भ–गर्भ-स्थं
हेम-बीजं विभावसोः ।
अनन्त-पुण्य-फल-दम्
अतश् शान्तिं प्रयच्छ मे॥

मूलम्

हिरण्यगर्भगर्भस्थं
हेमबीजं विभावसोः ।
अनन्तपुण्यफलदम्
अदश्शान्तिं प्रयच्छ मे॥


हिरण्यगर्भगर्भस्थं
हेमबीजं विभावसोः ।
अनन्तपुण्यफलदम्
अतश्शान्तिं प्रयच्छ मे॥

दानम्, त्यागः

… यत्किञ्चिद्धिरण्यानि
नानागोत्रेभ्यः श्रीवैष्णवेभ्यः येभ्यस् तेभ्यः/ तुभ्यम् अहं
सम्प्रददे

(न मम॥)

इदं हिरण्यं पाषाणस्थापनकाले तिथिवारपरिहारार्थं तुभ्यमहं सम्प्रददे न मम

इति दत्वा, दर्भवेष्टितं पाषाणं कुण्डे निधाय,

आयाहि प्रेत सोम्य गम्भीरैः पथिभि पूर्व्यैः ।
प्रजामस्मभ्यं ददद्रयिं च दीर्घायुत्वञ्च शतशारदं च ।
गोत्रं शर्माणं पितरं प्रेतम् अस्मिन् पाषाणे आवाहयामि ।
आयाहि प्रेत सोम्ये - ददत्तो गोत्रां नाम्नीं मातरं प्रेतां,

इति स्त्रीणाम् । पाषाणकुण्डे सकलाराधनैः स्वर्चितम् । अथ कर्ता उपवीती, प्राणानायम्य, प्राचीनावीनी सङ्कल्प्य,

… गोत्रस्य … शर्मणः पितुः प्रेतस्य अद्य प्रथमेऽहनि दहनजनितक्षुत्तृष्णादाहतापोपशमार्थं प्रेताप्यायनार्थं प्रेततृप्त्यर्थं तटाकतीरे कुण्डे वासोदकतिलोदकप्रदानानि करिष्ये,

इति सङ्कल्प्य,

गोत्राय शर्मणे पित्रे प्रेताय अद्य प्रथमेऽहनि दहनजनितशान्त्यर्थम् एतद्वासोदकं ददामि

[[50]]

इति सदर्भं वासस्त्रिगुणीकृतं सव्यसव्येतराभ्यां पाणिभ्यां पीडयित्वा, पुनरेव निमज्य वासः पीडयित्वा, पुनरेव निमज्य वासः पीडयेयुः ।

अमुकगोत्राय अमुकशर्मणे पित्रे प्रेताय दहनजनितशान्त्यर्थं प्रेततृप्त्यर्थम् एतत्तिलोदकं ददामि

इति त्रिस्त्रिस्तिलोदकाञ्जलीन् दद्युः । उत्थाय

गोत्रं शर्मन[[??]] पितः प्रेत एतद्वासोदकान्युपतिष्ठ, एतत्तिलोदकान्युपतिष्ठ । मार्जयतां पिता प्रेत

इति तिलोदकम् उत्सृज्य, एवम् अहरह आदशाहात् ज्ञातयः कर्ता च त्रिः वासउदकं दत्वा पूर्वदिनात् उत्तरोत्तरदिनेष्वेकैकाधिकान् तिलोदकाञ्जलीन् दद्यात् ।

अथ कर्ता स्नात्वा जलपूर्णकुम्भम् आदाय गृहं गत्वा चरुं श्रपयित्वा अभिघार्य उद्वास्य, कुण्डसमीपं गत्वा, दण्डवत् प्रणम्य, प्राचीनावीती,

अशेषे हे परिषत् ...{Loading}...

स्वामिनः!
अशेषे हे परिषत्
भवत्-पादमूले मया समर्पिताम् इमां सौवर्णीं यत्-किञ्चिद्-दक्षिणां
यथोक्तदक्षिणामिव स्वीकृत्य

… गोत्रस्य … शर्मणः पितुः प्रेतस्य अद्य प्रथमेऽहनि गृहद्वारे कुण्डे वासोदकपिण्डबलिप्रदानार्थं पाषाणस्थापनं कर्तुं योग्यतासिद्धिम् अनुगृहाण ।

उपवीतो प्राणानायम्य, प्राचीनावीती सङ्कल्प्य,

अस्यां तिथौ गोत्रस्य शर्मणः पितु प्रेतस्य अद्य प्रथमेऽहनि गृहद्वारे कुण्डे वासोदकपिण्डबलिप्रदानार्थं पाषाणस्थापनं करिष्ये

इति सङ्कल्प्य,

पाषाणस्थापनकाले तिथिवारनक्षत्रयोगकरणलग्नेषु यो दोषः समजनि तद्दोषपरिहारार्थं यथाशक्ति हिरण्यरूपेण करिष्ये,

इति सङ्कल्प्य, हिरण्यं गृहीत्वा,

[[51]]

हिरण्यगर्भगर्भस्थं हेमबीजं विभावसोः ।
अनन्तपुण्यफलदम् अदश्शान्तिं प्रयच्छ मे ।
इदं हिरण्यं तुभ्यमहं संप्रददे न मम,

पूर्वखानितकुण्डे दर्भवेष्टितं पाषाणं निधाय,

आयाहि प्रेत सोम्या गम्भीरैः पथिभिः पूर्व्यैः ।
प्रजामस्मभ्य ददद्रयिं च दीर्घायुत्वं च शतशारदं च
गोत्रं शर्माणं पितरं प्रेतमावाहयामि ।

सकलाराधनैः स्वर्चितम् ।

पिण्डबलिप्रदानम्

उपवीती प्राणानायम्य प्राचीनावीती

… गोत्रस्य … शर्मणः पितुः प्रेतस्य अद्य प्रथमेऽहनि गृहद्वारे कुण्डे वासोदकं पिण्डबलिप्रदानं च करिष्ये,

इति सङ्कल्प्य, दक्षिणाभिमुखः सव्यञ्जान्वाच्य दर्भसंयुतवस्त्रं त्रिगुणीकृत्य

गोत्राय शर्मणे पित्रे प्रेताय दहनजनितशान्त्यर्थम् एतद्वासोदकं ददामि

इति त्रिः कुण्डस्य दक्षिणतः पश्चाद्वा दक्षिणाग्रान् दर्भान् संस्तीर्य, “तेषु मार्जयतां मम पिता प्रेत” इति तिलोदकमुत्सृज्य फलमूलगुडशाकदधिक्षीरघृतेषु यद्दशदिनं लभ्यं तेन सह तिलमिश्रम् अश्वखुरप्रमाणपिण्डम् अङ्गुष्ठपर्वमात्रं बलि च “अमुकगोत्राय अमुकशर्मणे प्रेताय एतं पिण्डं ददामि”, इत्येतं बलिं ते ददामि इति दर्भेषु दत्वा, उत्थाय अञ्जलिं बध्वा,

अमुकगोत्र अर्मुकशर्मन् प्रेत एतं पिण्डम् उपतिष्ठ, एतं बलिम् उपतिष्ठ

इत्युपस्थाय, गन्धपुष्पधूपदीपान् दत्वा, चरुस्थालीं प्रक्षाल्य तिलमिश्रेण उदकेन पिण्डम् अप्रदक्षिणं परिषिच्य शेषं पिण्डोपरि पूर्ववदुत्सृज्य,

[[52]]

अन्नेन वायसेभ्यः बलिं दत्त्वा अप्सु दक्षिणामुख आकाशे पिण्डम् ऊर्ध्वं उत्क्षिप्य ।

एकोत्तरवृद्धिश्राद्धम्

अमुकगोत्रस्य अमुकशर्मणः प्रेतस्य एकोत्तरवृद्धिश्राद्धानि आमरूपेण करिष्ये,

इति सङ्कल्प्य

अमूनि आमरूपाणि एकोत्तरवृद्धिश्राद्धानि श्रोत्रियेभ्यः ब्राह्मणेभ्यः सम्प्रददे न मम

इति तिलोदकम् उत्सृज्य, त्रीणि श्राद्धानि सदक्षिणानि ब्राह्मणेभ्यः दद्यात् । एवम् अहरहः आदशाहात् वासउदकपिण्डबलिप्रदानं यस्मिन् दिने यावन्ति तिलोदकानि तस्मिन् दिने तावन्ति श्राद्धानि दद्यात् ।

नवश्राद्धम्

अमुकगोत्रस्य अमुकशर्मणः प्रेतस्य नवश्राद्धम् आमरूपेण करिष्ये,

इति सङ्कल्प्य “एतत् नवश्राद्धं यस्मै कस्मै श्रोत्रियाय सम्प्रददे” इति तिलोदकम् उत्सृज्य
प्रथमदिनाद्येकादश-दिनान्तेषु षट्सु विषम-दिनेषु एकैकं नवश्राद्धं दद्यात् ।
कुण्डोपरि शिक्येव मृण्मये पात्रद्वये
“अमुकगोत्र अमुकशर्मन् प्रेत स्नाहि” इति
“जलं पिब” इति क्षीरं च
पृथक् प्रतिदिनं प्रथम-दिने वा स्थापयेत् ।

सञ्चयनम्

दहनदिनात् परेद्युः मृताहात् दहनदिनात् चतुर्थदिने वा दशाहात् सपिण्डीकरणाद्वा पूर्वं विषमदिने वा अस्थिसञ्चयनं कुर्यात् ।

[[53]]

क्षीरम् उदुम्बुरशाखाम् आज्यं बृहतीफलं नीललोहितसूत्रे अश्मनः सिकताः कुम्भौ पालाशशाखे च सङ्गृह्य ज्येष्ठक्रमेण श्मशानं गत्वा प्राचीनावीती, “अमुकगोत्रस्य अमुकशर्मणः अमुकप्रेतस्य अस्थिसञ्चयनं कर्तुं योग्यतासिद्धिम् अनुगृहाण” । तैः अनुज्ञातः उपवीती प्राणानायम्य, प्राचीनावीती “अस्यां तिथौ गोत्रस्य शर्मणः प्रेतस्य अस्थिसञ्चयनं करिष्ये”, इति सङ्कल्प्य, क्षीरमिश्रेण उदकेन उदुम्बरशाखया, “यन्ते[[??]] अग्निममन्थामे"ति पञ्चभिः प्रतिमन्त्रमस्थीन्यवोक्ष्य

यन्ते अग्निममन्थाम ऋषभायेव पक्तवे ।
इमन्तं शमयामसि क्षीरेण चोदकेन च ।
यन्त्वमग्ने समदहस्तमु निर्वापया पुनः ।
क्याम्बूरत्र जायतां पाकदूर्वा व्यत्कशा ।
शोतिके शीतिकावति ह्लादुके ह्लादुकावति ।
मण्डूक्या सुसङ्गमयेमँ स्वग्निँ शमय ।
शन्ते धन्वन्या आपश्शमु ते सन्त्वनूक्याः ।
शन्ते समुद्रिया आपश्शमु ते सन्तु वर्ष्याः ।
शन्ते स्रवन्तीस्तनुवे शमु ते सन्तु कूप्याः ।
शन्ते नीहारो वर्षतु शम् पृष्वावशीयताम् ।

दहनदेशाद्दक्षिणतोऽङ्गारान्निरूह्य, प्रज्वाल्य, परिस्तीर्य, आज्यं दर्वीं च संस्कृत्य, परिषिच्य वारणेन, अन्येन वा पर्णेन, “अवसृज पुनरग्ने”, “सङ्गच्छस्व”, “यत्ते कृष्ण” इति त्रिभिः प्रतिमन्त्रं हुत्वा,

अवसृज पुनरग्ने पितृभ्यो यस्त आहुतश्चरति स्वधाभिः ।
आयुर्वसान उपयातु शेषँ सङ्गच्छतां तनुवो जातवेदः स्वाहा ।
अग्नय इदम् ।

[[54]]

सङ्गच्छस्व पितृभिः सँ स्वधाभिस्समिष्टापूर्तेन परमे व्योमन् यत्र भूम्यै वृणसे तत्र गच्छ तत्र त्वा देवः सविता दधातु स्वाहा । अग्नय इदम् ।
यत्ते कृष्णश्शकुन आतुतोद पिपीलस्सर्प उत वा श्वापदः ।
अग्निष्टद्विश्वादनृणं कृणोतु सोमश्च यो ब्राह्मण आविवेश स्वाहा । अग्नय इदम् ।

पुनः परिषिच्य, अयुग्मैः उदकुम्भैः एकेन वा उदकुम्भेन अशेषाण्यस्थीनि अवोक्षेत् । अथ यस्याः पुनः प्रसूतिर्न स्यात् सा विधवा वा प्रेतस्य पत्नी वा सव्ये हस्ते नीललोहितसूत्राभ्यां बृहतीफलं बध्वा, सव्येन पदा अश्मानमास्थाय,सव्यानामिकाङ्गुष्ठाभ्यां दन्तास्थि शिरोऽस्थि च, “उत्तिष्ठातस्तनुवम्” इत्यादाय,

उत्तिष्ठातस्तनुवँ सम्भरस्व मेह गात्रमवहा मा शरीरम् ।
यत्र भूम्यै वृणसे तत्र गच्छ तत्र त्वा देवस्सविता दधातु,

इत्यादाय अस्थि कुम्भे निधाय, अंसास्थि बाह्वस्थि च “इदन्त एकम्” इति आदाय कुम्भे निधाय, पार्श्वास्थि श्रोण्यस्थि च “पर ऊत एकम्” इत्यादाय कुम्भे निधाय, ऊर्वस्थि जङ्घास्थि च “तृतीयेन ज्योतिषा संविशस्व” इत्यादाय कुम्भे निधाय “पादास्थि संवेशनस्तनुवै चारुरेधि प्रियो देवानां परमे सधस्थ” इत्यादाय निदध्यात् । सर्वत्र नेत्रे निमील्य, अस्थीन्यादाय उन्मील्य कुम्भे निदध्यात् । ततः कर्ता सर्वाण्यस्थीन्यादाय कुम्भे निधाय भस्माभिसमूह्य, शरीराकृतिं कृत्वा, प्रेतस्य क्षुन्निवृत्त्यर्थं पञ्च भक्ष्यं दत्वा, “उत्तिष्ठ प्रेहि” इत्यस्थिकुम्भमादाय,

[[56]]

उत्तिष्ठ प्रेहि प्रद्रवौ कृणुष्व परमे व्योमन् यमेन त्वं यम्या संविदानोत्तमनाकमधिरोहेमम्,

पालाशमूले शमीमूले वा गजप्रमाणं पुरुषप्रमाणं वा गर्तान् खात्वा आज्येन गन्धतोयेन अस्थीनि सेचयित्वा गर्ते कुम्भं निघाय, मृद्भिः गर्तं पूरयेत् । अथवा वस्त्रेण कुशरज्ज्वा वा दृढं बध्वा गङ्गाकावेर्याद्यासु महानदीषु प्रभासादिषु पुण्यतीर्थेषु च प्रक्षिप्य, कुम्भमज्जनकाले अघमर्षणसूक्तं जपेत् ।

हिरण्यशृङ्गं वरुणं प्रपद्ये तीर्थं मे देहि याचतः ।
यन्मया भुक्तमसाधूनां पापेभ्यश्च प्रतिग्रहः ।
यन्मे मनसा वाचा कर्मणा वा दुष्कृतं कृतम् ।
तन्म इन्द्रो वरुणो बृहस्पतिस्सविता च पुनन्तु पुनः पुनः । सुमित्रा न आप ओषधयस्सन्तु दुर्मित्रास्तस्मै भूयासुर्योऽस्मान्द्वेष्टि यञ्च वयं द्विष्मः ।
नमोऽग्नयेऽप्सुमते नम इन्द्राय नमो वरुणाय नमो वारुण्यै नमोऽद्भ्यः ।
यदपां क्रूरं यदमेध्यं यदशान्तं तदपगच्छतात् ।
अत्याशनादतीपानाद्यच्च उग्रात्प्रतिग्रहात् ।
तन्मे वरुणो राजा पाणिना ह्यवमर्शतु ।
सोऽहमपापो विरजो निर्मुक्तो मुक्तकिल्बिषः ।
नाकस्य पृष्ठमारुह्य गच्छेद्ब्रह्म सलोकताम् ।
इमं मे गङ्गे यमुने सरस्वति शुतुद्रि स्तोमँ सचता परुष्णिया ।
असिक्निया मरुद्वृधे वितस्तयार्जिकीये शृणुह्या सुषोमया ।
ऋतञ्च सत्यञ्चाभीद्धात्तपसोऽध्यजायत ।
ततो रात्रिरजायत ततस्समुद्रो अर्णवः ।
समुद्रादर्णवादधि शंवत्सरो अजायत ।

[[56]]

अहोरात्राणि विदधदविश्वस्य मिषतो वशी ।
सूर्याचन्द्रमसौ धाता यथापूर्वमकल्पयत् ।
दिवञ्च पृथिवोञ्चान्तरिक्षमथो सुवः ।
यत्पृथिव्याँ रजस्व मान्तरिक्षे विरोदसो ।
इमाँस्तदापो वरुणः पुनात्वघमर्षणः ।
एष भूतस्य भव्ये भुवनस्य गोप्ता ।
एष पुण्यकतांल्लोकानेष मृत्योहिरण्मयम् ।
द्यावापृथिव्योहिरण्मयँ सँश्रितँ सुवः ।
सनस्सुवस्सँ शिशाधि ।
आर्द्रं ज्वलतिर्ज्योतिरहमस्मि ।
ज्योतिर्ज्वलतिर्ब्रह्माहमस्मि । योऽहमस्मि ब्रह्माहमस्मि । अहमेवाहं मां जुहोमि स्वाहा ।
अकार्यकार्यवकीर्णी स्तेनो भ्रूणहा गुरुतल्पगः ।
वरुणोऽपामघमर्षणस्तस्मात्पापात्प्रमुच्यते ।
रजो भूमिस्त्वमाँ रोदयस्व प्रवदन्ति धीराः ।
पुनन्तु ऋषयः पुनन्तु वसवः पुनातु वरुणः पुनात्वघमर्षणः ।

इति जपेत् । कुम्भनिधानदेशात् पश्चात् दक्षिणोत्तरदीर्घान् त्रीन् गर्तान् खात्वेत्याद्यवगाहनान्तं ज्ञातिभिस्सह कर्ता प्रथमदिनवत् कुर्यात् । अश्मन्वती रेवतीः - रेम । दर्भमयेन शुल्बेन तोरणवत् बध्वा, तयोर्मध्ये “यद्वै देवस्य सवितुः - पृनामि, या राष्ट्रात्पन्नादपयन्ति सृजाथ” । इति नैर्ऋत्यां दिशि पृथक् पृथक् परित्यजेत् । उद्वयं तमसस्परीत्यादित्यमुपस्थाय

धाता पुनातु सविता पुनातु - अग्नेस्तेजसा सूर्यस्य वर्चसा ।

उपवीती सभां प्रणम्य प्रदक्षिणीकृत्य, प्राची -

गोत्रस्य शर्मणः प्रेतस्य अस्थिसञ्चयनकर्मणि मन्त्रलोपे- यथाशास्त्रानुष्ठितं भूयादिति भवन्तो महान्तोऽनुगृह्णन्तु,

[[57]]

तैः अनुज्ञातः ब्राह्मणेभ्यो यथाशक्ति दक्षिणां दद्यात् ।

अग्निनष्टप्रायश्चित्तम्

यदि श्मशानाग्निः नष्टस्स्यात् तदा, “अमुकगोत्रस्य अमुकशर्मणः प्रेतस्य श्मशानाग्निसन्धानं करिष्ये” इति सङ्कल्प्य, “अपहता असुराः शन्नो देवीरि"ति द्वाभ्यां, तद्भस्म प्रोक्ष्य, “अयन्ते योनिर् ऋत्विय” इति समिधि भस्मारोप्य, “आजुह्वान उद्बुध्यस्व” इति द्वाभ्यां लौकिकाग्नौ तां समिधमाधाय प्रज्वाल्य परिस्तीर्यम आज्यं दर्वीं च संस्कृत्य, परिषिच्य, “अयाश्चाग्नेऽसी"त्येतया “अग्निर्होते"त्यनुवाकेन एकामाहुतिं “ब्राह्मण एकहोते"ति दशभिः

मनो ज्योतिः यन्म आत्मनो मिन्दा पुनरग्निः, भूरग्नये, भूरन्नमग्नये भूरग्नये

चेति द्वादशभिः व्यस्ताभिः समस्ताभिः व्याहृतीभिः “अनाज्ञातमि"त्यादिभिश्च हुत्वा, पूर्ववत्परिषिच्य तस्मिन्नग्नौ सञ्चयनहोमं कुर्यात् ।

अथ कर्ता स्नात्वा, ऊर्ध्वपुण्ड्रादिकं धृत्वा यथाशक्ति दक्षिणां गृहीत्वा, दण्डवत् प्रणम्य, प्राचीनावीती,

अशेषे हे परिषत् ...{Loading}...

स्वामिनः!
अशेषे हे परिषत्
भवत्-पादमूले मया समर्पिताम् इमां सौवर्णीं यत्-किञ्चिद्-दक्षिणां
यथोक्तदक्षिणामिव स्वीकृत्य

गोत्रस्य शर्मंणः पितुः प्रेतस्य अग्निनष्टप्रायश्चित्तं कर्तुं योग्यतासिद्धिमनुगृहाण

उपवीती प्राणानायम्य, प्राचीनावीती, सङ्कल्प्य “अस्यां तिथौ गोत्रस्य पितुः प्रेतस्य अग्निनष्टप्रायश्चित्तं करिष्ये” इति सङ्कल्प्य,

[[58]]

उपवीती - प्राणानायम्य प्राचीनावीती

श्रीभगवदाज्ञया भगवत्प्रीत्यर्थं मम पितुः प्रेतस्य श्मशानाग्निनाशप्रायश्चित्तार्थं प्राजापत्यकृच्छ्रत्रयं यत्किञ्चिद्धिरण्यरूपेण करिष्ये

Hira Nya garbha garbhastha M sampradade ...{Loading}...
हिरण्य-गर्भ--गर्भ-स्थं ...{Loading}...
विश्वास-प्रस्तुतिः

+++(हिरण्य!)+++ हिरण्य-गर्भ–गर्भ-स्थं
हेम-बीजं विभावसोः ।
अनन्त-पुण्य-फल-दम्
अतश् शान्तिं प्रयच्छ मे॥

मूलम्

हिरण्यगर्भगर्भस्थं
हेमबीजं विभावसोः ।
अनन्तपुण्यफलदम्
अदश्शान्तिं प्रयच्छ मे॥


हिरण्यगर्भगर्भस्थं
हेमबीजं विभावसोः ।
अनन्तपुण्यफलदम्
अतश्शान्तिं प्रयच्छ मे॥

दानम्, त्यागः

… यत्किञ्चिद्धिरण्यानि
नानागोत्रेभ्यः श्रीवैष्णवेभ्यः येभ्यस् तेभ्यः/ तुभ्यम् अहं
सम्प्रददे

(न मम॥)

इदं कृच्छ्रत्रयप्रत्याम्नायं यत्किञ्चिद्धिरण्यं तुभ्यमहं सम्प्रददे न मम

इति श्रोत्रियाय ब्राह्मणाय दत्वा ।

अपहता असुरा रक्षाँसि पिशाचा ये क्षियन्ति पृथिवीमनु । अन्यत्रेतो गच्छन्तु यत्रैषां गतं मनः । शन्नो देवीरभिष्टय आपो भवन्तु पीतये । शंय्योरभिस्रवन्तु नः

इति द्वाभ्यां तद्भस्म अद्भिः प्रोक्ष्य ।

अयन्ते योनिर् ऋत्वियो यतो जातो अरोचथाः ।
तञ्जानन्नग्न आरोहाथो नो वर्धया रयिम् ।

इति मन्त्रेण भस्मनि समिधं समारोप्य,

आजुह्वानस्सुप्रतीक पुरस्तादग्ने स्वां योनिमासीद साध्या ।
अस्मिन् सधस्थे अध्युत्तरस्मिन् विश्वे देवा यजमानश्च सीदत ।
उद्बुध्यस्वाग्ने प्रतिजागृह्येनमिष्टापूर्ते सँसृजेथामयञ्च । पुनः कृण्वँस्त्वा पितरं युवानमन्वाताँसीत्वयि तन्तुमेतम् ।

इति द्वाभ्यां लौकिकाग्नौ तां समिधमाधाय, अग्निप्रतिष्ठादिपरिषेचनान्तं विपरीतं कृत्वा, दर्व्याम् आज्यमादाय,

ओम् अयाश्चाग्नेस्यनभिशस्तीश्च सत्यमित्वमया असि ।
अयसा मनसा धृतोऽयसा हव्यमूहिषेऽयानो धेहि भेषजं स्वाहा ।
अग्नये अयस इदम् । अग्निर्होता । अश्विना[[व??]]ध्वर्यू । त्वष्टाग्नीत् ।

[[59]]

मित्र उपवक्ता । सोमस्सोमस्य पुरोगाः । शुक्रश्शुक्रस्य पुरोगाः । श्रोतास्त इन्द्रसोमाः । वातापेर्हवनश्रुतस्स्वाहा । अग्नय इदम् । ब्राह्मण एकहोता । स यज्ञः । स मे ददातु प्रजां पशून् पुष्टिं यशः । यज्ञश्च मे भूयात् स्वाहा । ब्राह्मणायेदम् । अग्निर्द्विहोता । स भर्ता । स मे ददातु प्रजां पशून् पुष्टिं यशः । भर्ता च मे भूयात् स्वाहा । अग्नय इदम् । पृथिवी त्रिहोता । स प्रतिष्ठा । स मे प्रजां पशून् पुष्टिं यशः । प्रतिष्ठा च मे भूयात् । अन्तरिक्षं चतुर्होता । स विष्ठाः । स मे ददातु प्रजां पशून् पुष्टिं यशः । विष्ठाश्च मे भूयात्स्वाहा । अन्तरिक्षायेदम् । वायुः पञ्च होता । स प्राणः । स मे ददातु प्रजां पशून् पुष्टिं यशः । प्राणश्च मे भूयात्स्वाहा । वायव इदम् । चन्द्रमाष्षड्ढोता । स ऋतून् कल्पयाति । स मे ददातु प्रजां पशून् पुष्टिं यशः । ऋतवश्च मे स कल्पन्तां स्वाहा । चन्द्रमस इदम् । अन्नँ सप्तहोता । स प्राणस्य प्राणः । स मे ददातु प्रजां पशून् पुष्टिं यशः । प्राणस्य च मे प्राणो भूयात् स्वाहा । अन्नायेदम् । द्यौरष्टहोता । सोऽनाधृष्यः । स मे ददातु प्रजां पशून् पुष्टिं यशः । अनाधृष्यश्च भूयासं स्वाहा । दिव इदम् । आदित्यो नवहोता । स तेजस्वी । स मे ददातु प्रजां पशून् पुष्टिं यशः । तेजस्वी च भूयासं स्वाहा । आदित्यायेदम् । प्रजापतिर्दशहोता स इदँ सर्वम् । स मे ददातु प्रजां पशून् पुष्टिं यशः । सर्वं च मे भूयात् स्वाहा ।

[[60]]

प्रजापतय इदम् । मनो ज्योतिर्जुषतामाज्यं विच्छिन्नं यज्ञँ समिमं दधातु । या इष्टा उषसो निम्रुचश्च तास्सन्दधामि हविषा घृतेन स्वाहा । मनसे ज्योतिष इदम् । यन्म आत्मनो मिन्दाभूदग्निस्तत्पुनराहार्जातवेदा विचर्षणिः स्वाहा ।

पुनरग्निश्चक्षुरदात् पुनरिन्द्रो बृहस्पतिः । पुनर्मे अश्विना युवं चक्षुराधत्तमक्ष्योः स्वाहा । आत्मन इदम् । भूरग्नये पृथिव्यै स्वाहा । अग्नय इदम् । भुवो वायवेऽन्तरिक्षाय स्वाहा । वायवेऽन्तरिक्षाय इदम् । सुवरादित्याय दिवे स्वाहा ॥ आदित्याय दिव इदम् । भूर्भुवस्सुवश्चन्द्रमसे दिग्भ्यः स्वाहा चन्द्रमसे दिग्भ्य इदम् । भूरन्नमग्नये पृथिव्यै स्वाहा । अग्नये पृथिव्या इदम् । भुवोऽन्नं वायवेऽन्तरिक्षाय स्वाहा । वायवेऽन्तरिक्षायेदम् । सुवरन्नमादित्याय दिवे स्वाहा । आदित्याय दिव इदम् । भूर्भुवस्सुवरन्नं चन्द्रमसे दिग्भ्यस्स्वाहा । चन्द्रमसे दिग्भ्य इदम् । भूरग्नये च पृथिव्यै च महते च स्वाहा । अग्नये पृथिव्यै महत इदम् । भुवो वायवे चान्तरिक्षाय च महते च स्वाहा । वायवेऽन्तरिक्षाय महत इदम् । सुवरादित्याय च दिवे च महते च स्वाहा । आदित्याय दिवे महत इदम् । भूर्भुवस्सुवश्चन्द्रमसे च नक्षत्रेभ्यश्च दिग्भ्यश्च महते च स्वाहा । चन्द्रमसे नक्षत्रेभ्यो दिग्भ्यो महत इदम् । भूः स्वाहा । अग्नय इदम् । भुवः स्वाहा । वायव इदम् । सुवस्स्वाहा । सूर्यायेदम् । भूर्भुवस्सुवस्स्वाहा ।

[[61]]

प्रजापतय इदम् । अनाज्ञातं यदाज्ञातं यज्ञस्य क्रियते मिथु । अग्ने तदस्य कल्पय त्वँ हि वेत्थ यथातथँ स्वाहा । अग्नय इदम् । पुरुषसंमितो यज्ञो यज्ञः पुरुषसंमितः । अग्ने तदस्य कल्पय त्वँ हि वेत्थ यथातथँ स्वाहा । अग्नय इदम् । यत्पाकत्रा मनसा दीनदक्षान । यज्ञस्य मन्वते मर्त्यासः । अग्निष्टद्धोता क्रतुविद्विजानन् । यजिष्ठो देवाँ ऋतुशो यजाति स्वाहा । अग्नये इदम् । श्रीविष्णवे स्वाहा । श्रीविष्णवे परमात्मन इदम् । अग्निम् अप्रदक्षिणं परिषिच्य इत्यग्निनष्टप्रायश्चित्तं कृत्वा, तस्मिन्नग्नौ सञ्चयनहोमं कुर्यात् ।