०२ बीजावापन-मन्त्रः

ब्रह्मजज्ञानं प्रथमं पुरस्तात् विसीमतस्सुरुचो वेन आवः ।
स बुध्निया उपमा अस्य विष्ठास्सतश्च योनिमसतश्च विवः ।
पिता विराजामृषभो रयीणामन्तरिक्षं विश्वरूप आविवेश ।
तमर्कैरभ्यर्चन्ति वत्सं ब्रह्म सन्तं ब्रह्मणा वर्धयन्तः ।

ब्रह्मादिभ्यो नमः, अयं बीजावापः सकृन्मन्त्रेण द्विस्तूष्णीम् ।

यत इन्द्र भयामहे ततो नो अभयं कृधि ।
मघवञ्छग्धि तव तन्न ऊतये विद्विषो विमृधो जहि ।
स्वस्तिदा विशस्पतिर्वृत्रहा विमृधो वशी ।
वृषेन्द्रः पुर एतु नः स्वस्तिदा अभयङ्करः ।

इन्द्रादिभ्यो नमः, अयं बीजावापः सकृन्मन्त्रेण द्विस्तूष्णीम् ।

[[75]]

योऽस्य कौष्ठ्य जगतः पार्थिवस्यैक इद्वशी ।
यमं भङ्ग्यश्रवो गाय यो राजानपरोध्यः ।
यमं गाय भङ्ग्यश्रवो यो राजा न परोध्यः ।
येनापो नद्यो धन्वानि येन द्यौः पृथिवी दृढा ॥

यमादिभ्यो नमः, अयं बीजावापः सकृन्मन्त्रेण द्विस्तूष्णीम् ।

इमं मे वरुण श्रुधीहवमद्या च मृडय ।
त्वामवस्युराचके ।
तत्त्वायामि ब्रह्मणा वन्दमानस्तदाशास्ते यजमानो हविर्भिः ।
अहेडमानो वरुणेह बोद्ध्युरुशँस मा न आयुः प्रमोषीः ॥

वरुणादिभ्यो नमः, अयं बीजावापः सकृन्मन्त्रेण द्विस्तूष्णीम् ।

सोमो धेनुँसोमो अर्वन्तमाशुम् । सोमो वीरं कर्मण्यं ददातु ।
सादन्यं विदथ्यँसभेयम् । पितु श्रवणय्ँयो ददाश दस्मै ।
आप्यायस्व समेतु ते विश्वतः सोम वृष्णियम् ।
भवावाजस्य सङ्गथे ।

सोमादिभ्यो नमः, अयं बीजावापः सकृन्मन्त्रेण द्विस्तूष्णीम् ।

शुद्धाभिः सिकताभिः प्रच्छाद्य सुमङ्गलीभिः जलं प्रक्षिप्य, प्रणवेन पिधाय, ओमिति सर्वेषामपिधानं यावत्कर्मान्तं तावत् सुरक्षितं गोपयेत् ॥