०६ ब्रह्मोपदेशः

[[80]]

अथ ब्रह्मोपदेशः ।

सङ्कल्पादि

नम॒स् सद॑से …स॒भाम् मे॑ गोपाय ...{Loading}...
नमस् सदसे ...{Loading}...
मूलम् (संयुक्तम्)

नम॒स्सद॑से॒ नम॒स्सद॑स॒स्पत॑ये॒ नम॒स्सखी॑नाम्पुरो॒गाणा॒ञ्चख्षु॑षे॒ नमो॑ दि॒वे नमᳶ॑ पृथि॒व्यै

विश्वास-प्रस्तुतिः

नम॒स् सद॑से॥
नम॒स् सद॑स॒स्-पत॑ये॥
नम॒स् सखी॑नाम् पुरो॒गाणा॒ञ् चख्षु॑षे॥
नमो॑ दि॒वे॥
नमᳶ॑ पृथि॒व्यै॥

मूलम्

नम॒स्सद॑से
नम॒स्सद॑स॒स्पत॑ये
नम॒स्सखी॑नाम्पुरो॒गाणा॒ञ्चख्षु॑षे
नमो॑ दि॒वे
नमᳶ॑ पृथि॒व्यै

भट्टभास्कर-टीका

‘ऐन्द्रं हि देवतया सदः’ इति इन्द्रः सदसस्पतिः पालयिता तस्मै नमः । ‘षष्ठयाः पतिपुत्र’ इति सत्वम् । सखीनां समानख्यानानामृत्विजां पुरोगाणामग्रतो गन्तृणां प्रधानानां सर्वेषामपि चक्षुषे चक्षुसथानीयाय दर्शनहेतवे सवित्रे च नमः । गतमन्यत् ॥

267 सप्रथ सभाम् ...{Loading}...

सप्र॑थ स॒भाम् मे॑ गोपाय ।
ये च॒ सभ्या᳚स् सभा॒सदः॑ ।
तानि॑न्द्रि॒याव॑तᳵ कुरु ।
सर्व॒म् आयु॒र् उपा॑सताम् ।

(सर्वे॑भ्यः श्रीवैष्ण॒वेभ्यो॒ नमः॑॥)

अशेषे हे परिषत् ...{Loading}...

स्वामिनः!
अशेषे हे परिषत्
भवत्-पादमूले मया समर्पिताम् इमां सौवर्णीं यत्-किञ्चिद्-दक्षिणां
यथोक्तदक्षिणामिव स्वीकृत्य

…. नक्षत्रे …. राशौ जातस्य …. गोत्रस्य शर्मणः
अस्य मम कुमारस्य सावित्री-स्वीकरणे
मम च गायत्रीम् उपदेष्टुं
योग्यता-सिद्धिम् अनुगृहाण

प्राणान् आयम्य,
ग्रह-प्रीतिः
ब्रह्मोपदेश-मुहूर्त-लग्नापेक्षया ….

प्रक्रिया-सारः

(सू - परिषेचनान्तं कृत्वा
ऽपरेणाग्निम् उदग्-अग्रं कूर्चं निधाय
तस्मिन्न् उत्तरेण +++(“राष्ट्रभृद् असि” इत्य् अनेन)+++ यजुषोपनेता +++(आचार्यः)+++ +उपविशति ७
पुरस्तात् प्रत्यङ्ङ् आसीनः कुमारो दक्षिणेन पाणिना दक्षिणं पादम् अन्वारभ्य +++(=उपसंगृह्य)+++ आह “सावित्रीं भो अनुब्रूहि” इति ८
तस्मा अन्वाह - “तत् सवितुर्” इति ९
पच्छो ऽर्धर्चशस् ततस् सर्वाम् १०
व्याहृतीर् विहृताः - पादादिष्व् अन्तेषु वा, तथार्धर्चयोर्, उत्तमां कृत्स्नायाम् ११)

अत्र कपर्दी,

पच्छो “भूस् तद्” “भुवो भर्गस्”
“सुवर् धिय” इतीष्यते ।
अर्धशो “भूस् तद्” “भुवो
धियस्”, “सुवस् तद्” अन्यथा ।

उपवेशनम्

अपरेणाग्निम् उपविशत आचार्यस्य हस्ते
“अयं कूर्चः” इति कूर्चं कुमारो दद्यात् ।

आचार्यस् तम् आदाय
उदग्-अग्रं निधाय
तस्मिन् कूर्चे

१२ राष्ट्रभृदस्याचार्यासन्दी मा ...{Loading}...

+++(हे कूर्च!)+++ रा॒ष्ट्र॒भृद् अ॑स्य् आचार्याऽऽस॒न्दी, मा त्वद्+++(तः)+++ यो॑षम्+++(←यौतिः पृथग्भावे)+++ ।

उपनेताऽऽचार्य उपविशति ।

तमिऴ्

ஆசார்யன் ஜயாதி ஹோமம் ஆரம்பித்து, “யதஸ்ய கர்மண:’ என்கிற ஹோமம் பர்யந்தம் செய்து சம்யைகளை அபோஹநம் செய்ய வேண்டும். ப்ராணாயாமம். அஸ்மிந் மம குமாரஸ்ய உபநயந ஹோம கர்மணி யஜுர்ப்ரேஷ ப்ராயச்சித்தம் கரிஷ்யே. ஓம் புவஸ்வாஹா என்று ஹோமம் செய்து வழக்கம்போல் ப்ராயச்சித்த ஹோமம், ப்ராணாயாமம், பரிஷேசனம், ப்ரணீதா மோக்ஷணம் வரை செய்து விட வேண்டும்.

மம் அனுஜ்ஞை. நமஸ்ஸதஸே- அசேஷே + ஸ்வீக்ருத்ய அஸ்ய குமாரஸ்ய ஸாவித்ரீஸ்வீகரணே LDLD ச காயத்ரீம் உபதேஷ்டும் யோக்யதாஸித்தி மநுக்ருஹாண க்ரஹ ப்ரீதி அக்னிக்கு [[TODO::परिष्कार्यम्??]]

प्रार्थनम्

तस्य पुरस्तात् प्रत्यङ्-मुखत्वेन कुमारः स्थित्वा,

[[81]]

महा-विष्णु-स्वरूपस्य श्रीवैष्णवस्य इदम् आसनम् ।
इमे गन्धाः,
सकलाराधनैः शोभनम्

इत्य् उपचर्य
तस्य पाद-पूजाञ् च यथा-सम्प्रदायं कृत्वा
प्रत्यङ्ङ् आसीनः कुमारः
दक्षिणेन पाणिना दक्षिणं पादं
(अर्थात्सव्येन पाणिना सव्यं पादञ्च) अन्वारभ्य
“सावित्रीं भो अनुब्रूहि” इति प्रार्थयेत् ।

उपदेशः

अञ्जलि-बन्ध-युक्तस्य कुमारस्य
दक्षिणे कर्णे
आचार्य एवम् उपदिशेत् ।

११ १० पच्छोऽर्धर्चशस्ततस्सर्वाम् ...{Loading}...

पच्छो ऽर्धर्चशस् ततस् सर्वाम् १०

११ ११ व्याहृतीर्विहृताः ...{Loading}...

व्याहृतीर् विहृताः - पादादिष्व् अन्तेषु वा, तथार्धर्चयोर्, उत्तमां कृत्स्नायाम् ११

(आद्युच्चारणपक्षे)

पादशः

ओं भूस् तत् सवि॒तुर् वरे॑ण्य+++(णिय)+++म्।
ओं भुव॒र् +++(पापादि)+++भर्गो॑+++(=भर्जनम्)+++ दे॒वस्य॑ धीमहि+++(←ध्यै ध्याने / धी आराधने)+++ ।
ओं सुव॒र् धियो॒ यो नः॑ प्रचो॒दया॑त् ॥

अर्धशः पूर्णश्श्च

ओं भूस् तत् सवि॒तुर् वरे॑ण्य+++(णिय)+++म् +++(पापादि)+++भर्गो॑+++(=भर्जनम्)+++ दे॒वस्य॑ धीमहि+++(←ध्यै ध्याने / धी आराधने)+++ ।
ओं भुव॒र् धियो॒ यो नः॑ प्रचो॒दया॑त् ॥

ओं सुव॒स्

१० तत्सवितुर्वरेण्यं भर्गो ...{Loading}...

तत् सवि॒तुर् वरे॑ण्य+++(णिय)+++म्
भर्गो॑+++(=भर्जनम्)+++ दे॒वस्य॑ धीमहि+++(←धा धारणे/ ध्यै ध्याने / धी आराधने)+++ ।
धियो॒ यो नः॑ प्रचो॒दया॑त् ॥
(प॒रो-र॑जसे॒ ऽसाव॒द् ओ३म् ॥)

प्रचोदयात्-स्वरः

प्र + चुद् + णिच् उदात्तः + शप् अनुदात्तः पित्त्वात् + [लेट् → आट् + तिप् अनुदात्तः पित्त्वात्]।

प्रानुदात्तत्वं तिङन्तस्योदात्तवत्त्वात्। तच्च यत्कारसद्भावात्।

पुनः पूर्णोच्यते कैश्चित्

ॐ भूर्-भुव॒स्-सुव॒स्

१० तत्सवितुर्वरेण्यं भर्गो ...{Loading}...

तत् सवि॒तुर् वरे॑ण्य+++(णिय)+++म्
भर्गो॑+++(=भर्जनम्)+++ दे॒वस्य॑ धीमहि+++(←धा धारणे/ ध्यै ध्याने / धी आराधने)+++ ।
धियो॒ यो नः॑ प्रचो॒दया॑त् ॥
(प॒रो-र॑जसे॒ ऽसाव॒द् ओ३म् ॥)

प्रचोदयात्-स्वरः

प्र + चुद् + णिच् उदात्तः + शप् अनुदात्तः पित्त्वात् + [लेट् → आट् + तिप् अनुदात्तः पित्त्वात्]।

प्रानुदात्तत्वं तिङन्तस्योदात्तवत्त्वात्। तच्च यत्कारसद्भावात्।

एतं मन्त्रं वाचयेत् ॥

ब्रह्मोपदेश-मुहूर्तस् सुमूहूर्तोऽस्त्व् इति भवन्तोऽनुगृह्णन्तु ॥

इति सभ्यान्प्रार्थयेत् ॥

ओष्ठोपस्पर्शनम्

(सू - कुमार उत्तरेण यजुषोत्तरम् ओष्ठम् उपस्पृशते । कर्णाव् उत्तरेण)

कपर्दी,

ओष्ठ-श्यावान्त+++(=श्यामान्त)+++-पर्यन्तं
स्पृश्यते “ऽवृधम्” इत्यथ ।
आचामेन्, नेह नामास्ति
कराभ्यां युगपच्छुति ॥

कुमारः -

१४ अवृधमसौ सौम्य ...{Loading}...

+++(सावित्रीग्रहणात्)+++ अवृ॑धम् अ॒सौ+++(←प्राण-सम्बोधने)+++ सौ॑म्य प्रा॒ण, स्वं मे॑ गोपाय ।+++(५)+++

+++(सम्बोधने स्वरः कथम्??)+++

तमिऴ्

மேற்புறத்தில் சற்று மேற்காக ஆசார்யன் இருக்க, அவனிடம் குமாரன் “அயம் கூர்ச்ச:” என்று ஒரு கூர்ச்சத்தைக் கொடுக்க வேண்டும். “ராஷ்ட்ர ப்ருதஸி ஆசார்யா ஸந்தீ மாத்வத்யோஷம்” என்கிற மந்திரத்தைச் சொல்லி, அந்தக் கூர்ச்சத்தை வடக்கு நுனியாகப் போட்டுக் கொண்டு, அதில் ஆசார்யன் உட்கார வேண்டும். மாணவகன் ஆசார்யனுக்குப் பாதபூஜை செய்து விட்டு உட்கார்ந்து கொண்டு தன்னுடைய வலது கையினால் ஆசார்யனின் வலது பாதத்தையும், இடது கையினால் இடது பாதத்தையும் பிடித்துக் கொண்டு “ஸாவித்ரீம் போ அநுப்ரூஹி’ என்று பிரார்த்திக்க வேண்டும். அதை அனுஸரித்து ஆசார்யனும் மாணவகனுக்குக் காயத்ரியை உபதேசிக்க வேண்டும். [[TODO::परिष्कार्यम्??]]

उत्तरमोष्ठमुपस्पृश्य,
अन्यत्राचलन्,
उदङ्मुखः प्राङ्मुखो वा [[82]] आचामेत् ।

कर्ण-स्पर्शः

पुनर् अपि प्रत्यङ्ङ् आवृत्य,

१५ ब्रह्मण आणी ...{Loading}...

+++(सावित्री)+++ब्रह्म॑ण+++(=मन्त्रस्य)+++ आ॒णी+++(=कीले)+++ स्थः॑ ॥+++(५)+++

यौगपद्येन कर्णावुपस्पृशेत् ।