०१ स्त्रीणां जातकादिप्रयोगः

कन्यापिता ताम्बूलदक्षिणां गृहीत्वा -

नम॒स् सद॑से …स॒भाम् मे॑ गोपाय ...{Loading}...
नमस् सदसे ...{Loading}...
मूलम् (संयुक्तम्)

नम॒स्सद॑से॒ नम॒स्सद॑स॒स्पत॑ये॒ नम॒स्सखी॑नाम्पुरो॒गाणा॒ञ्चख्षु॑षे॒ नमो॑ दि॒वे नमᳶ॑ पृथि॒व्यै

विश्वास-प्रस्तुतिः

नम॒स् सद॑से॥
नम॒स् सद॑स॒स्-पत॑ये॥
नम॒स् सखी॑नाम् पुरो॒गाणा॒ञ् चख्षु॑षे॥
नमो॑ दि॒वे॥
नमᳶ॑ पृथि॒व्यै॥

मूलम्

नम॒स्सद॑से
नम॒स्सद॑स॒स्पत॑ये
नम॒स्सखी॑नाम्पुरो॒गाणा॒ञ्चख्षु॑षे
नमो॑ दि॒वे
नमᳶ॑ पृथि॒व्यै

भट्टभास्कर-टीका

‘ऐन्द्रं हि देवतया सदः’ इति इन्द्रः सदसस्पतिः पालयिता तस्मै नमः । ‘षष्ठयाः पतिपुत्र’ इति सत्वम् । सखीनां समानख्यानानामृत्विजां पुरोगाणामग्रतो गन्तृणां प्रधानानां सर्वेषामपि चक्षुषे चक्षुसथानीयाय दर्शनहेतवे सवित्रे च नमः । गतमन्यत् ॥

267 सप्रथ सभाम् ...{Loading}...

सप्र॑थ स॒भाम् मे॑ गोपाय ।
ये च॒ सभ्या᳚स् सभा॒सदः॑ ।
तानि॑न्द्रि॒याव॑तᳵ कुरु ।
सर्व॒म् आयु॒र् उपा॑सताम् ।

(सर्वे॑भ्यः श्रीवैष्ण॒वेभ्यो॒ नमः॑॥)

अशेषे हे परिषत् ...{Loading}...

स्वामिनः!
अशेषे हे परिषत्
भवत्-पादमूले मया समर्पिताम् इमां सौवर्णीं यत्-किञ्चिद्-दक्षिणां
यथोक्तदक्षिणामिव स्वीकृत्य

… नक्षत्रे … राशौ जाताम् इमां मम कुमारीं जातकर्म नामकरण, उपनिष्क्रामण, अन्नप्राशन, चूडाकर्मभिः - संस्कर्तुं योग्यतासिद्धिमनुगृहाण ।

विष्वक्सेनं सम्पूज्य - सङ्कल्प्य

अस्या मम कुमार्याः जातकर्म नामकरण, उपनिष्क्रामण, अन्नप्राशनचूडाकर्मणां स्व-स्वमुख्यकालेषु अकरणेन यो दोषः समजनि तद्दोषपरिहारार्थं प्राजापत्यकृच्छ्रप्रत्याम्नायं यत्किञ्चिद्धिरण्यदानं करिष्ये ।

Hira Nya garbha garbhastha M sampradade ...{Loading}...
हिरण्य-गर्भ--गर्भ-स्थं ...{Loading}...
विश्वास-प्रस्तुतिः

+++(हिरण्य!)+++ हिरण्य-गर्भ–गर्भ-स्थं
हेम-बीजं विभावसोः ।
अनन्त-पुण्य-फल-दम्
अतश् शान्तिं प्रयच्छ मे॥

मूलम्

हिरण्यगर्भगर्भस्थं
हेमबीजं विभावसोः ।
अनन्तपुण्यफलदम्
अदश्शान्तिं प्रयच्छ मे॥


हिरण्यगर्भगर्भस्थं
हेमबीजं विभावसोः ।
अनन्तपुण्यफलदम्
अतश्शान्तिं प्रयच्छ मे॥

दानम्, त्यागः

… यत्किञ्चिद्धिरण्यानि
नानागोत्रेभ्यः श्रीवैष्णवेभ्यः येभ्यस् तेभ्यः/ तुभ्यम् अहं
सम्प्रददे

(न मम॥)

प्राणानायम्य

…र्थं[[??]], … नक्षत्रे … राशौ जाताम् इमां मम कुमारीं जातां जातकर्मणा संस्करिष्यामि ।

कुमारीमभिमृश्य, अङ्के आधाय नक्षत्र नाम सम्बुध्या अभिमन्त्र्य, मूर्धन्यवघ्राय, दक्षिणे कर्णे च वदेत् । “मधु घृतमि"ति संसृज्य तस्मिन्दर्भेण हिरण्यं निष्टर्क्यं बध्वा, प्राशयित्वा, स्नापयित्वा (प्रोक्ष्य) “दधि धृतमि"ति संसृज्य कांस्येन पृषदाज्यं प्राशयित्वाऽद्भिः शेषं संसृज्य गोष्ठे निनयेत् । मातुरुपस्थ आधाय दक्षिणं स्तनं प्रतिधाप्य, पृथिवीमभिमृश्य, तां संवेश्य, संविष्ठामभिमृश्य शिरस्त उदकुम्भं निदधाति ।

कृतस्य जातकर्मणः करिष्यमाणानां नामकरणउपनिष्क्रामण, अन्नप्राशन + चूडाकर्मणाम् अङ्गभूतम् आभ्युदयिकं हिरण्यरूपेण करिष्ये - अभ्युदयं पुण्याहञ्च कुर्यात् । प्राणानायम्य । “… नक्षत्रे … राशौ जातायाः अस्याः कुमार्याः नाम धास्यावः” । दक्षिणे कर्णे नाम उक्त्वा पुण्याहं वाचयेत् । मध्ये नामकरणकर्मणि नाम्न्यै आयुष्मत्यै स्वस्ति भवन्तः ब्रुवन्तु । इति ।

[[125]]

शेषः यथावत् । उपनिष्क्रामणकर्मणा संस्करिष्यामि । पुण्याहम् अभिमन्त्रणं मूर्धन्यवघ्राणम् । अत्र नामकर्मकर्मणि उदितं नाम सम्बुध्या वदेत् ।

सर्वँस्मात्, आत्मनॅः, सम्भूँतासि, साजीँव, शरदँश्शतम् [[TODO::परिष्कार्यम्??]]

इत्यभिमन्त्रणम्

अन्नप्राशनेन कर्मणा संस्करिष्यामि । पुण्याहम् । दधिमधुघृतमोदनमिति संसृज्य प्राशयेत् । चूडाकर्मणा संस्करिष्यामि । पुण्याहम् । शर्कराज्यपयःप्राशनं त्रेण्या शलल्या त्रिभिर्दर्भपुञ्जीलैः शलालुग्लफ्सेनेति तूष्णीं केशान् विनयेत् ॥