१८ धारास्रावणं, ग्रहाणां च ग्रहणम्

पवित्रस्य यजमानो नाभिं कृत्वा तस्मिन् होतृचमसेन धारां स्रावयति । उदचनेन उन्नेताधवनीया-द्धोतृचमसे आनयति । सन्तता धारा स्रावयितव्या । कामो हास्य समर्धुको भवतीति विज्ञायते । अध्वर्युः - अन्तर्यामपात्रं प्रक्षाल्य । उपयामगृहीतोऽस्यन्तर्यच्छ मघवन् पाहि सोममुरुष्य रायस्समिषो यजस्वान्तस्ते दधामि द्यावापृथिवी अन्तरुर्वन्तरिक्षꣳ सजोषा देवैरवरैः परैश्चान्तर्यामे मघवन् मादयस्व धारया अन्तर्यामं गृहीत्वा प्रतिप्रस्थात्रे प्रयच्छति । न पवित्रसंमार्जनम् । स्वाङ्कृतोऽसि मधुमतीर्न इषस्कृधि विश्वेभ्यस्त्वेन्द्रियेभ्यो दिव्येभ्यः पार्थिवेभ्यः ग्रहमादाय २ । उर्वन्तरिक्षमन्विहि उत्तरेण होतारमतिक्रामति । येन वा होता प्रतिपादयेत् । मनस्त्वाष्टु उत्तरतोऽवस्थाय । उत्तरपरिधिसन्धिमन्ववहृत्य । स्वाहा त्वा सुभवस्सूर्याय उत्तरतः प्राञ्चं ऋजुं सन्ततं दीर्घं हुत्वा । इन्द्रायेदम् । देवेभ्यस्त्वा मरीचिपेभ्यः मध्यमे परिधौ लेपं निमार्ष्टि । देवेभ्यो मरीचिपेभ्य इदम् । असर्वमाग्रयणस्थाल्यां सम्पातमवनीय । एष ते योनिरपानाय त्वा अरिक्तं पात्रमायतने सादयति । व्यानाय त्वा ते अन्तरे ग्रावाणमुपांशु-सवनम् पूर्ववत्सादयति । नानुदिते सूर्ये उपांश्वन्तर्यामौ जुहुयात् । उभावनुदिते होतव्यावित्येके ।

ऐन्द्रवायवपात्रं प्रक्षाल्य आ वायो भूष शुचिपा उप नस्सहस्रं ते नियुतो विश्ववार । उपो ते अन्धो मद्यमयामि यस्य देव दधिषे पूर्वपेयम् । उपयामगृहीतोऽसि वायवे त्वा गृहीत्वोपयम्य । इन्द्रवायू इमे सुताः । उप प्रयोभिरागतमिन्दवो वामुशन्ति हि । उपयामगृहीतोऽसीन्द्रवायुभ्यां त्वा पुनर्गृहीत्वा । पवित्रदशाभिः परिमृज्य । एष ते योनिस्सजोषाभ्यां त्वा यथायतनं सादयति ।

मैत्रावरुणपात्रं प्रक्षाल्य अयं वां मित्रावरुणा सुतस्सोम ऋतावृधा । ममेदिह श्रुतꣳ हवम् । उपयामगृहीतोऽसि मित्रावरुणाभ्यां त्वा गृहीत्वोपग्रहं गृहीत्वा । राया वयꣳ ससृवाꣳसो मदेम हव्येन देवा यवसेन गावः । तां धेनुं मित्रावरुणा युवं नो विश्वाहा धत्तमनपस्फुरन्ती १ । पञ्च दोहानां चतुर्थेन शृतशीतेन पयसा श्रीत्वा पवित्रदशाभिः परिमृज्य । एष ते योनिर् ऋतायुभ्यां त्वा सादयति ।

आश्विनमतीत्य शुक्रं गृह्णाति । शुक्रपात्रं प्रक्षाल्य । अयं वेनश्चोदयत्पृश्निगर्भा ज्योतिर्जरायू रजसो विमाने । इममपाꣳ सङ्गमे सूर्यस्य शिशुं न विप्रा मतिभी रिहन्ति । उपयामगृहीतोऽसि शण्डाय त्वा गृहीत्वा । हिरण्येन श्रीत्वा । पवित्रदशाभिः परिमृज्य । एष ते योनिर्वीरतां पाहि सादयति ।

मन्थिपात्रं प्रक्षाल्य । तं प्रत्नथा पूर्वथा विश्वथेमथा ज्येष्ठतातिं बर्हिषदꣳ सुवर्विदं प्रतीचीनं वृजनं दोहसे गिराशुं जयन्तमनु यासु वर्धसे । उपयामगृहीतोऽसि मर्काय त्वा गृहीत्वा । मनो न येषु हवनेषु जुह्वद्विपश्शच्या वनुथो द्रवन्ता । आयश्शर्य्याभिस्तुविनृम्णो अस्याश्श्रीणीता दिशं गभस्तात् २ । सक्तुभिश्श्रीणाति । अनभिध्वंसयन्नात्मानमितरांश्च ग्रहान् पवित्रदशाभिः परिमृज्य । एष ते योनिः प्रजाः पाहि सादयति ।

आग्रयणं गृह्णाति । य आग्रयणस्थाल्यां सोमस्तमन्यस्मिन् पात्र आनीय तां द्वितीयां धारां करोति । ये देवा दिव्येकादश स्थ पृथिव्या मध्येकादश स्थाप्सुषदो महिनैकादश स्थ ते देवा यज्ञमिमं जुषध्वमुपयामगृहीतोऽसि द्वाभ्यां धाराभ्यां गृहीत्वा । हिं हिं हिं त्रिर्हिङ्कृत्य वाचं विसृजते । सोमः पवते सोमः पवते सोमः पवते सुभूताय पवते ब्रह्मवर्चसाय पवतेऽस्मै ब्रह्मणे पवतेऽस्मै क्षत्राय पवतेऽस्यै विशे पवतेऽद्भ्यः पवत ओषधीभ्यः पवते वनस्पतिभ्यः पवते द्यावापृथिवीभ्यां पवतेऽस्मै सुन्वते यजमानाय पवते मह्यं ज्यैष्ठ्याय पवते यथा देवेभ्योऽपवथा एवं मह्यं पवस्व त्रिरुद्वदति शनैरुच्चैरथ सूच्चैः । पवित्रदशाभिः परिमृज्य । एष ते योनिर्विश्वेभ्यस्त्वा देवेभ्यः सादयति ।

त्रीनग्निष्टोमेऽतिग्राह्यान् गृह्णाति । अग्न आयूꣳषि पवस आ सुवोर्जमिषं च नः । आरे बाधस्व दुच्छुनाम् । उपयामगृहीतोऽस्यग्नये त्वा तेजस्वते गृहीत्वा । पवित्रदशाभिः परिमृज्य । एष ते योनिरग्नये त्वा तेजस्वते सादयति ।

उत्तिष्ठन्नोजसा सह पीत्वा शिप्रे अवेपयः । सोममिन्द्र चमू सुतम् । उपयामगृहीतोऽसीन्द्राय त्वौजस्वते गृहीत्वा । पवित्रदशाभिः परिमृज्य । एष ते योनिरिन्द्राय त्वौजस्वते सादयति ।

तरणिर्विश्वदर्शतो ज्योतिष्कृदसि सूर्य । विश्वमाभासि रोचनम् । उपयामगृहीतोऽसि सूर्याय त्वा भ्राजस्वते गृहीत्वा । पवित्रदशाभिः परिमृज्य । एष ते योनिस्सूर्याय त्वा भ्राजस्वते सादयति ।

स्थाल्योक्थ्यं गृह्णाति । उपयामगृहीतोऽसीन्द्राय त्वा बृहद्वते वयस्वत उक्थायुवे यत्त इन्द्र बृहद्वयस्तस्मै त्वा विष्णवे त्वा गृहीत्वा । पवित्रदशाभिः परिमृज्य । एष ते योनिरिन्द्राय त्वोक्थायुवे सादयति ।

ध्रुवस्थालीं पश्चिमेनोद्गातॄन् परिहृत्य मूर्धानं दिवो अरतिं पृथिव्या वैश्वानरमृताय जातमग्निम् । कविꣳ सम्राजमतिथिं जनानामासन्नापात्रं जनयन्त देवाः । उपयामगृहीतोऽस्यग्नये त्वा वैश्वानराय ध्रुवोऽसि ध्रुवक्षितिर्ध्रुवाणां ध्रुवतमोऽच्युतानामच्युतक्षित्तमः पूर्णं गृहीत्वा पवित्रदशाभिः परिमृज्य । एष ते योनिरग्नये त्वा वैश्वानराय आयतने हिरण्ये सादयेत् । सादनादि ध्रुवस्य न यजमानो मूत्रं करोत्या अवनयनात् । अत्र धारा विरमति ।