१० सोमपूजा, सप्तहोतृहोमश्च

अपरित्यज्याग्निं अत्र राजानमाहृत्य अध्वर्युब्रह्मयजमानाः नमस्सोमाय राज्ञे इति गन्धादिभिरभ्यर्च्य । पयसौदनेन परिवेविषन्ति आ क्रयात् । धूपदीपौ न स्तः १। अग्निं परित्यज्य । पुनर्विहृत्य जुह्वां सकृद्गृहीत्वा । सप्तहोतारं मनसानुद्रुत्य आहवनीये सग्रहं जुहोति । महाहविर्होता । सत्यहविरध्वर्युः । अच्युतपाजा अग्नीत् । अच्युतमना उपवक्ता । अनाधृष्यश्चाप्रतिधृष्यश्च यज्ञस्याभिगरौ । अयास्य उद्गाता । वाचस्पते हृद्विधे नामन् । विधेम ते नाम । विधेस्त्वमस्माकं नाम । वाचस्पतिस्सोममपात् । मा दैव्यस्तन्तुश्छेदि मा मनुष्यः । नमो दिवे । नमः पृथिव्यै स्वाहा । वाचस्पतये ब्रह्मण इदम् । अग्निं परित्यज्य । सोमे सप्तहोतारं हुत्वा पुनर्विहृत्य कूश्माण्डैर्जुहोति । अग्निं परित्यज्य ।