०५ हविर्धानस्य मानम्

अस्मिन्काले हविर्धानस्य शुल्बमानम् । नवारत्निविस्तारं नवायामं मीत्वा । हविर्धाने संमीयमाने ब्रह्मा चात्वालोत्करावन्तरेण गत्वाऽपरेणोत्तरवेदिं दक्षिणातिक्रम्य दक्षिणत उपविशत्या वैसर्जनकालादास्ते । अध्वर्युः :- महो वा विष्णो सर्वतः स्थूणाः परिमिनोति पुरस्ताच्चान्तः खरायावकाशं शिष्ट्वा, उदञ्चौ वंशावत्यादधाति । पश्चात्पुरस्ताच्च । समानं साङ्काशिनं शालामुखीयहोत्रीयौत्तरवेदिकानाम् । विष्णो रराटमसि पुरस्ताद्रराट्यां तिर्यञ्चं वंशं धारयन् । विष्णोस्स्यूरसि स्यूत्वा । विष्णोर्ध्रुवमसि प्रज्ञातं ग्रन्थिं कृत्वा । प्राचो वंशानत्याधाय । विष्णोः पृष्ठमसि तेषु मध्यमं छदिरध्यूहति त्र्यरत्निविस्तारं नवायामम् । तूष्णीमितरे छदिषी अध्यूह्य । छद्यन्तरालेषु प्रवर्तमुपास्यति कटांस्तेजनीरिति । तेऽन्तर्वर्ता भवन्ति । परि त्वा गिर्वणो गिर इमा भवन्तु विश्वतो वृद्धायुमनु वृद्धयो जुष्टा भवन्तु जुष्टयः सर्वतः परिश्रित्य । विष्णो श्नप्त्रेस्थः रराट्या अन्तौ संमृशति । विष्णोस्स्यूरसि दक्षिणां द्वार्बाहुं स्यूत्वा । विष्णोर्धुवमसि प्रज्ञातं ग्रन्थिं करोति । एवमुत्तरां प्रतिप्रस्थाता एवमपरे सीव्यतः । पुरस्तादुन्नतं पश्चान्निनतं हविर्धानम् । वैष्णवमसि विष्णवे त्वा सम्मितमभिमृशति । नाध्वर्युः प्राङ् हविर्धानेऽतीयात् । अतीयाच्चेत् वैष्णव्यर्चा सञ्चरेत् । प्रतद्विष्णुस्तवते वीर्याय मृगो न भीमः कुचरो गिरिष्ठाः । यस्योरुषु त्रिषु विक्रमणेष्वधिक्षियन्ति भुवनानि विश्वा सम्मिताद्धविर्धानात् प्राङ् यजमानो निष्क्रम्य । आ आहवनीयात् त्रीन् प्राचः प्रक्रमान् प्रक्रामति यस्योरुषु त्रिषु विक्रमणेष्वधि क्षियन्ति भुवनानि विश्वा २ ।