०२ दाहः

पैतृमेधिकसंस्कारः॥

कर्ता स्नात्वा आर्द्रवासाः धृतोर्ध्वपुण्ड्रः, प्राचीनावीती

अशेषे हे परिषत् ...{Loading}...

स्वामिनः!
अशेषे हे परिषत्
भवत्-पादमूले मया समर्पिताम् इमां सौवर्णीं यत्-किञ्चिद्-दक्षिणां
यथोक्तदक्षिणामिव स्वीकृत्य

गोत्रं शर्माणं, प्रेतम् अमुकाग्निना पैतृमेधिकविधिना संस्कर्तुं योग्यतासिद्धिरस्त्विति भवन्तो महान्तोनुगृह्णणन्तु

इति परिषदं प्रार्थ्य, तदनुज्ञातः, उपवीती, प्राणानायम्य,

[[40]]

… गोत्रस्य … शर्मणः पितुः प्रेतस्य प्रथमेऽहनि पैतृमेधिकसंस्कारार्थं स्वस्य योग्यतासिद्ध्यर्थं सप्त पञ्च त्रीणि वा कृच्छ्राणि करिष्य

इति सङ्कल्प्य,

Hira Nya garbha garbhastha M sampradade ...{Loading}...
हिरण्य-गर्भ--गर्भ-स्थं ...{Loading}...
विश्वास-प्रस्तुतिः

+++(हिरण्य!)+++ हिरण्य-गर्भ–गर्भ-स्थं
हेम-बीजं विभावसोः ।
अनन्त-पुण्य-फल-दम्
अतश् शान्तिं प्रयच्छ मे॥

मूलम्

हिरण्यगर्भगर्भस्थं
हेमबीजं विभावसोः ।
अनन्तपुण्यफलदम्
अदश्शान्तिं प्रयच्छ मे॥


हिरण्यगर्भगर्भस्थं
हेमबीजं विभावसोः ।
अनन्तपुण्यफलदम्
अतश्शान्तिं प्रयच्छ मे॥

दानम्, त्यागः

… यत्किञ्चिद्धिरण्यानि
नानागोत्रेभ्यः श्रीवैष्णवेभ्यः येभ्यस् तेभ्यः/ तुभ्यम् अहं
सम्प्रददे

(न मम॥)

संस्कारकरणयोग्यतासिद्ध्यर्थं यत्किञ्चिद्धिरण्यं तुभ्यमहं सम्प्रददे न मम

इति दत्वा, उपवीती प्राणानायम्य, प्राचीनावीती सङ्कल्प्य

गोत्रं शर्माणिं पितरं प्रेतम् औपासनाग्निना पैतृमेधिकविधिना संस्करिष्यामि

इति सङ्कल्प्य पूर्ववदुल्लेखनादिदर्वीसंस्कारान्तं विपरीतं कृत्वा, अग्निमप्रदक्षिणं परिषिच्य, अग्नेः पश्चात् दर्भेषु,

सर्वस्य प्रतिशीवरी भूमिस्त्वोपस्थ आधित । स्योनास्मै सुषदा भव यच्छास्मै शर्म सप्रथाः

इति दक्षिणाशिरसं प्रेतं शाययित्वा, प्रेतान्वारब्धः, “परे युवाँसम्” इति औपासने हुत्वा,

परेयुवाँसं प्रवतो महीरनुबहुभ्यः पन्थामनपस्पशानम् । वैवस्वतँ सङ्गमनं जनानां यमँ राजानँ हविषा दुवस्यत स्वाहा । यमायेदम्

पुनः परिषिच्य, हस्ताङ्गुष्ठौ पादाङ्गुष्ठौ च पृथक् पृथक् श्वेतसूत्राभ्यां बध्वा, शिरसि नलदमालामाबध्य, औदुम्बर्याम् आसन्द्याम् उत्तानं प्रेतं निपात्य, “इदन्त्वा वस्त्रं प्रथमन्वागन्”, इति नववस्त्रेणाच्छाद्य, पूर्वधृतवस्त्रमादाय,

अप्रैतदूह यदिहाबिभः पुरा इष्टापूर्तमनुसम्पश्य दक्षिणां, यथा ते दत्तं बहुधा विबन्धुषु,

इत्यृचा स्वयं धृत्वा आचामेत् । तस्मिन् नवाग्नौ जीवतण्डुलं चरुं श्रपयित्वा, चरुम् अभिघार्य, दक्षिणत उद्वास्य पुनरभिघार्य

[[41]]

अग्निं भाण्डे समारोप्य, तत्पुत्रो भ्राता वा भृत्यो वासन्नबन्धुः ततो वाहकाननुमन्त्रयेत् । इमौ युनज्मि,

ते वह्नी असनीथाय वोढवे । याभ्यां यमस्य सादनँ सुकृतां चापि गच्छतात् ।

इति वाहकाननुमन्त्र्य, तैरादीयमानं

प्रेत पूषा त्वेतश्च्यावयतु प्रविद्वाननष्टपशुर्भुवनस्य गोपाः । स त्वैतेभ्यः परिददात् पितृभ्योऽग्निर्देवेभ्यः सुविदत्रेभ्यः ।

अग्रे अग्निं प्रस्थाप्य, तत्पश्चात् कर्ता मुक्तशिखो गच्छेत् । ततः तिलान् तण्डुलान् चरुं पालाशशाखां लोष्टान् हिरण्यशकलान् आज्यपात्त्राणि दर्भान् मेक्षणम् उदकुम्भं च सिकताश्च क्रमेण प्रस्थापयेत् । ततो वाहकाः निवीतिनो मौनिनश्च ग्रामानभिमुखं प्रेतं निर्हरेयुः । ग्रामश्मशानयोरन्तरं मार्गं चतुर्धा कृत्वा, तत्राद्यं चतुर्थांशं गत्वा, दक्षिणाशिरसं प्रेतं निधाय,

सर्वस्य प्रतिशीवरी भूमिस्त्वोपस्थ आधित । स्योनास्मै सुषदा भव यच्छास्मै शर्म सप्रथाः ।

दक्षिणतो लोष्टेषु चरुं प्रतिष्ठाप्य, सर्वे ज्ञातयः द्वेधा केशान् विभज्य, दक्षिणान् केशान् आबध्य, सव्यान् विस्रस्य, दक्षिणानुरूनाघ्नाना अथो (धो) वस्त्राण्यवधून्वन्तः कनिष्ठपूर्वं प्रेतं त्रिः अप्रदक्षिणं परियन्ति ।

अपनश्शोशुचदघमग्ने शुशुद्ध्या रयिम् । अपनश्शोशुचदघम्

इति प्रेतं त्रिः प्रदक्षिणं कुर्युः । “अपनश्शोशुचदघ-दघम्” । प्रेतस्य दक्षिणपार्श्वे अश्मना तिस्रः कर्षूर्दक्षिणापवर्गाः खात्वा, तेषु तिलोदकं दत्वा, मेक्षणेन चरोः तृतीयांशमादाय, पथि “भूतेभ्य इदं बलिं ददामि”

[[42]]

“पुनस्तिलोदकं ददामि” । त्रिः घट्टयेत् । ततस्तैः आदीयमानं प्रेतं “पूषेमा आशा” इति पूर्ववदवदाय,

पूषेमा आशा अनुवेद सर्वास्सो अस्माँ अभयत मेन नेषत् । स्वस्तिदा अघृणिः सर्ववीरोऽप्रयुच्छन् पुर एतु प्रविद्वान् ।

तुरीयमध्वनो गत्वा, सर्वस्य प्रतिशीवरी भूमिसप्रथाः । प्रेतं निधाय पूर्ववदप्रदक्षिणं त्रिः पश्चात् त्रिः प्रदक्षिणं कृत्वा, “अपनश्शोशुचदघं-दघम्” । मेक्षणेन चरोस्तृतीयांशमादाय पथि “भूतेभ्य इमं बलिं ददामि” पुनस्तिलोदकं दत्वा, आदीयमानमनुमन्त्रयते ।

आयुर्विश्वायुः परिपासति त्वा पूषा त्वा पातु प्रपथे पुरस्तात् । यत्रासते सुक्रतो यत्र ते ययुस्तत्र त्वा देवस्सविता दधातु ।

तुरीयमध्वनो गत्वा, प्रेतं निधाय

सर्वस्य प्रतिशीवरी भूमिस्त्वोपस्थ आधित । स्योनास्मै सुषदा भव यच्छास्मै शर्म सप्रथाः । अपनश्शोशुचदघं – दघम् ।

पूर्ववत् प्रदक्षिणादिकं कृत्वा, प्रेतस्य दक्षिणपार्श्वे दक्षिणापवर्गाः खात्वा, तेषु तिलोदकं निक्षिप्य, पथि भूतेभ्य इमं बलि ददामि, पुनस्तिलोदकं ददामि । अथास्य कपालानि सुसम्भिन्नानि सम्भिनत्ति यथैषूदकं न तिष्ठेत् ।

आयुर्विश्वायुः परिपासति त्वा पूषा त्वा पातु प्रपथं पुरस्तात् । यत्रासते सुकृतो यत्र ते ययुः तत्र त्वा देवस्सविता दधातु ।

चतुर्थांशमादाय गत्वा, चितेः पश्चाद्भागे निधाय, तत्पूर्वभागे अग्निं निधाय,

एषा वै देवमनुष्याणाँ शान्ता दिक् । तामेवैताननूत्क्रामन्ति

कर्त्रा सह उदीचीं दिशं गच्छेयुः ।

[[43]]

हिरण्येन पलाशशाखया शमीशाखया तासामभावे बहुपर्णशाखया यया कयाचित् शाखया “अपेत वीते"त्येतया पाठेन संमृज्य,

अपेत वीत वि च सर्पतातो ये त्रस्थ पुराणा ये च नूतनाः । अदादिदं यमोऽवसानं पृथिव्या अक्रन्निमं पितरो लोकमस्मै ।

उद्धृत्यावोक्ष्य, हिरण्यशकलं निधाय, आज्यबिन्दून्वा तस्मिन् दक्षिणाग्रान् दर्भान् संस्तीर्य, तेषु दक्षिणाग्रैः याज्ञियैः काष्ठैः दारुचितिं कृत्वा दक्षिणाप्रागग्रैः अग्निं दारुचितिं च परिस्तीर्य दक्षिणतः पश्चाद्वा दर्भान् संस्तीर्य दक्षिणतः प्राच्यां च एकैकशः दर्वीम् आज्यस्थालीं प्रोक्षणीपात्रं च सादयित्वा रज्जून् छित्वा आसन्द्याम् एकैकं वंशमपनीय, यथा रज्जुषु प्रेतः शयीत, तथा कृत्वा, एकदर्भपवित्रेण प्रोक्षणीरुत्पूय, अङ्गुष्ठबन्धनसूत्रे छित्वा, मृतं पात्राणि दारुचितिं च प्रत्येकं प्रोक्ष्य, आज्यस्थाल्याम् आज्यं निरुप्य, दक्षिणतोऽङ्गारान् निह्य[[??]], एरुकदर्भेण तेष्वधिश्रित्य, दर्भाग्रं प्रेतस्य विपरीतं पर्यग्नि कृत्वा दक्षिणत उद्वास्य, अङ्गारानग्नौ प्रत्यूह्य, दक्षिणाग्रं पवित्रं विपरीतं त्रिरुत्पूय ग्रन्थिं विस्रस्य अद्भिस्संस्पृश्य अग्नौ प्रहरति । दर्वीं निष्टप्य, दर्भेण संमृज्य पुनः निष्टप्य प्रोक्ष्य निधाय अद्भिः संस्पृश्य अग्नौ प्रहरति । सृवर्णँ[[??]] हस्तात् इति सुवर्णेन हस्तौ संमृज्य,

सुवर्णँ हस्तादाददानामृतस्य श्रियै ब्रह्मणे तेजसे बलाय । अत्रैवं त्वामिह वयँ सुशेवा विश्वास्पृधो अभिमातीर्जयेम ।

[[44]]

प्रेतं दक्षिणाशिरसं, चितिमारोप्य, आज्यबिन्दून् वा सप्त व्याहतीः मनसा ध्यायन् आस्यचक्षुश्श्रोत्रनासिकेषु, दक्षिणसव्येषु क्रमात् निक्षिपेत् । अथ तिलतण्डुलान् आस्ये दत्वा, आदित्याभिमुखः स्थित्वा अग्निं गृहीत्वा, “मैनमग्ने”, “शृतं यदे"ति द्वाभ्यां ज्वलदुल्मुकेन उरसि दहेत् ।

मैनमग्ने विदहो माभिशोचो मास्य त्वचं चिक्षिपो मा शरीरम् । यदा शृतं करवो जातवेदोथेमेनं प्रहिणुतात् पितृभ्यः शृतं यदा करसि जातवेदोथेमेनं परिदत्तात्पितृभ्यः यदा गच्छात्यसुनीतिमेतामथा देवानां वशिनीर्भवाति । सूर्यं ते चक्षुः

इति प्रेतमुपस्थाय,

सूर्यं ते चक्षुर्गच्छतु वातमात्मा द्यां च गच्छ पृथिवीं च धर्मणा । अपो वो गच्छ यदि तत्र ते हितमोषधीषु प्रतितिष्ठा शरीरैः ।

अथाग्नेः पश्चात् प्राङ्मुखः स्थित्वा “य एतस्य पथो गोप्तार” इति नवभिः आज्याहुतीः जुहोति । अग्निम् अपसव्यं परिषिच्य, स्रुवेणाज्यमादाय

य एतस्य पथो गोप्तारस्तेभ्य इदम् । य एतस्य (पथो रक्षितारस्तेभ्यस्स्वाहा ।) पथो रक्षितारस्तेभ्य इदम् । पथो रक्षितारस्तेभ्य इदम् । य एतस्य पथोऽभिरक्षितारस्तेभ्यस्स्वाहा । पथोऽभिरक्षितारस्तेभ्य इदम् । आख्यात्रे स्वाहा । आख्यात्र इदम् । अपाख्यात्रे स्वाहा । अपाख्यात्र इदम् । अभिलालपते स्वाहा । अभिलालपत इदम् । अपलालपते स्वाहा । अपलालपत इदम् । अग्नये कर्मकृते स्वाहा । अग्नये कर्मकृत इदम् ।

[[45]]

यमत्र नाधीमस्तस्मै स्वाहा । यमायेदस् । आज्यस्थालीं दर्वीं चाग्नौ प्रहरेत् । नग्नं दहेत । पुनः परिषिच्य ।

अथ अग्नेः पश्चात् प्राङ्मुख उपविश्य ‘प्रकेतुना’ इति नवभिः ऋग्भिः प्रणवं सन्धाय शंसेत् ।

प्रकेतुना बहना भात्यग्निः आविर्विश्वानि वृषभो रोरवीति ।
दिवश्चितन्त्वामुपमामुदानडपामुपस्थे महिषो ववर्धोम् ।
इदन्त एकं परम्[[??]] ऊत एकं तृतीयेन ज्योतिषा संविशस्व ।
संवेशनस्तनुवै चारुरेधि प्रियो देवानां परमे सधस्थोम् ।
नाके सुवर्णमुर्पयत्पतन्तँ हृदा[[??]] वेनन्तो[[??]] अभ्यचक्षत त्वा ।
हिरण्यपक्षं वरुणस्य दूतं यमस्य योनौ शकुनं भुरण्योम् ।
अतिद्रवसारमेयौ श्वानौ चतुरक्षौ शबलौ साधुना पथा ।
अथा पितॄन् सुविदत्राँ अपीहि यमेन ये सधमादं मदन्त्योम् ।
यौ ते श्वानौ यमरक्षितारौ चतुरक्षौ पथि रक्षी नृचक्षसा ।
ताभ्याँ राजन् परिदेह्येनँ स्वस्ति चास्मा अनमीवं च धेह्योम् ।
उरुणसा वसुतृपावुलुम्बलौ यमस्य दूतौ चरता वशाँ अनु ।
तावस्मभ्यं दृशये सूर्याय पुनर्दत्तावसुमद्येह भद्रोम ।
सोम एकेभ्यः पवते घृतमेक उपासते येभ्यो मधु प्रधावति ताँश्च देवापि गच्छतोम् ।
ये युध्यन्ते प्रथनेषु शूरासो ये तनुत्यजः ।
ये वा सहस्रदक्षिणास्ताँश्च देवापिगच्छतोम् तपसा ये अनाधृष्यास्तपसा ये सुवर्गताः ।
तपो ये चक्रिरे महत्ताँश्च देवानि[[पि??]]गच्छतोम् ।

इति शंसेत् ।

[[46]]

ततः चितेः पश्चात् दक्षिणोत्तरदीर्घात् त्रीन् गर्तान् खात्वा तेषु [[??]]वटेषु अश्मभिः सिकताभिः प्रपूर्य

अश्मन्वती रेवतीस्सरभध्वमुत्तिष्ठत प्रतरता सखायः ।
अत्रा जहाम ये असन्नशेवाश्शिवान् वयमभि वाजानुत्तरेम

इति कुम्भजलेन पूरयित्वा तेषु जातयः कनिष्ठपूर्वम् अवतीर्य, तयोरग्रे दर्भमयेन शुल्बेन तोरणवदध्वा तयोर्मध्ये “यद्वै देवस्ये"ति निर्गच्छेयुः ।

यद्वै देवस्य सवितुः पवित्रं सहस्रधारं विततमन्तरिक्षे ।
येनापुनादिन्द्रमनातेमार्त्यै तेनाहं माँ सर्वतनुं पुनामि ।
या राष्ट्रात्पन्नादपयन्ति शाखा अभिमता नृपतिमिच्छमाना ।
धातुस्तास्सर्वाः पवनेन पूताः प्रजयास्मान् रय्या वर्चसा सँसृजाथ ।

इति रज्जून् छित्वा दक्षिणस्यां नैऋऋत्यां दिशि पृथक् पृथक् परित्यजेत् । ततः “उद्वयं तमसस्परि”, इत्यादित्यमुपस्थाय ।

उद्वयं तमसस्परि पश्यन्तो ज्योतिरुत्तरम् ।
देवं देवत्रा सूर्यमगन्म ज्योतिरुत्तमम् ।

श्मशानम् अनवेक्षमाणा उदकान्तं गत्वा केशान् विस्रस्य पांसूनोप्य ।

धाता पुनातु सविता पुनातु । अग्नेस्तेजसा सूर्यस्य वर्चसा ।

अथ - प्रवाहोदकेन स्नानं कुर्युः । यद्यज्ञातयः प्रेतं वहेयुः तं सभां प्रदक्षिणीकृत्य दण्डवत् प्रणम्य ब्रह्मदण्डं गृहीत्वा

अशेषे हे परिषत् ...{Loading}...

स्वामिनः!
अशेषे हे परिषत्
भवत्-पादमूले मया समर्पिताम् इमां सौवर्णीं यत्-किञ्चिद्-दक्षिणां
यथोक्तदक्षिणामिव स्वीकृत्य

गोत्रस्य शर्मणः पितुः प्रेतस्य अद्यप्रथमेऽहनि, पैतृमेधिकसंस्कारकर्मणि मन्त्रलोपे क्रियालोपे द्रव्यलोपे नियमलोपे सत्यपि सर्वं यथाशास्त्रानुष्ठितं भूयादिति भवन्तो महान्तोऽनुगृह्णन्तु ।

[[47]]

ब्राह्मणेभ्यः यथाशक्ति दक्षिणां दद्यात् ।