३९ सवनप्रायश्चित्तानि

अग्निं नरो दीधितिभिररण्योर्हस्तच्युती जनयन्त प्रशस्तम् । दूरेदृशं गृहपतिमथर्युꣳ स्वाहा ॥ अग्नय इदम् ।

अग्निनाग्निस्समिध्यते कविर्गृहपतिर्युवा । हव्यवाड्जुह्वास्यस्स्वाहा ॥ अग्नय इदम् ।

सप्त ते अग्ने — घृतेन स्वाहा ॥ अग्नये सप्तवत इदम् ।

मनो ज्योतिर्जुषतामाज्यं विच्छिन्नं यज्ञꣳ समिमं दधातु । या इष्टा उषसो निम्रुचश्च तास्सन्दधामि हविषा घृतेन स्वाहा ॥ मनसे ज्योतिष इदम् ।

त्रयस्त्रिꣳशत्तन्तवो ये वितत्निरे य इमं यज्ञꣳ स्वधया ददन्ते तेषां छिन्नं प्रत्येतद्दधामि स्वाहा घर्मो देवाꣳ अप्येतु स्वाहा ॥ देवेभ्य इदम् ।

यन्मे मनसश्छिद्रं यद्वाचो यच्च मे हृदः । अयं देवो बृहस्पतिस्सन्तत्सिञ्चतु राधसा स्वाहा ॥ बृहस्पतय इदम् ।

विश्वकर्मा हविरिदं जुषाणस्सन्तानैर्यज्ञꣳ समिमं तनोतु । या व्युष्टा उषसो याश्च निम्रुचस्तास्सन्दधामि हविषा घृतेन स्वाहा ॥ विश्वकर्मण इदम् ।

अयाश्चाग्नेऽस्यनभिशस्तीश्च सत्यमित्वमया असि । अयसा मनसा धृतोऽयसा हव्यमूहिषेऽयानो धेहि भेषजꣳ स्वाहा ॥ अग्नये अयस इदम् ।

त्वन्नो अग्ने —ट्ठ अस्मत् स्वाहा ॥ अग्नीवरुणाभ्यामिदम् ।

स त्वन्नो अग्ने — एधि स्वाहा ॥ अग्नीवरुणाभ्यामिदम् ।

भद्रं कर्णेभिश्शृणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः । स्थिरैरङ्गैस्तुष्टुवांसस्तनूभि-र्व्यशेम देवहितं यदायुस्स्वाहा ॥ देवेभ्य इदम् ।

स्वस्ति न इन्द्रो वृद्धश्रवास्स्वस्तिनः पूषा विश्ववेदाः । स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिस्स्वस्ति नो बृहस्पतिर्दधातु स्वाहा ॥ इन्द्रपूषतार्क्ष्यबृहस्पतिभ्य इदम् ।

पृषदश्वा मरुतः पृश्निमातरश्शुभं यावानो विदथेषु जग्मयः । अग्निजिह्वा मनवस्सूरचक्षसो विश्वे नो देवा अवसागमन्निह स्वाहा ॥ मरुद्भ्यो विश्वेभ्यो देवेभ्य इदम् ।

शतमिन्नु शरदो अन्ति देवा यत्रा नश्चक्रा जरसं तनूनाम् । पुत्रासो यत्र पितरो भवन्ति मा नो मध्यारीरिषतायुर्गन्तोस्स्वाहा ॥ देवेभ्य इदम् ।

प्रेद्धो अग्ने दीदिहि पुरो नोऽजस्रया सूर्म्या यविष्ठ । त्वाꣳ शश्वन्त उपयन्ति वाजास्स्वाहा ॥ अग्नय इदम् ।

श्रुत्कर्णाय कवये मेध्याय नमोभिर्नाकमुपयामि शꣳसन् । यतो भयमभयं तत्कृधीनोऽग्ने देवानामवहेड इयक्ष्व १ स्वाहा ॥ अग्नय इदम् ।

अग्निं वो देवमग्निभिस्सजोषा यजिष्ठं दूतमध्वरे कृणुध्वम् । यो मर्त्येषु निध्रुविर् ऋतावा तपुर्मूर्धा घृतान्नः पावकस्स्वाहा ॥ अग्नय इदम् ।

घृतप्रतीको घृतपृष्ठो अग्निर्घृतैस्समिद्धो घृतमस्यान्नम् । घृतप्रुषस्त्वा सरितो वहन्ति घृतं पिबन्यजथाद्देव देवान् स्वाहा ॥ अग्नय इदम् ।

आयुर्दा अग्ने हविषो जुषाणो घृतप्रतीको घृतयोनिरेधि । घृतं पीत्वा मधु चारु गव्यं पितेव पुत्रमभि रक्षतादिमꣳ स्वाहा । अग्नय आयुष्मत इदम् ।

इमो अग्ने वीततमानि हव्याजस्रो वक्षि देवतातिमच्छ । प्रति न ईꣳ सुरभीणि वियन्तु स्वाहा ॥ अग्नय इदम् ।

सप्त ते अग्ने — घृतेन स्वाहा ॥ अग्नये सप्तवत इदम् ।

मनो ज्योतिः — घृतेन स्वाहा ॥ मनसे ज्योतिष इदम् ।

त्रयस्त्रिꣳशत्तन्तवो — अप्येतु स्वाहा ॥ देवेभ्य इदम् ।

यन्मे मनसश्छिद्रं यद्वाचो यच्च मे हृदः । अयं देवो बृहस्पतिस्सन्तत्सिञ्चतु राधसा स्वाहा ॥ बृहस्पतय इदम् ।

विश्वकर्मा हविरिदं जुषाणस्सन्तानैर्यज्ञꣳ समिमं तनोतु । या इष्टा उषसो याश्च निम्रुचस्तास्सन्दधामि हविषा घृतेन स्वाहा ॥ विश्वकर्मण इदम् ।

अग्निं युनज्मि शवसा घृतेन दिव्यꣳ सुपर्णं वयसा बृहन्तम् । तेन वयं पतेम ब्रध्नस्य विष्टपꣳ सुवो रुहाणा अधि नाक उत्तमे स्वाहा ॥ अग्नय इदम् ।

इन्धानास्त्वा शतꣳ हिमा द्युमन्तस्समिधीमहि । वयस्वन्तो वयस्कृतं यशस्वन्तो यशस्कृतꣳ सुवीरासो अदाभ्यम् । अग्ने सपत्नदम्भनं वर्षिष्ठे अधि नाके स्वाहा ॥ अग्नय इदम् ।

अग्निर्न ईडित ईडितव्यैर्देवैः पार्थिवैः पातु । त इमं यज्ञमवन्तु ते मामवन्त्वनु व आरभेऽनु मा रभध्वꣳ स्वाहा ॥ अग्नय इदम् ।

वायुर्न ईडित ईडितव्यैर्देवैरान्तरिक्षैः पातु । त इमं यज्ञमवन्तु ते मामवन्त्वनु व आरभेऽनु मा रभध्वꣳ स्वाहा ॥ वायव इदम् ।

सूर्यो न ईडित ईडितव्यैर्देवैर्दिव्यैः पातु । त इमं यज्ञमवन्तु ते मामवन्त्वनु व आरभेऽनु मा रभध्वꣳ स्वाहा ॥ सूर्यायेदम् ।

विष्णुर्न ईडित ईडितव्यैर्देवैर्दिश्यैः पातु । त इमं यज्ञमवन्तु ते मामवन्त्वनु व आरभेऽनु मा रभध्वꣳ स्वाहा ॥ विष्णव इदम् ।

अग्निर्यजुर्भिस्त इमं यज्ञमवन्तु ते मामवन्त्वनु व आरभेऽनु मा रभध्वꣳ स्वाहा ॥ अग्नये यजुर्भ्य इदम् ।

पूषा स्वगाकारैस्त इमं यज्ञमवन्तु ते मामवन्त्वनु व आरभेऽनु मा रभध्वꣳ स्वाहा ॥ पूष्णे स्वगाकारायेदम् ।

एतैस्त्रिभिरनुवाकैरविज्ञातप्रायश्चित्ते सोमे त्रयस्त्रिंशतमाहुतीर्जुहोति । त्रयस्त्रिंशतं चाग्नीध्रीये यज्ञतनूः । प्रजापतिर्मनसांधोच्छेत इत्याद्यनुषङ्गवर्जम् ।

प्रजापतिर्मनसांधोच्छेतस्स्वाहा । प्रजापतये सोमायेदम् ।

धाता दीक्षायाꣳ स्वाहा । धात्रे सोमायेदम् ।

सविता भृत्याꣳ स्वाहा । सवित्रे सोमायेदम् ।

पूषा सोमक्रयण्याꣳ स्वाहा । पूष्णे सोमायेदम् ।

वरुण उपनद्धस्स्वाहा । वरुणाय सोमायेदम् ।

असुरः क्रीयमाणस्स्वाहा । असुराय सोमायेदम् ।

मित्रः क्रीतस्स्वाहा । मित्राय सोमायेदम् ।

शिपिविष्ट आसादितस्स्वाहा । शिपिविष्टाय सोमायेदम् ।

नरन्धिषः प्रोह्यमाणस्स्वाहा । नरन्धिषाय सोमायेदम् ।

अधिपतिरागतस्स्वाहा । अधिपतये सोमायेदम् ।

प्रजापतिः प्रणीयमानस्स्वाहा । प्रजापतये सोमायेदम् ।

अग्निराग्नीध्रे स्वाहा । अग्नये सोमायेदम् ।

बृहस्पतिराग्नीध्रात्प्रणीयमानस्स्वाहा । बृहस्पतये सोमायेदम् ।

इन्द्रो हविर्धाने स्वाहा । इन्द्राय सोमायेदम् ।

अदितिरासादितस्स्वाहा । अदित्यै सोमायेदम् ।

विष्णुरुपावह्रियमाणस्स्वाहा । विष्णवे सोमायेदम् ।

अथर्वोपोत्तस्स्वाहा । अथर्वणे सोमायेदम् ।

यमोऽभिषुतस्स्वाहा । यमाय सोमायेदम् ।

अपूतपा आधूयमानस्स्वाहा । अपूतपे सोमायेदम् ।

वायुः पूयमानस्स्वाहा । वायवे सोमायेदम् ।

मित्रः, क्षीरश्रीस्स्वाहा । मित्राय सोमायेदम् ।

मन्थी सक्तुश्रीस्स्वाहा । मन्थिने सोमायेदम् ।

वैश्वदेव उन्नीतस्स्वाहा । वैश्वदेवाय सोमायेदम् ।

रुद्र आहुतस्स्वाहा । रुद्राय सोमायेदम् । अप उपस्पृश्य ।

वायुरावृत्तस्स्वाहा । वायवे सोमायेदम् ।

नृचक्षाः प्रतिख्यातस्स्वाहा । नृचक्षसे सोमायेदम् ।

भक्ष आगतस्स्वाहा । भक्षाय सोमायेदम् ।

पितृणां नाराशꣳसस्स्वाहा । पितृभ्यः सोमायेदम् । अप उपस्पृश्य ।

असुरात्तस्स्वाहा । असवे सोमायेदम् ।

सिन्धुरवभृथमवप्रयन्थ्स्वाहा । सिन्धवे सोमायेदम् ।

समुद्रोऽवगतस्स्वाहा । समुद्राय सोमायेदम् ।

सलिलः प्रप्लुतस्स्वाहा । सलिलाय सोमायेदम् ।

सुवरुदृचं गतस्स्वाहा । स्वस्सोमायेदम् ।

पुनराहवनीये । पृथ्वि स्वाहा । पृथ्व्या इदम् ॥ विभूवरि स्वाहा । विभूवर्या इदम् ॥ सिनीवालि स्वाहा । सिनीवाल्या इदम् ॥ उरन्ध्रे स्वाहा । उरन्ध्राया इदम् ॥ आचित्ते स्वाहा । आचित्ताया इदम् ॥ मनस्ते स्वाहा । मनस्ताया इदम् ॥ भुवो विवस्ते स्वाहा । भुवो विवस्ताया इदम् ॥ इति वसतीवरीषु सवनीयासु वा विषिक्तासु सप्ताहुतीर्जुहोति ।

य ऊर्मिर्हविष्य इन्द्रियावान् मदिन्तमस्तं व ऋध्यासं सोमस्याज्यमसि हविषो हविर्ज्योतिषां ज्योतिर्विश्वेषां देवानां देवताभिर्गृह्णामि हविर्धानमभिमन्त्र्य । सं वस्सिञ्चन्तु मरुतस्समिन्द्रस्सं बृहस्पतिः । सं वोऽयमग्निस्सिञ्चत्वायुषा च धनेन च सर्वमायुर्दधातु मे ॥ मान्दा वाशा-श्शुन्ध्यूरजिराः । ज्योतिष्मतीस्तमस्वरीरुन्दतीस्सुफेनाः । मित्रभृतः क्षत्रभृतस्सुराष्ट्रा इह माऽवत ॥ आपो भद्रा घृतमिदाप आसुरग्नीषोमौ बिभ्रत्याप इत्ताः । तीव्रो रसो मधुपृचामरङ्गम आ मा प्राणेन सह वर्चसा गन् ॥ आदित्पश्याम्युत वा शृणोम्या मा घोषो गच्छतु वाङ्न आसाम् । मन्ये भेजानो अमृतस्य तर्हि हिरण्यवर्णा अतृपं यदा वः ॥ आपो हिष्ठा मयो भुव इति तिस्रः । एताभिस्सप्तभिस्संसिञ्चेदभि वा मन्त्रयेत ।

देवाञ्जनमगन् यज्ञस्ततो मा यज्ञस्याशीरागच्छतु ॥ पितॄन् जनमगन् यज्ञस्ततो मा यज्ञस्याशीरागच्छतु ॥ पञ्चजनान् जनमगन् यज्ञस्ततो मा यज्ञस्याशीरागच्छतु ॥ दिशो जनमगन् यज्ञस्ततो मा यज्ञस्याशीरागच्छतु ॥ आपो जनमगन् यज्ञस्ततो मा यज्ञस्याशीरागच्छतु ॥ ओषधीर्जनमगन् यज्ञस्ततो मा यज्ञस्याशीरागच्छतु ॥ वनस्पतीन् जनमगन् यज्ञस्ततो मा यज्ञस्याशीरागच्छतु ॥ इति सप्त जपति ।

अथ होमः मनो ज्योतिः —ट्ठघृतेन स्वाहा ॥ मनसे ज्योतिष इदम् ।

त्रयस्त्रिꣳशत्तन्तवो — अप्येतु स्वाहा ॥ देवेभ्य इदम् ।

द्रप्सश्चस्कन्द — सप्त होत्रास्स्वाहा । इन्द्रायेदम् ।

यस्ते द्रप्सस्कन्दति — तं जुहोमि स्वाहा । इन्द्रायेदम् ।

यो द्रप्सो अꣳशुः —ट्ठतं जुहोमि स्वाहा । इन्द्रायेदम् ।

यस्ते द्रप्सो — जुहोमि स्वाहा । इन्द्रायेदम् ।

महाहविर्होता — नमः पृथिव्यै स्वाहा । वाचस्पतये ब्रह्मण इदम् ।

व्याहृतीभिर्विहृताभिस्समस्ताभिश्च हुत्वा । ऋक्तो यज्ञभ्रेषप्रायश्चित्तमित्यादि ।ब्रह्मन् सोमोऽस्कान् । प्रायश्चित्तं कुरु इति ब्रह्मणानुज्ञातः अभूद्देवस्सविता वन्द्योऽनु न इदानीमह्न उप वाच्यो नृभिः । वि यो रत्ना भजति मानवेभ्यश्श्रेष्ठं नो अत्र द्रविणं यथा दधत् इति स्कन्नमभिमन्त्र्य ॥ भूपतये स्वाहेति पञ्च प्रादेशान् मिमीते यथा पुरस्तात् ।