३७ वेदिकरणम्

अन्तरा मध्यमे प्रवर्ग्योपसदौ वेदिं कुर्वन्ति । प्राग्वंशस्य मध्यमाल्लालाटिकात् त्रीन् प्राचः प्रक्रमान् प्रक्रम्य शङ्कुं निहन्ति । तस्मात्पञ्चदशसु दक्षिणतः एवमुत्तरतः ते श्रोणी । प्रथमनिहताच्छङ्कोष्षट्त्रिंशतिः पुरस्तात् । तस्मात् द्वादशसु दक्षिणतः । एवमुत्तरतः तावंसौ इति शुल्बमानं कृत्वा । विमिमे त्वा पयस्वतीन्देवानां धेनुꣳसुदुघामनस्फुरन्तीम् । इन्द्रस्सोमं पिबतु क्षेमो अस्तु नः इति पुनर्मानं कृत्वा । सर्वतः स्यन्द्यया १ पर्यातनोति । मध्ये पृष्ठ्याम् । इमान्नराः कृणुत वेदिमेत्य वसुमतीꣳ रुद्रवतीमादित्यवतीं वर्ष्मं दिवो नाभा पृथिव्या यथाऽयं यजमानो न रिष्येद्देवस्य सवितुस्सवे संप्रेष्यति । स्फ्येन विघनेन पर्श्वा परशुना च सर्वे अध्वर्यवो वेदिं कुर्वन्ति । वेदिकरणानि प्रज्ञातं निधाय । त्वया वेदिमिति वेदं कृत्वा । स्फ्यादानादि दर्शपूर्णमासवत्सन्नमनवर्जं प्रागुत्तरात्परिग्राहात्करोति । उपरवदेशे स्तम्बयजुर्हरणम् । ऋतमसीति पूर्वपरिग्रहः । उत्तरस्माद्वेद्यंसादुदक्प्रक्रमे चात्वालः । चतुरस्रोऽवटाकारः । उत्तरवेदिपरिमितः । चात्वालाद्द्वादशसु प्रक्रमेषु प्रत्यगुत्करः । तस्मिन्निवपति । चतुश्शिखण्डा युवतिस्सुपेशा घृतप्रतीका भुवनस्य मध्ये । तस्याꣳसुपर्णावधि यौ निविष्टौ तयोर्देवानामधि भागधेयम् वेदिमभिमन्त्र्य । अथोत्तरवेदिमुपवपति । वित्तायनी मेऽसि इत्यादि दक्षिणतो निस्सारणान्तं कृत्वा ।

[ तद्यथा = अपरेण यूपावटदेशं सञ्चरमवशिष्य वेद्यां शम्यामात्रीमुत्तरवेदिं करोति । शम्यां पुरस्तादुदगग्रान्निधाय । स्फ्येनोदीचीमभ्यन्तरं परिलिखति वित्तायनी मेऽसि । अप उपस्पृश्य । एवं दक्षिणतः प्राचीं तिक्तायनी मेऽसि । पश्चादुदीचीं अवतान्मा नाथितम् । उत्तरतः प्राचीं अवतान्मा व्यथितम् ।