०२ सोमप्रवाकवरणं, ऋत्विग्भ्यः सोमनिवेदनं च

अस्मिन् ज्योतिष्टोमेऽग्निष्टोमे सोमे सोमप्रवाकं त्वां वृणीमहे इति वृत्वा, वृतोऽस्मि करिष्यामीति सोमप्रवाकः । मधुपर्कादिभिरभ्यर्च्य । सोमप्रवाक सोमं मे प्रब्रूहि ऋत्विग्भ्य इत्याह । केभ्य इति सोमप्रवाकेनोक्ते । यजमानः :- विष्णुशर्मादिभ्य इत्याह । अथ सोमप्रवाकः प्रथममध्वर्युगृहं गत्वा यज्ञशर्मणस्सोमो भविष्यति तत्र भवता आध्वर्यवं कर्तव्य ं इत्याह । अध्वर्युस्तं पृच्छति क ऋत्विज इति । आधानादिषु कर्मसु देवदत्तादय इत्याह सोमप्रवाकः । पुनश्च के याजयन्ति इति पृच्छति । ते चान्ये च ३ इत्याह । अध्वर्युणा कच्चिन्नाहीनः इति पृष्टे । नाहीनो ज्योतिष्टोमोऽग्निष्टोमः सोम इत्याह । अध्वर्युणा कच्चिन्न न्यस्तमार्त्विज्यं ४ इति पृष्टे । न न्यस्तमार्त्विज्यं यजमानदोषेण इत्याह । अध्वर्युणा कच्चित् कल्याण्यो दक्षिणाः इति पृष्टे । सोमप्रवाकः सन्ति कल्याण्यो दक्षिणास्सुरूपाः बहुमूल्याः द्वादशशतं गावः इत्याह । अथाध्वर्युर्जपति महन्मे वोचो भर्गो मे वोचो यशो मे वोचस्स्तोमं मे वोचः क्ऌप्तिं मे वोचो भुक्तिं मे वोचस्सर्वं मे वोचस्तन्मावतु तन्माविशतु तेन भुक्षिषीय इति जपित्वा । पद्वा नामासि स्रुतिस्सोमसरणी सोमं गमेयम् यजमानगृहं गच्छन् पन्थानमातिष्ठते । देवो देवमेतु सोमस्सोममेत्वृतस्य पथा विहाय दौष्कृत्यम् इत्यभिप्रव्रजति । पितरो भूः प्राचीनावीती दक्षिणावृत्तस्स्वान् पितॄनुपतिष्ठते । यज्ञोपवीत्यप उपस्पृश्य । जीवत्पितृकस्य नोपस्थानम् । प्रतिप्रस्थातृनेष्ट्रुन्नेतॄणां क्रमेणैवम् । एवं भवता ब्रह्मत्वं कर्तव्यमित्यादि प्रश्नप्रतिवचने पूर्ववत् । ब्राह्मणाच्छंस्याग्नीध्रपोतॄणां क्रमेणैवम् ।