३६ सुब्रह्मण्याह्वानं, वसतीवरीग्रहणं च

सुब्रह्मण्य पितापुत्रीयां सुब्रह्मण्यामाह्वय इति सम्प्रेष्यति । आहूतायां ब्रह्मणा सह वसतीवरीग्रहणार्थं गच्छति । गिरिभिदां वहन्तीनां प्रत्यङ्तिष्ठन् छायायै चातपतश्च सन्धौ गृह्णाति । कुम्भं प्रतीपमुपमारयति । हविष्मतीरिमा आपो हविष्मान्देवो अध्वरो हविष्माꣳ आ विवासति हविष्माꣳ अस्तु सूर्यः वसतीवरीर्गृह्णाति । अग्नेर्वोऽपन्नगृहस्य सदसि सादयामि अपरेण शालामुखीयमुपसादयति । सुम्नाय सुम्निनीस्सुम्ने मा धत्त सर्वेषु वसतीवरीणां सादनेषु यजमानो जपति । यस्यागृहीता अभिनिम्रोचेत् सुवर्न घर्मस्स्वाहा । घर्मायेदम् । सुवर्नार्कस्स्वाहा । अर्कायेदम् । सुवर्न शुक्रस्स्वाहा । शुक्रायेदम् । सुवर्न ज्योतिस्स्वाहा । ज्योतिष इदम् । सुवर्न सूर्यस्स्वाहा । सूर्यायेदम् । पञ्चार्काहुतीर्हुत्वा ब्रह्माध्वर्युभ्यां वरे दत्ते । उल्कां उपरिष्टाद्धारयमाणो गृह्णीयात् ।