०८ भूमिका

धर्मः

भोः आस्तिक-वर्याः! पण्डित-शिखा-मणयः!
भवत्-समीपे स-प्रश्रयं किञ्चिद् विज्ञाप्यते ।

धर्मो विश्वस्य जगतः प्रतिष्ठा +
तस्माद् धर्मं परमं वदन्ति,

इति श्रुतिः ।
अत्र श्रूयमाणः धर्मः कः ?

यन्त्वार्याः क्रियमाणं प्रशंसन्ति स धर्मः,
यं गर्हन्ते सोऽधर्मः

इति आपस्तम्बमहर्षिः स्वकीये धर्मसूत्रे विवृणोति । एवं

धर्मशास्त्ररथारूढाः
वेदखड्गधराद्विजाः।
क्रीडार्थमपि यद्ब्रूयुस्
स धर्मः परमो मतः ।

बोधायनादि-मुनि-वचनं च निरूपकं भवति ।
तादृशेषु धर्म-कार्येषु मुख्यतया श्रूयमाणानि
चत्वारिंशत् संस्कार-कर्माणि ।

सङ्ख्यानम्

तेषु गर्भाधानादि-विवाहान्तानि
एकोन-विंशति-कर्माणि प्रथमतया निरूप्यमाणानि भवन्ति ।

अनन्तरं सप्त पाक-यज्ञ-संस्थाः,
सप्त हविर्-यज्ञ-संस्थाः
सप्त सोम-संस्थाः
इति एक-विंशति कर्माणि ।

१९ संस्काराः

अत्र प्रथमतया निरूपितेषु
एकोन-विंशति कर्मसु

गर्भाधान, पुंसुवन, सीमन्तोन्नयन, जात-कर्म, नाम-करण, उपनिष्क्रामण, अन्न-प्राशन, चौल, उपनयन, प्राजापत्यादि–व्रत-चतुष्टय, उपक्रम, उत्सर्जनानि च
सप्त-दश कर्माणि
भर्त्रादिना पत्न्य्-आदीन् उद्दिश्य
कर्तव्यत्वेन निरूपितानि।

अवशिष्टानि त्रयो-विंशतिः कर्माणि
स्वस्य स्वेनैव कर्तव्यानि ।
एकोन-विंशतौ अवशिष्टे समावर्तन-विवाहकर्मणी।

२१ संस्थाः

औपासनहोमः, वैश्वदेवं, पार्वणम्, अष्टका, मासि-श्राद्धं, सर्प-बलिर्, ईशनबलिर् इति
सप्त पाक-यज्ञ-संस्थाः

अग्नि-होत्रं, दर्श-पूर्ण-मासौ, आग्रयणं, चातुर्मास्यं, पशु-बन्धः सौत्रामणी, इति सप्त हविर्-यज्ञ-संस्थाः

अग्नि-ष्ठोमः अत्यग्निष्ठोमः, उक्थ्यः, षोडशी, वाजपेयः, अतिरात्रः अप्तोर्यामः इति सप्त सोम-संस्थाः
इति चत्वारिंशत् संस्कार-कर्माणि
क्रमशः निरूपितानि ।

अनुष्ठान-स्थितिः

इदानीम् अपि हविर्-यज्ञ–सोम-संस्था–यागानां यष्टारस्
तत्र तत्र विरलतया विराजन्ते ।
तेषां प्रभावत एवास्मद्-देशे
तदा तदा पर्जन्यो वर्षति इत्य् अस्मद्-आशयः ।+++(5)+++
तद्वद् एव पाक-यज्ञ-संस्थानाम् अनुष्ठातारोऽपि
तत्र तत्र वर्तन्ते ।

तथाऽपि चत्वारिंशत् संस्कारेषु पाक-यज्ञ–हविर्-यज्ञ–सोम-संस्था–व्यतिरिक्तानि
एकोन-विंशति-कर्माणि तत्-तन्-मुख्य-काले अनुष्ठातुम् अशक्ता अपि
गौण-काले वा सर्वाणि तान्य् अनुतिष्ठन्त्य् एव ।

अनुष्ठातॄणाम् अनुष्ठापयितॄणां च सौकर्यायायं प्रयोग-ग्रन्थः
दास-जनेन अस्मत्-पूर्वेषां प्रयोग-शैलीम् अनुसृत्य
गृह्य-सूत्रस्य, तात्पर्य-दर्शनस्य च अ-विरोधेन विलिखितः ।

प्रयोक्तॄणां सौकर्याय
षट्-षष्टि गोत्राणां प्रवरश् चास्मिन् ग्रन्थे संयोजितः
भाषातावसांस्कृती ?? ।
लक्ष्यो वेदः (सस्वरः) प्रयोगो महर्षि-कृतः,
प्रचार-देशः द्राविडः
तथाऽपि यथा-शक्ति शोधयित्वा
अन्ततः शुद्धाशुद्ध-पत्रिकाञ्च सङ्घटय्य प्रकाश्यते ।

अस्मिन् ग्रन्थे विद्यमानान् दोषान् अविगणय्य
सद्-विषयांश् च स्वीकृत्य
अनुगृह्णन्तु
इति सप्रश्रयं प्रार्थये ॥

वीरवल्लि–घन-पाठि–श्री-निवास-देशिकाचार्यः