सौत्रमणिः

प्रयोगग्रन्थेषु एकस्य ग्रहस्य ग्रहणं सक्तुभिः श्रयणं आयतने आसादनं इत्येतत्त्रयं कृत्वा अपरस्य उक्तम् । अस्माभिस्तु सूत्रं भाष्यं च दृष्ट्वा एवं परिवर्तितम् । )

अथाङ्गसौत्रामणि प्रयोगः

सौत्रामण्या यक्ष्यमाणः पर्वणि प्रातरग्निहोत्रं हुत्वा, अपरेण गार्हपत्यं दर्भेष्वासीनो दर्भान् धारयमाणः पवित्रपाणिः पत्न्या सह प्राणानायम्य संकल्प्य, श्री परमेश्वरप्रीत्यर्थं अग्निं चित्वा तदग्ङ्गसौत्रामण्या यक्ष्ये । (अग्निं चित्वा सौत्रामण्या यक्ष्ये । श्री परमेश्वरप्रीत्यर्थं सौत्रामण्या यक्ष्ये । इति पाठा०) समारोप्य देवयजनं गत्वा मथित्वा लौकिके वोपारोह्य आयतने निधाय । विद्युदसि । अस्यां सौत्रामण्यां अध्वर्युं त्वां वृणीमहे । एवं ब्रह्माणं होतारमाग्नीध्रं प्रतिप्रस्थातारं प्रशास्तारं च वृणीते । तस्याः निरूढपशुबन्धवत्कल्पः । पयोग्रहपक्षमाश्रित्य प्रयोगः । षड्ढोतारं हुत्वा पशुबन्धवत् आग्नावैष्णवेष्ट्या यजेत । इष्ट्यन्ते शाखाहरणादि चषालकरणान्तम् । एको यूपः त्रयस्स्वरवः । सौमिक्या वेदितृतीये यजेतेति विज्ञायते ।

सौमिकविहारप्रक्रमस्य त्रिकरणी प्रक्रमस्थानीया भवति । तेन मानदण्डेन दश पश्चात्तिर्यक् द्वादश प्राची अष्टौ पुरस्तात्तिर्यक् । {३० अङ्गुलाः एकः प्रक्रमश्चेत् त्रिकरणी ५१अङ्गुलाः, ३३ तिलाः । २४ अङ्गुलाः एकः प्रक्रमश्चेत् त्रिकरणी ४१ अङ्गुलाः, १९ तिलाः । २० अङ्गुलाः एकः प्रक्रमश्चेत् त्रिकरणी ३४ अङ्गुलाः, २२ तिलाः ।} पदमानेन सौमिकी वेदिः मीयते चेत् {१५ अङ्गुलाः एकः पदश्चेत् त्रिकरणी २५ अङ्गुलाः, ३३.५ तिलाः । १२ अङ्गुलाः एकः पदश्चेत् त्रिकरणी २० अङ्गुलाः, २७ तिलाः । १० अङ्गुलाः एकः पदश्चेत् त्रिकरणी १७ अङ्गुलाः, ११ तिलाः ।}(सौमिकी वेदिः प्रक्रमेण वा पदेन वा मीयते । प्रक्रमेषु पदेषु च मानविकल्पाः प्रयोगेषु दृष्टाः । सौमिक्या वेदितृतीये यजेतेति सौत्रामण्या विज्ञायते इति सौत्रामण्याः वेदिमानं सूत्रकारेण विहितम् । एतेन येन यजमानेन यादृशेन मानेन सौमिकी वेदिः कृता तेन तादृशेन मानेनैव सौत्रामणीवेदिः कर्तव्या इति न्याय्यम् ।)एवं शौल्बमानेन मीत्वा । त्वया वेदिमिति वेदं कृत्वा मन्त्रेण वेदिकरणम् । प्रागुत्तरात्परिग्राहात्कृत्वा शम्यामात्रीमुत्तरवेदिं करोति । वित्तायनी मेऽसि इत्यादि उरु प्रथस्व इत्यन्तं करोति । उत्तरवेद्यां क्रियमाणायां प्रतिप्रस्थाता चात्वालात्पुरीषमाहृत्य दक्षिणेनोत्तवेदिमरत्निमात्रं चतरस्रं खरं करोति तूष्णीम् । अग्रेणान्वाहार्यपचनं अदूरे वेद्यामेव पयोग्रहार्थं द्वितीयं खरं करोति । अध्वर्युः ध्रुवासि इत्यादि दक्षिणतो निस्सारणान्तं कृत्वा । आहवनीये प्रणयनीयमिध्ममादीप्येत्यादि । ऊर्णावन्तमिति होतुरभिज्ञायाग्नीधेऽग्निं प्रदाय जुह्वां पञ्चगृहीतं गृहीत्वेत्याद्यतिमुक्तिहोमान्तं पशुवत् । औत्तरवेदिके अग्नौ प्रणीयमाने प्रतिप्रस्थाता दक्षिणाग्नेरग्निमाहृत्य दक्षिणेनोत्तरवेदिं तूष्णीं खरे न्युप्य यथा व्यवायो अन्यैरग्न्योः न भवति तथा कृत्वोपसमादधाति ।

अध्वर्युरुत्तरेण गार्हपत्यमित्यादि । इध्माबर्हिराहरति । आश्ववालः प्रस्तरः । ऐक्षवी विधृती । कार्ष्मर्यमयाः परिधयः । त्रयोविंशतिदारुरिध्मः । नेध्मप्रव्रश्चनम् । न वेदकरणम् । अन्तर्वेदिशाखायामित्यादि । न तृतीयस्यै । न पर्णवल्कः । पशून् हव्यं करोतु मे । पशुकुम्भीनां लेपनान्तम् । इमौ पर्णं च । अत्र पशुशाखया प्रतिप्रस्थाता वत्सानपाकरोति । परिस्तृणीत । देवा देवेषु । कर्मणे वाम् इत्यादि । प्रात्रप्रयोगकाले द्वे यूपरशने तिस्रः पशुरशना कुम्भीत्रयं वपाश्रपणी युगलत्रयं त्रीन् हृदयशूलान् (एक एव हृदयशूलः प्रयोगग्रन्थेषु उक्तः । अवभृथगमनावसरे हृदयशूलैः सूत्रे इत्युक्तत्वात्, परिभाषासूत्रे जातिभेदे तु भिद्येत । पक्तिवैषम्यात् इति सूत्रे भाष्ये च पशुभेदेन हृदयशूलभेदस्य उक्तत्वात् एवं परिष्कृतम् ।) इतराणि पशुवत् (स्रुवस्स्वधित्यौ जुहूवसाहोमहवन्यौ च द्वन्द्वम् । उपभृत्पृषदाज्यधान्यौ ध्रुवया द्वन्द्वम् । स्थाल्यौ (दध्याज्य) वेदेन द्वन्द्वम् । उपवेषमिडापात्रेण द्वन्द्वम् । प्लक्षशाखां त्रीन् हृदयशूलान् वपाश्रपयुगलत्रयं तिस्रः पशूखाः शाखापवित्रेण द्वन्द्वम् । औदुम्बरेण मैत्रावरुणदण्डेन आस्यदघ्नेन चुबुकदघ्नेन वा रशना (द्वे यूपरशने, तिस्रः पशुरशनाः ) योक्त्रेण सार्धम् । परिवासनानि दर्भास्स्वरुं च द्वन्द्वम् । यूपेन सार्धं यवा दर्भौ । शकलैस्सह यूषार्थपात्रं लौकिकमाज्यपात्रं च प्रयुज्य) तथा अपरस्मिन् खरे त्रीणि पलाशग्रहपात्राणि पयोग्रहार्थं प्रयुनक्ति । सतं वालस्रावं श्येनपत्रं श्रयणानि च । ( सतं = परिमण्डलं द्रोणकलशाकृतिः । वालस्रावः = वालमयं पवित्रं, शुचिभिः गोवालैः कृतं सुरागालनार्थं, केचिद्दशापवित्रवत् वस्त्रं वा । श्येनपत्रं = श्येनपुच्छः । श्रयणानि = क्वलबदरकर्कन्धुसक्तूनि ।) सान्नाय्यार्थं प्रातर्दोहपात्राणि च शतातृण्णां च । (शतातृण्णां = शतछिद्रां मृन्मयीं स्थालीम् ।)

पवित्रकरणादि । यजमान वाचं यच्छ । पाशुकानि पात्राणि संमृश्य ऊर्ध्वपात्राणि संमृशति । प्रोक्षणकाले शुन्धध्वं इति ग्रहपात्रादीनामपि प्रोक्षणम् । पात्रसम्मार्जनकाले जुहूवत् ग्रहपात्राणि सम्मार्ष्टि । अग्नेर्वस्तेजिष्ठेन इत्यादि । यूपोच्छ्रयणान्तं कृत्वा । देवस्य वां सवितुः प्रसवे इति हस्तद्वयेन यूपरशनाद्वयमादाय । परिवीरसि इत्यनूहेनैव परिव्ययति । दिवः सूनवस्स्थ स्वरुत्रयमादाय स्वरूणां चिह्नं कृत्वा । अन्तरिक्षस्य वः सानाववगूहामि अवगूहनान्तं कृत्वा । (अत्र पशुशाखोपवेषौ एव उपयुज्येते । ) अत्र प्रातर्दोहं दोहयति एता आचरन्ति इत्यादि कामधुक्षः प्र णो ब्रूह्यश्विभ्याꣳ् सरस्वत्या इन्द्राय सुत्राम्णे हविरिन्द्रियम् । बहुदुग्ध्यश्विभ्याꣳ् सरस्वत्या इन्द्राय सुत्राम्णे देवेभ्यो हव्यमाप्यायतां पुनः । सङ्क्षाळननिनयनान्तं कृत्वा । अन्तरितम् । अविदहन्त । यस्य आत्मा । दृꣳ्ह इत्युद्वास्य । ब्राह्मणस्य मूर्धनि खरे वा तूष्णीं सादयति । श्रयणानि च । इदमिन्द्रियं, अयं यज्ञो, ममाग्ने पञ्चहोता इत्यासन्नाभिमर्शनम् ।

खरस्याधस्तात् सतं वालस्रावं दशापवित्रं वितत्य । पुनातु ते परिस्रुतꣳ् सोमꣳ् सूर्यस्य दुहिता । वारेण शश्वताातना इति तस्मिन् पयः पावयित्वा । (खरादधस्तात् हृत्वा वालमयेन पवित्रेण पयः पावयति इति पाठान्तरम् ।) पुनः खरे सादयित्वा पशूनुपाकरोति । अथ पशुप्रायश्चित्तानि कृत्वा पशून् स्नपयन्ति । इषे त्वा इत्यादि । अश्विभ्यां त्वा जुष्टमुपाकरोमि धूम्रमजमुपाकरोति । प्रज्ञाते बर्हिषी निधाय (धूम्रमजं = तिलकयुक्तं छागम् ।)। पुनः इषे त्वा इत्यादि । अन्ये बर्हिषी आदाय । तयैव प्लक्षशाखया सरस्वत्यै त्वा जुष्टमुपाकरोमि मेषमुपाकरोति । प्रज्ञाते बर्हिषी निधाय । पुनः इषे त्वा इत्यादि । अन्ये बर्हिषी आदाय । तयैव प्लक्षशाखया इन्द्राय त्वा जुष्टमुपाकरोमि वृष्णिमुपाकरोति (वृष्णिः = पुं मेषः) । प्रज्ञाते बर्हिषी निधाय । उपाकृत्य पञ्चजुहोति । प्रजानन्तः — सुवर्गं यात पथिभिः —प्रतितिष्ठत शरीरैस्स्वाहा । पशुभ्य इदम् । येषामीशे — निष्क्रीता इमे यज्ञियं भागं यन्तु रायस्पोषा —ट्ठसन्तु स्वाहा ॥ ये बध्यमानाननुबध्यमाना अभ्यैक्षन्त — संविदानस्स्वाहा ॥ य आरण्याः — स्वाहा ॥ प्रमुञ्चमाना — देवाः । उपाकृताञ्च्छशमानान् यदस्थाज्जीवं देवानामपि यन्तु पाथस्स्वाहा ॥ एकयूपे पशूनुपाकरोति ।

देवस्य त्वा इत्यादि अश्विभ्यां त्वा जुष्टं नियुनज्मि । सरस्वत्यै त्वा जुष्टं नियुनज्मि । इन्द्राय त्वा जुष्टं नियुनज्मि । दक्षिणतो यूपस्य नियुनक्ति । एवं प्रोक्षणे वपाया उद्धरणे हृदयस्याभिघारणे च ।

अश्विभ्यां त्वा जुष्टं प्रोक्षामि । अपां पेरुरसीत्यादि सर्वतश्च प्रोक्ष्येत्यन्तं एकस्य कृत्वा पुनरन्यस्य करोति । सरस्वत्यै त्वा जुष्टं प्रोक्षामि । इन्द्राय त्वा जुष्टं प्रोक्षामि । स्रुच्यमाघार्य प्रत्याक्रम्य । जुह्वा पशून् समनक्ति । सं ते प्राणो वायुना इत्यादि । श्रोण्यां, इत्यन्तं एकस्य कृत्वा इतरस्य करोति । ध्रुवा समञ्जनादि कर्म प्रतिपद्यते । दश प्रयाजानिष्ट्वा प्रत्याक्रम्य जुह्वा स्वरुत्रयं स्वधितिं च अनक्ति । स्वर्वञ्जनं तन्त्रेण करोति । सकृत् स्वधितेरन्यतरां धाराम् । स्वरुमन्तर्धाय स्वधितिना आश्विनं पशुं समनक्ति । घृतेनाक्तौ पशुं त्रायेथां । पुनः पुनः स्वधित्यञ्जनम् । अन्यमन्यं स्वरुमन्तर्धाय स्वधितिना एवमितरौ समनक्ति । घृतेनाक्तौ—। पर्यग्निकरणं तन्त्रेण । पर्यग्नये क्रियमाणायानुब्रूहि इत्यनूहेन सम्प्रेष्यति । प्रजानन्तः —सुवर्गं यात पथिभिः — प्रतितिष्ठत शरीरैस्स्वाहा । पशुपतेः पशवो — तेषां यान् वव्रिरे देवास्ताꣲ् स्वराडनुमन्यताꣲ् स्वाहा ॥ त्रयाणां तन्त्रेण प्रमोकः । ये बध्यमानाननुबध्यमाना अभ्यैक्षन्त संविदानस्स्वाहा ॥ प्रमुच्यमाने । प्रमुञ्चमाना — देवाः । उपाकृताञ्च्छशमानान् यदस्थाज्जीवं देवानामपि यन्तु पाथस्स्वाहा ॥ प्रणीयमाने । रेवतीर्यज्ञपतिं प्रियधाऽऽविशत वपाश्रपणीभ्यां मुख्यं पशुमन्वारभेते अध्वर्युर्यजमानश्च । एक एव अध्रिगुसम्प्रैषः । तन्त्रेण अग्नेर्हरणम् । नाना प्राणो यजमानस्य पशुभिर्यज्ञो देवेभिस्सह देवयानः । जीवं देवानामपि यन्तु पाथस्सत्यास्सन्तु यजमानस्य कामाः ॥ अध्वर्युर्जपति । पृथिव्यास्सम्पृचः पाहि इत्यावर्तते । तत्तद्बर्हिरुपास्यति । अमायुं कृण्वतः संज्ञपयत इति सम्प्रैषः । स्वर्विदस्स्थ स्वर्वित्वा स्वरित स्वर्मह्यꣴ् स्वः पशुभ्यो लोकविदस्स्थ लोकं वित्वा लोकमित लोकं मह्यं लोकं पशुभ्यो गातुविदस्स्थ गातुं वित्वा गातुमित गातुं मह्यं गातुं पशुभ्यो नाथविदस्स्थ नाथं वित्वा नाथमित नाथं मह्यं नाथं पशुभ्यः ॥ न वा उ वेतन्म्रियध्वे न रिष्यथ देवाꣳ् इदिथ पथिभिस्सुगेभिः । यत्र यन्ति सुकृतो नापि दुष्कृतस्तत्र वो देवस्सविता दधातु ॥ आशानां व आशापालेभ्यः — वयम् ॥ नाना प्राणो यजमानस्य पशुभिर्यज्ञो देवेभिस्सह देवयानः । जीवं देवानामपि यन्तु पाथस्सत्यास्सन्तु यजमानस्य कामाः ॥ इन्द्रस्य भागः सुविते — यो नो द्वेष्ट्यनु तꣳ् रवध्वं — वीराः । यदस्य पारे रजसः — स्वाहा । यस्माद्भीषा वाशिढ्वं ततो नो अभयं कृत । प्रजाभ्यस्सर्वाभ्यो मृडत नमो रुद्राय मीढुषे स्वाहा ॥ य इदमकः — स्वाहा ॥ यस्माद्भीषा न्यषदत ततो नो अभयं कृत । प्रजाभ्यस्सर्वाभ्यो मृडत नमो रुद्राय मीढुषे स्वाहा ॥ य इदमकः — स्वाहा ॥ यस्माद्भीषा वेपिढ्वं ततो नो अभयं कृत । प्रजाभ्यस्सर्वाभ्यो मृडत नमो रुद्राय मीढुषे स्वाहा ॥ य इदमकः — स्वाहा ॥ यस्माद्भीषा पलायिढ्वं ततो नो अभयं कृत । प्रजाभ्यस्सर्वाभ्यो मृडत नमो रुद्राय मीढुषे स्वाहा ॥ य इदमकः — स्वाहा ॥ यस्माद्भीषा समज्ञाध्वं ततो नो अभयं कृत । प्रजाभ्यस्सर्वाभ्यो मृडत नमो रुद्राय मीढुषे स्वाहा ॥ य इदमकः — स्वाहा ॥ यस्माद्भीषा निमेहथ ततो नो अभयं कृत । प्रजाभ्यस्सर्वाभ्यो मृडत नमो रुद्राय मीढुषे स्वाहा ॥ यस्माद्भीषा शकृत्कुरुथ ततो नो अभयं कृत । प्रजाभ्यस्सर्वाभ्यो मृडत नमो रुद्राय मीढुषे स्वाहा ॥ यत्पशवो मायुमकृषतोरो वा पद्भिराघ्नते । अग्निर्मा तस्मादेनसो विश्वान्मुञ्चत्वꣳ्हसस्स्वाहा ॥

वपाश्रपणीनां तन्त्रेण प्रतितपनम् । शमितार उपेतन — पाशेभ्यः पशून् प्रमुञ्चत —परि ॥ अदितिः पाशं प्रमुमोक्त्वेतन्नमः — करोमि इति क्रमेण पाशान् प्रमुच्य अरातीयन्तं इति तन्त्रेण व्युदसनम् । वाक्त आप्यायतां इति क्रमेण आप्यायनम् । शमोषधीभ्य इति सर्वेषामन्ते निनीय । ओषधे त्रायस्व इत्यादि क्रमेण । रक्षसां भागास्स्थ इति निरसनम् । अश्विभ्यां त्वा जुष्टामुत्कृन्तामि । सरस्वत्यै त्वा जुष्टामुत्कृन्तामि । इन्द्राय त्वा जुष्टामुत्कृन्तामि । शमिता तु वपोद्धरणापिधानं मुख्यस्यैव करोति । प्रत्युष्टमिति शामित्रे प्रतितपनं तन्त्रेण । मुख्यस्य वपाश्रपण्योः अन्वारम्भः । निर्दग्धं इति आहवनीयस्यान्तमे अङ्गारे वपानिकूडनं तन्त्रेण । वायो वीहि स्तोकानां इति भेदेन । त्वामु ते दधिरे इत्यभिहोमस्तन्त्रेण । यस्त आत्मा इति प्रत्येकमनूहेन अभिघारणम् । केचिदूहमिच्छन्ति । दृꣳ्हत गा दृꣳ्हत गोपतिं मा वो यज्ञपती रिषत् इति तन्त्रेणोद्वास्य । सुपिप्पला ओषधीः कृत इति दक्षिणस्यां वेदिश्रोण्यां बर्हिषि प्लक्षशाखायां तन्त्रेणासादनम् । प्रयुता द्वेषाꣳ्सि इत्यावृत्तिः । इदमिन्द्रियं इति पृथक्पृथगभिमर्शनम् । उत्तमप्रयाजादि । पूर्वं परिवप्यं हुत्वा क्रमेण वपा प्रचारः ।

अश्विभ्यां छागस्य वपाया मेदसोऽनुब्रूहि । अश्विभ्यां छागस्य वपाया मेदसः प्रेष्य । अश्विभ्यामिदम् । अश्विनोरहं देवयज्यया जेमानं महिमानम्.. । सरस्वत्यै मेषस्य वपाया मेदसोऽनुब्रूहि । सरस्वत्यै मेषस्य वपाया मेदसः प्रेष्य । सरस्वत्या इदम् । सरस्वत्या अहं देवयज्यया वाचमन्नाद्यं पुषेयम् । इन्द्राय वृष्णेर्वपाया मेदसोऽनुब्रूहि । इन्द्राय वृष्णेर्वपाया मेदसः प्रेष्य । इन्द्रायेदम् । इन्द्रस्याहं देवयज्यया जेमानं महिमानम् …। उत्तरं परिवप्यं हुत्वा । पृथग्वपोद्धरणाभिघारणं वपाश्रपणी प्रहरणं च ।(केचित् स्वाहोर्ध्वनभसं मारुतं गच्छत इति ऊहेन वपाश्रपणीयुग्मत्रयाणां प्रहरणम्)सकृदेव संस्रावेणाभिजुहोति ।

दक्षिणाकाले निष्कं, (अशीतिगुञ्जापरिमितं अष्टोत्तरशतगुञ्जापरिमितं वा सुवर्णं निष्कमित्युच्यते । चतुस्सुवर्णको निष्कं इति कपर्दिभाष्यम्, अशीतिगुञ्जा = एकः सुवर्णकः । ) ऋषभं, सात्वरीं वडबां चान्तर्वेदि स्थापयित्वा । नष्टप्रत्यासृतां (नष्टा सती पुनरागता गृहं) वडबां सात्वरीं इति ब्रुवते । अनुशिशुर्वडबा । ब्रह्मण्यो ब्रह्मण्यस्स्थ ब्रह्मणे वो हुताद्य मा मा हिꣳ्सिष्टाहुता मह्यꣳ्शिवा भवत । ब्रध्न पिन्वस्व इत्यादि । सहस्रधारा उत्सा अक्षीयमाणाः । ता दध्रुः पृथिवीमन्तरिक्षं दिवं च ताभिर्निष्कर्षभसात्वरीवडबाभिरतितराणि मृत्युम् । ब्राह्मणा इमा वो निष्कर्षभसात्वरीवडबाः अहिंसन्तः यथाभागं प्रतिगृह्णीध्वम् । अग्नये हिरण्यं, रुद्राय गां, वरुणायाश्वं इति क्रमेण प्रतिग्रहः ।

चात्वाले मार्जयित्वा द्वितीये खरे पयोग्रहान् गृह्णन्ति । अध्वर्युराश्विनपात्रमादाय कुविदङग यवमन्तो यवं चिद्यथा दान्त्यनुपूर्वं वियूय । इहेहैषां कृणुत भोजनानि ये बर्हिषो नमोवृक्तिं न जग्मुः ॥ उपयामगृहीतोस्यच्छिद्रां त्वाच्छिद्रेणाश्विभ्यां त्वा (``त्वा शब्दः तृतीये एव । अश्विभ्यां जुष्टं गृह्णामि इति मन्त्रपाठात् । उपदेशस्तु त्रिष्वपि त्वा शब्दः,, इति कपर्दिभाष्यम् ।) जुष्टं गृह्णामि आश्विनमध्वर्युर्गृह्णाति । क्वलसक्तुभिः (क्वलं बालखर्जूरफलं इति सायणभाष्यम् ) सिंहलोमभिश्च आश्विनं श्रीणाति । सिंहलोमाभावे सिंहलोमभिः श्रीणामि इति मनसा ध्यायेत् । श्येनपत्रेण परिमृज्य एष ते योनिरश्विभ्यां त्वा यथायतनं सादयति ।

प्रतिप्रस्थाता सारस्वतपात्रमादाय कुविदङग — न जग्मुः ॥ उपयामगृहीतोस्यच्छिद्रां त्वाच्छिद्रेण सरस्वत्यै त्वा जुष्टं गृह्णामि सारस्वतं गृह्णाति । बदरसक्तुभिः शार्दूललोमभिश्च सारस्वतं श्रीणाति । शार्दूललोमाभावे शार्दूललोमभिः श्रीणामि इति मनसा ध्यायेत् । श्येनपत्रेण परिमृज्य एष ते योनिः सरस्वत्यै त्वा सादयति ।

ब्रह्मा ऐन्द्रपात्रमादाय कुविदङग — न जग्मुः ॥ उपयामगृहीतोस्यच्छिद्रां त्वाच्छिद्रेणेन्द्राय त्वा सुत्राम्णे जुष्टं गृह्णामि ऐन्द्रं गृह्णाति । कर्कन्धुसक्तुभिः वृकलोमभिश्च ऐन्द्रं श्रीणाति । वृकलोमाभावे वृकलोमभिः श्रीणामि इति मनसा ध्यायेत् । (कर्कन्धुः हरीतकीपरिमितं स्थूलं बदरीफलम् इति सायणभाष्यम् ।) ब्रह्मा श्येनपत्रेण परिमृज्य एष ते योनिरिन्द्राय त्वा सुत्राम्णे सादयति ।

ततः पशुपुरोडाशान् निर्वपति । त्रयस्त्रिंशत्कपालानि शूर्पं च (त्रयस्त्रिंशत्कपालानि स्फ्यश्च द्वन्द्वं इति मातृकापाठः । प्रयोगपाठस्तु भाष्यानुसारी । तथा हि पशुबन्धे धूर्तस्वामिभाष्यम्:-यान्यासादितानि पात्राणि तानि पुनर्न साद्यन्ते । पशुपुरोडाशस्यापि तान्युपकुर्वन्ति । अपरिसमाप्तत्वात् पशोस्तन्त्रस्य । कपालशूर्पादीन्याष्टावपरतः इति ।) द्वन्द्वम् । कृष्णाजिनाद्युपलान्तम् । पुरत: पात्रीं प्राशित्रहरणं मदन्त्यर्थं मेक्षणमुपवेषमुत्पवनार्थपात्रं तृणं च । पवित्रे कृत्वा यजमान वाचं यच्छ । न यज्ञयोग: । निर्वपणकाले व्रीहिमयं पुरोडाशं निर्वपति । इन्द्राय जुष्टं निर्वपामि । सवित्रे जुष्टं निर्वपामि । वरुणाय जुष्टं निर्वपामि । उपसादनकाले अदित्यास्त्वोपस्थे — इन्द्र हव्यꣳ्रक्षस्व सवितर्हव्यꣳ्रक्षस्व वरुण हव्यꣳ्रक्षस्व । निर्वापवत्प्रोक्षणम् । सर्वाभिरद्भिस्त्रि: प्रोक्षति । हविष्कृता वाचं विसृज्य पशून् विशास्ति । गुदानि मानिर्व्लेषीः वनिष्ठून् मा निर्व्लेषीः । हृदयशूलान् शाखापवित्रमुपवेषं कुम्भींश्चादाय निष्टपनादि शूले प्रणीक्ष्य हृदयं शामित्रे श्रपयतीत्यन्तम् एकस्य कृत्वा इतरयोः करोति ।

अवहननादि कर्म प्रतिपद्यते ।अधिवपनकाले देवस्य त्वा — इन्द्राय जुष्टमधिवपामि सवित्रे जुष्टमधिवपामि वरुणाय जुष्टमधिवपामि धान्यमसि —। कपालोपधाकाले ऐन्द्रस्यैकादशकपालानि । सावित्रस्य द्वादशकपालानि, युग्माणमावृत्तिः । वारुणस्य दशकपालानि, चतुर्थाष्टमयोरावृत्तिः । अधिवापवत्संवापः । इदमहꣳ्सेनाया इत्यादि । आप्यलेपं बर्हिषि निनीय । घृतागेहि, प्रत्युष्टं, अनिषितमसि, रूपं वर्णम् इत्यन्यैर्दर्भैः । अग्नेस्त्वा, दिवश्शिल्पम् । अयं प्राणश्च प्रस्तरे पवित्रे अपिसृज्य । इदमहꣳ्सेनाया इत्यादि । तूष्णीमैन्द्रमभिघार्य । सावित्रवारुणयोः मन्त्रेणाभिघारणम् । अलङ्कृत्य प्रियेण इत्यासादनम् । यज्ञोऽसि इति सावित्रवारुणयोरभिमर्शनम् । अयं यज्ञः, यो नः कनीयः — अपतमिन्द्रो भुवनान्नुदतां — विदेय ॥ ममाग्ने पञ्चहोता इत्यासन्नाभिमर्शनम् ।

अथ ग्रहैः प्रचरन्ति । आश्विनमध्वर्युरादत्ते, सारस्वतं प्रतिप्रस्थाता, ऐन्द्रं ब्रह्मा । अध्वर्युरेव सम्प्रेष्यति अश्विभ्याꣳ् सरस्वत्या इन्द्राय सुत्राम्णे सोमानाꣳ् सुराम्णामनुब्रू३हि । आश्राव्य प्रत्याश्राविते अश्विभ्याꣳ् सरस्वत्या इन्द्राय सुत्राम्णे सोमानाꣳ् सुराम्णां प्रेष्य । अश्विभ्यां सरस्वत्या इन्द्राय सुत्राम्ण इदम् । (अश्विभ्यामिदम् । सरस्वत्या इदम् । इन्द्राय सुत्राम्ण इदम् । इति पाठान्तरम् ।) अनुवषट्कारस्तु हुतानुमन्त्रणान्ते याजमानबाहुल्यात् । अहाव्यग्ने हविरास्येते । स्रुचीव घृतं चमू इव सोमः । वाजसनिꣳ् रयिमस्मे सुवीरम् । प्रशस्तं धेहि यशसं बृहन्तम् ॥ यस्मिन्नश्वास ऋषभास उक्षणः । वशा मेषा अवसृष्टास आहुताः । कीलालपे सोमपृष्ठाय वेधसे । हृदा मतिं जनय चारुमग्नये इति हुतां हूयमानां वा यजमानोऽनुमन्त्रयते । प्राकृतहुतानुमन्त्रणस्य प्रत्याम्नायः । अनुवषट्कृते अग्नये स्विष्टकृत इदम् । अग्नेरहं — आयुष्मान् यज्ञेन — गमेयम् ।(अग्नेः स्विष्टकृतोऽहं—आयुष्मान् यज्ञेन — इति पाठा० ।) ब्राह्मणं परिक्रीणीयादुच्छेषणस्य पातारम् । (ब्राह्मणस्य पातुः पापमस्त्येव ।)

नाना हि वां देवहितꣳ् सदो मितम् । मा सꣳ्सृक्षाथां परमे व्योमन् । सुरात्वमसि शुष्मिणी सोम ऐषः । मा मा हिꣳ्सीः स्वां योनिमाविशन् ॥ यदत्रशिष्टꣳ् रशिनस्सुतस्य । यदिन्द्रो अपिबच्छचीभिः । अहं तदस्य मनसा शिवेन । सोमꣳ् राजानमिह भक्षयामि इति वा स्वयं पिबेत् ॥ (क्षत्रियवैश्ययोरप्रतिषेधात् तयोरेव अयं विधिः ।) द्वे स्रुती अशृणवं पितृणाम् । अहं देवानामुतमर्त्यानाम् । ताभ्यामिदं विश्वं भुवनꣳ् समेति । अन्तरा पूर्वमपरं च केतुम् इति वा वल्मीकवपायामवनयेत् ।

दक्षिणेऽग्नौ शतातृण्णां स्थालीं प्रबद्धां धारयति ।(कश्चित्पुरुषः स्थालीं रज्वादिभिः प्रबध्वा उपरि धारयतीत्यर्थः) तस्या बिल उदीचीनदशं (वालस्रावं) पवित्रं वितत्य । यन्मे मनः परागतं यद्वा मे अपरागतम् । राज्ञा सोमेन तद्वयमस्मासु धारयामसि इति तस्मिन् शतमानं हिरण्यं निधाय । सोमः प्रतीकाः पितरः स्तृप्णुत इति प्राचीनावीति तस्मिन् यत्सते सुराशेषं तदानयति ।

स्रवन्तीं सौमीभिः पितृमतीभिः तिसृभिस्तिसृभिः उत्तरोत्तराभिरुपतिष्ठन्ते अध्वर्युब्रह्महोतारः । त्वꣳ् सोम प्रचिकितो मनीषा इत्येता आम्नाता भवन्ति । पुरस्तादध्वर्युः दक्षिणतो ब्रह्मा पश्चाद्धोता ॥ त्वꣳ् सोम प्रचिकितो मनिषा त्वꣳ् रजिष्ठमनु नेषि पन्थाम् । तव प्रणीती पितरो न इन्दो देवेषु रत्नमभजन्त धीराः ॥ त्वया हि नः पितरः सोम पूर्वे कर्माणि चक्रुः पवमान धीराः । वन्वन्नवातः परिधीꣳ्रपोर्णु वीरेभिरश्वैर्मघवा भवा नः ॥ त्वꣳ् सोमः पितृभिः सव्विँदानोऽनु द्यावापृथिवी आततन्थ । तस्मै त इन्दो हविषा विधेम वयꣴ् स्याम पतयो रयीणाम् ॥ पुरस्तात्प्रत्यङमुखस्तिष्ठन्नध्वर्युः ॥ बर्हिषदः पितर ऊत्यर्वागिमा वो हव्या चकृमा जुषध्वम् । त आ गताऽवसा शन्तमेनाथास्मभ्यꣳ् शय्योँररपो दधात ॥ आहं पितृन्त्सुविदत्राꣳ् अविथ्सि नपातं च विक्रमणं च विष्णोः । बर्हिषदो ये स्वधाया सुतस्य भजन्त पित्वस्त इहा गमिष्ठाः ॥ उपहूताः पितरस्सोम्यासो बर्हिष्येषु निधिषु प्रियेषु । त आगमन्तु त इह श्रुवन्त्वधि ब्रुवन्तु ते अवन्त्वस्मान् ॥ दक्षिणत उदङ्मुखो ब्रह्मा उपतिष्ठते ॥

अग्निष्वात्ताः पितर एह गच्छत सदस्सदस्सदत सुप्रणीतयः । अत्ता हवीꣳ्षि प्रयतानि बर्हिष्यथा रयिꣳ् सर्ववीरं दधातन ॥ अग्निष्वात्तानृतुमतो हवामहे नराशꣳ्से सोमपीथं य आशुः । ते नो अर्वन्तः सुहवा भवन्तु शं नो भवन्तु द्विपदे शं चतुष्पदे ॥ ये अग्निष्वात्ता येऽनग्निष्वात्ताः अꣳ्होमुचः पितरस्सोम्यासः । परेऽवरेऽमृतासो भवन्त्वधि ब्रुवन्तु ते अवत्वस्मान् इति होता पश्चात् प्राङमुख उपतिष्ठते ॥

यदग्ने कव्यवाहन पितॄन् यक्ष्यृतावृधः । प्र च हव्यानि वक्ष्यसि देवेभ्यश्च पितृभ्य आ ॥ त्वमग्न ईडितो जातवेदोऽवाड्ढव्यानि सुरभीणि कृत्वा । प्रादाः पितृभ्यस्स्वधया ते अक्षन्नद्धि त्वं देव प्रयता हवीꣳ्षि ॥ मातली कव्यैर्यमो अङ्गिरोभिर्बृहस्पतिर्ऋक्वभिर्वावृधानः । याꣲ्श्च देवा वावृधुर्ये च देवान्थ्स्वाहान्ये स्वधयान्ये मदन्ति इति तिसृभिः काव्यवाहनीभिर्दक्षिणेऽग्नौ शतातृण्णां प्रतिष्ठापयत्यध्वर्युः ।

अथ पशुभिः प्रचर्य पुरोडाशैः प्रचरति । शृतꣳ्हवी३श्शमितः इत्यादि । सं ते मनसा — अश्विभ्यां त्वा जुष्टमभिघारयामि । अन्यः पृषदाज्यमानयति आज्यं च । सरस्वत्यै त्वा जुष्टमभिघारयामि । इन्द्राय त्वा जुष्टमभिघारयामि । यस्त आत्मा इति क्रमेण आज्येन पशूनभिघारयति । स्वाहोष्मण इत्यूष्माभिमन्त्रणं तन्त्रेण । उद्वासनं क्रमेण स्वेन स्वेन हृदयशूलेन सह । पञ्चहोत्रासादनं क्रमेण । इदमिन्द्रियं इति त्रिः । अयं यज्ञो, ममाग्ने पञ्चहोतेत्यासन्नाभिमर्शनम् । अभ्यावर्तते मनोता । चतसृषूपस्तृणीते इत्यादि । जुह्वां दैवतान्यवदाय उपभृति स्विष्टकृदर्थं त्र्यङ्गान्यवदाय नाभिघारयति । समवत्तधान्यां तूष्णीं षडाद्यानीडामवद्यति वनिष्ठुं सप्तमम् । अनस्थिभिरिडां वर्धयति नाभिघारयति । वसाहोमं गृहीत्वा अनवदानीयैः संमृश्य । अथ हविषा प्रचरति । अश्विभ्यां छागस्य हविषोऽनुब्रू३हि । अश्विभ्यां छागस्य हविषः प्रोष्य । अर्धर्चे वसाहोमं कृत्वा न दिग्यागः । वसाहोमशेषमन्यत्र निधाय । वषट्कृते जुहोति । अश्विभ्यामिदम् । अश्विनोरहं —जेमानं — गमेयम् । पुनः जुहूं वसाहोमहवनीं चोपस्तीर्य दैवतान्यवदाय, उपभृति हविष्येव त्र्यङ्गान्यवदाय नाभिघारयति । जुहूमभिघार्य, पूर्ववत् समवत्तधान्यां इडामवदाय नाभिघारयति वसाहोमं गृहीत्वा ऐन्द्रः प्राण इत्यन्तं कृत्वा सरस्वत्यै मेषस्य हविषोऽनुब्रू३हि । सरस्वत्यै मेषस्य हविषः प्रेष्य । अर्धर्चे वसाहोमं कृत्वा न दिग्यागः । पूर्वशेषे उद्रेकं समवनयति । वषट्कृते जुहोति । सरस्वत्या इदम् । सरस्वत्या अहं — वाचमन्नाद्यं पुषेयम् । पुनः जुहूं वसाहोमहवनीं चोपस्तीर्य दैवतान्यवदाय, उपभृति हविष्येव त्र्यङ्गान्यवदाय हिरण्यशकलमुपरिष्टात् कृत्वा नाभिघारयति । जुहूमभिघार्य, पूर्ववत् समवत्तधान्यां इडामवदाय यूष्णोपसिञ्चति । नाभिघारयति । वसाहोमं गृहीत्वा ऐन्द्रः प्राण इत्यन्तं कृत्वा । इन्द्राय वृष्णेर्हविषोऽनुब्रूहि । इन्द्राय वृष्णेर्हविषः प्रेष्य । अर्धर्चे वसाहोमं कृत्वा उद्रेकान्थ्समवनीय दिशस्स्वाहा इत्यादि दिग्यागः । वषट्कृते जुहोति । इन्द्रायेदम् । इन्द्रस्याहं —जेमानं —गमेयम् । ततः पुरोडाशैः प्रचरति । जुह्वामुपस्तीर्येत्यादि । इन्द्रायानुब्रूहि । इन्द्रं यज । इन्द्रायेदम् । इन्द्रस्याहं देवयज्ययेन्द्रियाव्यन्नादो भूयासम् । सवित्रेऽनुब्रूहि । सवितारं यज । सवित्र इदम् । सवितुरहं— अन्नादः । वरुणायानुब्रूहि । वरुणं यज । वरुणायेदम् । वरुणस्याहं–अन्नादः । नारिष्ठान् हुत्वा, वनस्पति यागं कृत्वा । अथ पुरोडाशेभ्यः स्विष्टकृतमवद्यति तस्मिन्नेवोपभृति पशुस्स्विष्टकृता सह । पुरोडाशेभ्यः अवदाय अभिघारयति । जुह्वामौपभृतानि विपर्यस्यन्नाह ॥ अग्नये स्विष्टकृतेऽनुब्रूहि । अग्नये स्विष्टकृते प्रेष्य ॥ अग्नये स्विष्टकृत इदम् । अग्नेस्स्विष्टकृतोऽहं — गमेयम् । वैश्वानरे हविः ।

ततः प्राशित्रम् । पुरोडाशेडां च पश्विडया सहावदाय अभिघारणम्, यजमानभागवर्जम् । मार्जनान्ते सावित्रवारुणयोश्चतुर्धाकरणम् । अग्नीदौपयजानित्यादि । सर्वेषां गुदकाण्डैरुपयजति समुद्रं गच्छत स्वाहान्तरिक्षं गच्छत स्वाहा इत्यादि सर्वत्र ऊहः । अनूयाजान् इष्ट्वा प्रत्याक्रम्य स्वरूणां होमः द्यां वो धूमो — पृणध्वꣴ् स्वाहा । स्वरुभ्य इदम् । जाघनीभिः पत्नीस्संयाजयन्ति । न पत्न्यञ्जलौ निनयनम् । न योक्त्रविमोकः । उपवेषोद्वासने कृते अवभृथस्य तन्त्रं प्रक्रमयति ॥

वारुणमेककपालं निर्वपति । या जाता ओषधय इत्यादि । तूष्णीं परिभोजिनीमुलपराजीं च । नेध्माहरणम् । वेदं कृत्वोपवेषः । अलङ्कृत्य परिस्तीर्य कर्मणे वामित्यादि । पात्रप्रयोगकाले स्फ्यमग्निहोत्रहणीवर्जान्यपरतः । एककपालं शूर्पं च द्वन्द्वम् । कृष्णाजिनादि षट्कम् । पुरतः पात्रीं मेक्षणम् मदन्त्यर्थमुपवेषमुत्पवनार्थं च द्वंद्वं प्रयुज्य । पवित्रकरणादि । वरुणाय जुष्टं निर्वपामि । वरुण हव्यꣳ् रक्षस्व । वरुणाय वो जुष्टं प्रोक्षामि । वरुणाय जुष्टमधिवपामि । प्रथमेन कपालमन्त्रेणैककपालमुपधाय । भृगूणामङ्गिरसां तपसा तप्यस्व कपालेऽङ्गारानध्यूह्य । वरुणाय जुष्टꣳ् संवपामि । आप्यलेपं बर्हिषि निनीय । स्फ्यं तिर्यञ्चं स्तब्ध्वा सम्प्रेष्यति प्रोक्षणीरासादयाज्येनोदे३हि । न प्रोक्षणीनामभिपूरणम् । उदञ्चं स्फ्यमपोह्य दक्षिणेन स्फ्यं असंस्पृष्टास्सर्वान्निनीय । शतभृष्टिरसि । अग्ने गृहपते । पूषा ते बिलम् । न प्रोक्षण्युत्पवनम् । न चाद्भिराज्यमाज्येन । चतुर्गृहीतान्याज्यानि पञ्चावत्तिनामपि । अननूयाजपक्षे आद्यैः चतुर्भिरुपभृति । यदनूयाजौ पञ्चानां त्वा दिशां, पञ्चानां त्वा पञ्चजनानां, चरोस्त्वा पञ्चबिलस्य, ब्रह्मणस्त्वा तेजसे इत्येतैश्चतुर्भिर्गृह्णाति । सुप्रजास्त्वायेति चतुर्ध्रुवायाम् । अयं प्राणश्च । इदमहꣳ् सेनाया इत्यादि । वरुणाय जुष्टमभिघारयामि । स्योनं ते । देवस्त्वा इति वारुणमलङ्कृत्योत्तरवेद्यंसे आज्यैस्सह तूष्णीमासादयति । न च आसन्नाभिमर्शनम् ।

अवभृथमवैष्यन् जुहुयात् आयुर्दा अग्ने हविषो जुषाणो घृतप्रतीको घृतयोनिरेधि । घृतं पीत्वा मधु चारु गव्यं पितेव पुत्रमभि रक्षतादिमꣴ् स्वाहा ॥ आयुर्देऽग्नय इदम् । अवभृथ निचङ्कुण नि चेरुरसि निचङ्कुणावदेवैर्देवकृतमेनोऽयाडव मर्त्यैर्मर्त्यकृत-मुरोरानो देव रिषस्पाहि स्वाहा ॥ अवभृथायेदम् । नमो रुद्राय वास्तोष्पतये । आयने विद्रवणे । उद्याने यत्परायणे । आवर्तने विवर्तने । यो गोपायति तꣳ् हुवे स्वाहा ॥ रुद्राय वास्तोष्पतय इदम् । अप उपस्पृश्य । स्रुवेण होमः । यस्मिन्नग्नौ हविश्श्रपणं तस्मिन्नेव होमः ।

उरुꣳ् हि राजा — हृदयाविधश्चित् सर्वे सहपत्नीकाः हविराज्यानि हृदयशूलान् मासरं ग्रहपात्राणि सतं वालस्रावं श्येनपत्रं दध्यौदुम्बरशाखां च गृहीत्वा वेद्या अभिप्रयान्तो वदन्ति । न सामगानम् । शतं ते राजन् — प्रमुमुग्ध्यस्मत् अपो दृष्ट्वा यजमानो जपति । अध्वर्युः - सूर्यो वः पुरस्तात् —- शस्त्याः अपोऽभिमन्त्रयते । यजमानः - युनज्मि वो ब्रह्मणा दैव्येन हव्यायास्मै वोढव आपः । इन्धाना वस्सुप्रजसस्सुवीरा ज्योग्जीवेम बलिहृतो वयं वः । यन्म आपो अस्य यज्ञस्य रिष्याद्यद्वा स्कन्दादाज्यस्योत विष्णवः ॥ तेन हन्मि सपत्नं दुर्मरायुमैनं दधामि निर्ऋत्या उपस्थे ॥ तेजिष्ठा वस्तपना या च रोचना प्रत्योषन्तीस्तनुवो या व आपः । ताभिर्वर्माण्यभितो व्ययध्वं मा वो दभन्, यज्ञहनः पिशाचाः अभिमन्त्रयते । अभिष्ठितो वरुणस्य पाशः उदकान्तमभितिष्ठन्ते । अपः प्रगाह्य तिष्ठन्तोऽवभृथेन चरन्ति । तृणं प्रहृत्य स्रौवमाघारयति । यदि वा पुरा तृणं स्यात्तस्मिन् जुहुयात् । आ प्यायताम् । अग्नीदपस्त्रिस्सम्मृड्ढि इति सम्प्रेष्यति । आग्नीध्रः - आपो वाजजितो वाजं वस्सरिष्यन्तीर्वाजं जेष्यन्तीर्वाजिनीर्वाजजितो वाजजित्यायै सम्मार्ज्म्यपो अन्नादा अन्नाद्याय अपः प्राञ्चं त्रिस्सम्मार्ष्टि । भुवनमसि विप्रथस्वापो यष्ट्र्य इदं नमः । जुह्वेहीत्यादि । नाग्नाविष्णू । अग्नेरनीकमप आविवेश । अपान्नपात् प्रतिरक्षन्नसुर्यं दमेदमे समिधं यक्ष्यग्ने । प्रति ते जिह्वामुच्चरण्येत् स्वाहा स्रुच्यमाघारयति । यजमानः - वागस्याग्नेयी सपत्नक्षयणी इत्यनुमन्त्रयते । अग्नय इदम् । लुप्यते प्रवरः । घृतवति शब्द इत्यादि । त्रीन् प्रयाजानिष्ट्वा औपभृतं सर्वमानयति । अनूयाजपक्षे अर्धमानयति । पञ्चममेव इष्ट्वा शेषेण ध्रुवामभिघार्य वारुणमभिघारयति । नोपभृतं अननूयाजपक्षे । अनूयाजपक्षे उपभृतमन्ततः । आज्यभागाविष्ट्वा । वरुणायानुब्रू३हि । वरुणं यज । वरुणायेदम् । वरुणस्याहं देवयज्ययान्नादो भूयासम् । नारिष्ठान् हुत्वा । जुह्वामुपस्तीर्य कृत्स्नं पुरोडाशमवदाय द्विरभिघार्य स्विष्टकृतौ ध्रौव समाप्तिः अग्नीवरुणाभ्यामनुब्रू३हि । अग्नीवरुणौ यज । अग्नीवरुणाभ्यामिदम् । अग्नीवरुणयोरहं देवयज्ययायुष्मान् यज्ञेन प्रतिष्ठां गमेयम् । अग्नीवरुणौ स्विष्टकृदर्थे यजति । अननूयाजपक्षे नोत्तरं क्रियते । अत्रैवेष्टिसमाप्तिः । अनूयाजपक्षे अग्नीदपस्सकृत् सम्मृड्ढीति सम्प्रेष्यति । आग्नीध्रः आपो वाजजितो वाजं वस्सस्रुषीर्वाजं जिग्युषीर्वाजिनी-र्वाजजितो वाजजित्यायै सं मार्ज्म्यपो अन्नादा अन्नाद्याय सकृदपस्स्फ्येनैव सम्मार्ष्टि । औपभृतं जुह्वामानीय । अपबर्हिषावनूयाजौ यजति । देवौ यजेति प्रथमं संप्रेष्यति । यजेत्युत्तरम् । अत्र इष्टिस्समाप्यते ।

मासरं ( ईषत्तप्तानां यवानां सूक्ष्मं चूर्णं दध्ना तक्रेण वा मिश्रितं दर्भैः प्रच्छन्नं मासरमित्युच्यते इति सायणभाष्यम् ) दध्ना औदुम्बरशाखया तूष्णीं प्रोक्षति । मासरस्य स्रुचं पूरयित्वा समुद्रे ते — विधेम इति अप्सूपमारयति । ततो यो भिन्दुः उत्प्लवते तं तूष्णीमुपस्पृशेत् । यस्ते देववरुण गायत्रच्छन्दाः पाशः । तं त एतेनावयजे स्वाहा आश्विनपात्रमवभृथे प्रविध्यति ॥ यस्ते देववरुण त्रिष्टुप्छन्दाः पाशः । तं त एतेनावयजे स्वाहा सारस्वतम् ॥ यस्ते देववरुण जगती छन्दाः पाशः । तं त एतेनावयजे स्वाहा ऐन्द्रम् ॥ यस्ते देववरुणानुष्टुप्छन्दाः पाशः । तं त एतेनावयजे स्वाहा सतं वालस्रावं श्येनपत्रं च ॥ यस्ते देववरुण पङ्क्तिश्छन्दाः पाशः । तं त एतेनावयजे स्वाहा हृदयशूलान् ॥ इमं विष्यामि — पत्या करोमि पत्नी योक्त्रं वि सृजते । अन्ये वाससी परिधाय योक्त्रं वाससी चावभृथे प्रविध्य । देवीराप एष — सुकृतो ब्रूतात् अवभृथं यजमानोऽभिमन्त्र्य । सुमित्रा न आप — वयं द्विष्मः अपः प्रगाह्य सशिरस्कावनुपमक्षन्तौ स्नातः पत्नी यजमानश्च । अन्योन्यस्य पृष्ठे प्रधावतः । न यद्दिदीक्षे । अहते वसानौ तीरमागच्छतः । उद्वयं तमसस्परि — ज्योतिरुत्तमम् इत्यादित्यमुपस्थाय । प्रतियुतो — वरुणस्य पाशः उदकान्तं प्रत्यसित्वा । पुनरप्सु प्रविश्य । समित्पाणयः तूष्णीमप्रतीक्षमायन्ति । एधोऽस्येधिषीमहि । समिदसि । तेजोऽसि तेजो मयि धेहि आहवनीये तिस्रस्समिध आधाय । अपो अन्वचारिषꣳ् रसेन समसृक्ष्महि । पयस्वाꣳ् अग्न आगमं तं मा सꣳ्सृज वर्चसा इत्युपतिष्ठन्ते । ब्रह्मा अयाडग्निः इत्युपस्थाय यथेतं प्रति निष्क्रामति । यजमानः(तूष्णीं चतुरो विष्णुक्रमान् प्राचो क्रामति इति द्रा. प्र ।) अग्निना देवेन इत्यादि गोमज्जपान्ते । नमस्स्वरुभ्यः इति यूपमुपस्थाय । यज्ञ शं च म इति जपति । ब्राह्मणतर्पणान्तम् । सन्तिष्ठते चरकसौत्रामणिः ॥

॥ इति सौत्रामणिप्रयोगः ॥

॥ अथ मैत्रवरिणी आमिक्षा ॥

अनन्तरे पर्वणि मैत्रावरुण्यामिक्षया यजेत । श्री परमेश्वरप्रीत्यर्थं अग्निचयनाङ्गमैत्रावरुण्यामिक्षया यक्ष्ये । विद्युदसि । अग्नीनन्वाधाय शाखामाहृत्य व्रतप्रवेशः । उत्तरेण गार्हपत्यमित्यादि । नेध्मप्रव्रश्चनम् । वेदं कृत्वा वेदिः । अन्तर्वेदिशाखाया इत्यादि । न पर्णवल्कः । कुम्भीलेपनान्तम् । इमौ पर्णं च । वायवस्स्थः । परिस्तृणीत, देवा देवेषु, कर्मणे वाम् । पात्रप्रयोगकाले स्फ्यमग्निहोत्रहवणीमपरतः । स्रुवं जुहूं उपभृतं ध्रुवां वेदमाज्यस्थालीमिडापात्रं योक्त्रं वेदाग्राण्यन्वाहार्यस्थालीमुपवेषं प्रातर्दोहपात्राणि वाजिनपात्रं च प्रयुज्य । पवित्रे कृत्वा ब्रह्मवरणम् । सं विशन्ताम्, अग्निꣳ् होतारम्, कस्त्वा युनक्ति स त्वा युनक्तु । प्रोक्षणीः संस्कृत्य ब्रह्माणमामन्त्र्य पात्राणि प्रोक्ष्य प्रोक्षणीशेषं निधाय । एता आचरन्ति इत्यादि । कामधुक्षः प्र णो ब्रूहि मित्रावरुणाभ्यां हविरिन्द्रियम् । बहुदुग्धि मित्रावरुणाभ्यां देवेभ्यो हव्यम् ॥ सङ्क्षालननिनयनान्तम् । तप्ते प्रातर्दोहे लौकिकं दध्यानयति । अन्तरितम्, अविदहन्त श्रपयत । ब्रह्मन्नुत्तरं इत्यादि प्राशित्रवर्जं स्रुक् संमार्गः । विष्णूनि स्थेत्यन्तम् । यस्त आत्मा इत्यभिघार्य । दृꣳ्ह इत्युद्वास्य । अभुक्तेन वाससा संशोध्य । यत्संवर्तते सामिश्खा यदन्यत्तद्वाजिनम् । आमिक्षां द्वयोः पात्रयोरुद्धृत्य वाजिना एकदेशेनोपसिञ्चति । प्रियेण इत्यासादनम् । उत्करे वाजिनम् । इदमिन्द्रियम्, अयं यज्ञो, ममाग्ने पञ्चहोता इत्यासन्नाभिमर्शनम् । अयं वेद इत्यादि । प्रचरणकाले मित्रावरुणभ्यामनुब्रूहि मित्रावरुणौ यज । मित्रावरुणाभ्यामिदम् । मित्रावरुणयोरहं देवयज्यया जेमानं महिमानं । नारिष्ठान् हुत्वा स्विष्टकृदादि । अन्वाहार्यो दक्षिणा । संस्रावान्ते वाजिनयागः । यज्ञो बभूव यज्ञ शं च म वर्जम् । ब्राह्मणतर्पणान्तं इष्टिः सन्तिष्ठते ॥

आमिक्षा सद्य एव स्यात् लौकिकेन हि तच्यते ।

प्रसूमयाद्यामिक्षायां नेष्यते केचिदत्र तु ।

क्रत्वन्ते पर्वणोर्वाऽङ्ग सौत्रामण्याः क्रिया भवेत् ॥

॥ इति अग्निचयनाङग मैत्रवरुणी आमिक्षेष्टिः ॥