१३ प्राचीनवंशकरणं, यजमानपत्न्योः दीक्षाङ्गसंस्काराः, क्षौरम्

प्राचीनवंशं करोति । षोडश प्रक्रमायामाः द्वादश व्यासः, पुरस्तादुन्नतं, पश्चान्निनतम् सर्वतः परिश्रितम् । अवान्तरदिक्षु स्रक्तयः, स्रक्तिष्वारोकान्करोति । प्रतिदिशं द्वाराणि । उत्तरेण बहिः प्राग्वंशं परिश्रिते यजमानः केशश्मश्रु वापयते । अध्वर्युः :- तूष्णीं श्मश्रूपपक्षयोर्वपने कृत्वा अपि वा उपपक्षश्मश्रूणां वपने कृते । आप उन्दतु जीवसे दीर्घायुत्वाय वर्चसे दक्षिणं गोदानमुनत्ति । ओषधे त्रायस्वैनम् प्रागग्रं दर्भमन्तर्धाय । ओषधे त्रायस्व मा यजमानो जपति । स्वधिते मैनꣳ हिꣳसीः स्वधितिनाभिनिधाय । स्वधिते मा मा हिꣳसीः यजमानो जपति । देवश्रूरेतानि प्रवपे प्रवपति । स्वस्त्युत्तराण्यशीय यजमानो जपति । एवमुत्तरं गोदानम् । आप उन्दन्त्विात्याद्यशीयेत्यन्तम् । उपपक्षावग्रेऽथ श्मश्रूण्यथ केशान् । अपि वा श्मश्रूण्युपपक्षावथ केशान् १। पत्न्या उपपक्षश्मश्रूणां वपनं केशवर्जम् । नखनिकृन्तनमुभयोः । सव्यस्याग्रे कनिष्ठिकातः । अभ्यन्तरं नखानि कारयते । हस्त्यान्यग्रेऽथ पद्यानि ।