त्रिषाहस्रकारिकाः

अथ चतुरस्रचितेः क्षेत्रलक्षणं विवक्षुः आदौ पुच्छक्षेत्रलक्षणमाह ।

अष्टादशे तु द्वाविंशात् चतुर्भ्येने द्विपुच्छकम् ।

तदारभ्यात्मनो मानं त्रिंशात्पञ्चोनितेऽपि च ॥

तदारभ्य शिरः कार्यं पुरस्ताद्विविशिष्यते ।

पृष्ठ्यां अष्टादशे कृत्वा व्यत्यस्य प्रक्रमद्वये शङ्कुं निहत्य उभयतः ततः पृष्ठ्यां निधाय च । त्रयोविंशे ततः शङ्कुः भवेद्द्विप्रक्रमेऽभितः । एतत् पुच्छमिति ॥

अव्यत्यासेन अष्टादशे पृष्ठ्यां ं निधाय दक्षिणतो द्विप्रक्रमे शङ्कुः । एवमुत्तरतः । त्रयोविंशत्यस्य प्रुष्ट्यांं निदाय दक्षिनतः उत्तरतः पूर्ववत् श्ङ्कुद्वयम् । एतत् पुच्छं आत्मनेमानमाह । अयमर्थम् । त्रयोविंशेव पृष्ठ्यान्निधाय दक्षिणतः चतृषु शङ्कुः । एवमुत्तरतः । एकत्रिम्शोनिधाय दक्षिणत उत्तरत पूर्ववत् शङ्कुद्वयं एवमात्मा पक्षयोः लक्षणमाह । ततः पञ्चविंशे पृष्ठ्यांं निधाय च सारत्यष्टासु शङ्कुस्यात् । एकोनत्रिंशकेत्तथा । पञ्चविंशे पृष्ट्यां निधाय अरन्त्यधिता अष्टासु दक्षिणतः शङ्कुः । एवमुत्तरतः । एकोनत्रिंशे निधाय एवमेव उभयतः शङ्कुद्वयं एतौ पक्षौ सर्वं अग्निं स्पन्दया आवोष्टयेत् । अथ चतरस्रचयनस्य कर्णिकालक्षणमाह :- आद्याचतुर्थभागीया द्वितीया पंचमी मता तृतीया पादमात्रीस्यात् चतुर्थी द्वादशांगुला । पञ्चम्यश्टाङ्गुलासर्वा चतुरस्रा प्रकीर्तिता इति । अस्यार्थः पुरुषः तावत् विंशत्यधिकशतांगुलो भवति तस्य चतुर्थभागीया एका कर्णिका सर्वतः त्रिण्शदङ्गुलपरिमिता । चतरस्रा भवतीत्यर्थः । पुरुषस्य पञ्चमभागीया सर्वतोऽरत्निमात्रपरिमिता भवतीत्त्यर्थः । तृतीयपुरुषस्य अष्टमभागीया सा पादेष्टका इत्युच्यते सर्वतः पञ्चदशाङ्गुलपरिमितेत्यर्थः । चतुर्थी द्वादशाङ्गुला । सर्वतः द्वादशाङ्गुला प्रादेशमात्री भवतीत्यर्थः । पञ्चम्यष्टाङ्गुलेति सर्वतः अष्टांगुलपरिमिता पञ्चदशभागीया भवतीत्यर्थः । प्रथमश्येनस्य दीर्घचतुरस्रादीनां करणा तत्प्रस्तावे वक्ष्यामः ।इति चयनकारिका दीपिकायां कर्णिकालक्षणाधिकारः प्रथमः ।

अतदूर्ध्व पक्षानन्तरमाह प्रस्तरवर्जम् । स्वतवां नित्यनुद्रुत्यगुणेनाधानेन ह्वयते । ग्राम्याणां स्वतवान् षष्ठी तथा कण्वा आधीयते । सत्याषाढभारद्वाजावपि सप्तममाहतुः । दशते तनुवो भूयादध्रुवासीत्यादि शंयुवाक् । संयजान्तेष्टिरत्रापि पिष्टादि परिवेषणम् ।

यज्ञवेङ्कटरामकृताः त्रिषाहस्रकारिकाः

विनायकं नमस्कृत्य गुरून् वागीश्वरीमपि ।

त्रिषाहस्रप्रयोगस्य कारिकादि वितन्यते१ ॥ १

त्रिप्रस्तारास्त्रिषाहस्रे चितयः परिकीर्तिताः ।

तूष्णीं पुरीषं प्रस्तारे प्रस्तारे घट्टनार्थकम् ॥ २

चित्यन्ते तु समन्त्रं स्यादिति भाष्ये निरूपितम् ।

पुरीषान्तेति सूत्रेण पञ्चेत्यादि श्रुतेरपि ॥ ३

अश्वालम्भस्तु चित्यादौ चित्यन्ते च विधीयते ।

चितेराद्यन्तयोरेव वाङ्म इत्यादिना जपः ॥ ४

तूष्णीमेवाऽऽरोहणावरोहणे इतरत्र तु ।

अनूपसदमेकैका चितिरन्त्या दिनद्वयम् ॥ ५

नास्ति शुल्बोपधाने तु विशेषस्स्यात् सहस्रवत् ।

आद्यप्रस्तारवत् प्रस्ताराष्टकं स्यादयुग्मकम् ॥ ६

द्वितीयवत्तथैव स्याद्युग्मप्रस्तारसप्तकम् ।

प्रथमाया अथ चितेर्मन्त्रोपहितिरुच्यते ॥ ७

पञ्चम्यामाक्रमण्यन्त्या त्वष्टम्यां मण्डलादिमा ।

तृतीयान्त्या चतुर्थ्यंत्या अन्वारोहाभिधे मते ॥ ८

द्वादश्यां वामभृत्वाद्या यूनो रेतस्सिचावथ ।

नवम्याद्या दशम्याद्ये एकैव स्थविरस्य तु ॥ ९

एकादश्यामदिमा तु विश्वज्योतिः प्रकीर्तिता ।

अष्टम्यां च नवम्यां च संय्यान्यावन्तिमे मते ॥ १०

षोडश्यौ पूर्वयो रीत्योः ऋतव्याख्ये तथान्तिमे ।

द्वादश्युपादिमाषाढा तस्यामेवान्तिमे उभे ॥ ११

घर्मेष्टका कुलायिन्यौ वक्ष्यते पुरुषाकृतिः ।

चतुर्दशीत्रयोदश्योराद्ये पश्चिमरीतिगे ॥ १२

तृतीया च चतुर्थी चाप्यात्मदक्षिणपार्श्वगाः ।

प्रागायताश्च षोडश्यः सप्तम्यां तिस्र एव च ॥ १३

द्वितीयाद्यास्तथा षष्ठ्यामाद्येति प्रथमो गणः ।

तृतीया च त्रयोदश्यां द्वादश्यां तिस्र एव च ॥ १४

पञ्चम्याद्याश्चतस्रश्च पृष्ठ्यारीतिगतास्तथा ।

पाद्याश्चतस्रस्सप्तम्यां ताः पूर्वोपहितोत्तराः ॥ १५

इष्टकाभिर्द्वादशभिः मध्यमः पौरुषो गणः ।

अन्त्या पाद्या चतुर्दश्यां त्रयोदश्यन्त्यषोडशी ॥ १६

आष्टमी नवमी चापि द्वादश्यामिष्टकाद्वयं ।

पृष्ठ्यारीतेरुत्तराश्च सप्तम्यां तिस्र एव च ॥ १७

अन्त्या षष्ठ्यामिति ज्ञेयस्तृतीयः पौरुषो गणः ।

षोडश्यां मध्यमा पाद्या परतः षोडशी युगम् ॥ १८

अपरस्यां मध्यमा च त्रयोदश्यां तु षोडशी ।

द्वितीया चेति पञ्चामूरपस्याः पुरतस्थिताः ॥ १९

पक्षे दक्षिणतः पुच्छे तथैवोत्तरपक्षके ।

यथाकाममपस्यास्स्युरवकाशबहुत्वतः ॥ २०

कुम्भेष्टका अपस्यान्ते ये यज्ञमिति वा कृते ।

निदध्यादपकृष्यापि परतस्तद्विरोधतः ॥ २१

नैवारचरूपध्यन्ते कृते लोकंपृणा मताः ।

एकत्रिंशत् परशतमिहलोकंपृणा मताः ॥ २२

रेतस्सिचां वशा द्वाभ्यां एकया वोनता भवेत् ।

तूष्णीं पुरीषमध्यूह्य तूष्णीमेवावरुह्य च ॥ २३

अथ द्वितीये प्रस्तारे उपदध्यादृषीष्टकाः ।

गणभेदो यथा न स्यात् स्यादुदक् प्राक्च विक्रमः ॥ २४

तथोपधाय च शतं शिष्टा लोकंपृणाश्शतम् ।

पुरीषमवरोहश्च तूष्णीं पूर्ववदत्र च ॥ २५

प्रस्तारेऽथ तृतीये स्युः प्राणापानभृतश्शतम् ।

आद्याश्चतस्रो द्वादश्यां पूर्वस्यामादिमे उभे ॥ २६

आद्यास्तिस्रश्च पूर्वस्यां पञ्चदश्यास्तथादिमा ।

षोडशी चेति विज्ञेयाः पूर्वाः प्राणभृतो दश ॥ २७

विशया दक्षिणे पक्षे पश्चिमा दक्षिणा ततः ।

तत्पूर्वा दक्षिणे तस्यास्तत्पूर्वा दक्षिणे ततः ॥ २८

मध्यीयायास्तु पूर्वस्या उत्तरत्रेष्टकाद्वयम् ।

इत्येव दक्षिणे पक्षे दश प्राणभृतो मताः ॥ २९

तुर्यरीतावादिमे द्वे तत्पश्चात् षोडशी युगम् ।

पश्चाच्च षोडशीद्वन्द्वमपरस्याञ्चतुष्टयम् ॥ ३०

इति पुच्छे दशप्राणभृतो ज्ञेया अथोत्तरे ।

तथैव स्युः प्राणभृतो यथा दक्षिणपक्षके ॥ ३१

अष्टम्यां द्वे तु षोडश्यौ द्वितीया च तृतीयिका ।

सप्तम्यां च द्वितीयाद्याः पञ्चषष्ठ्यां तथादिमा ॥ ३२

पञ्चम्यामादिमा चेति मध्याः प्राणभृतो दश ।

षोडश्यामन्तिमा पाद्या पञ्चदश्यान्त्यषोडशी ॥ ३३

चतुर्दश्यामन्ततो द्वे त्रयोदश्यन्तिमे उभे ।

अन्त्याश्चतस्रो द्वादश्यामित्यपानभृतो दश ॥ ३४

दक्षिणे पश्चिमं पत्रं पक्ष्या चैव तदुत्तरा ।

पूर्वा तदुत्तरे पूर्वा तस्या उत्तरतो द्वयम् ॥ ३५

तत्पूर्वे चेति विज्ञेया दश दक्षिणतस्स्थिताः ।

अन्त्याश्चतस्र आद्यायां पूर्वस्यामन्ततो द्वयम् ॥ ३६

तृतीयस्यामन्तिमे द्वे चतुर्थ्यामन्ततो द्वयम् ।

पुच्छस्था इति विज्ञेयाः दशापानभृतस्तथा ॥ ३७

उत्तराश्चापानभृतो ज्ञेया दक्षिणपक्षवत् ।

रीतित्रये चाष्टम्यादौ षोडश्यो दक्षिणाग्रकाः ॥ ३८

पृष्ठ्यादक्षिणपार्श्वस्थं द्वितीयादीष्टकात्रयम् ।

पृष्ठ्यारीतौ तृतीया च चतुर्थी चापि षोडशी ॥ ३९

द्वादश्यां सप्तमी पाद्या पृष्ठ्याया उत्तरत्र तु ।

चतुर्थी षोडशी चेति विज्ञेया मध्यतस्स्थिताः ॥ ४०

आद्यद्वितीयनवमास्त्रिपदास्युर्गणेगणे ।

अन्ये षट् द्विपदाः प्रोक्ताः मन्त्रः पञ्चपदोन्तिमः ॥ ४१

प्राचीदिशामित्यत्रापि गणा मन्त्राश्च पूर्ववत् ।

सर्वेऽपि द्विपदा मन्त्राः षष्ठस्तु त्रिपदो भवेत् ॥ ४२

विभक्ता इति विज्ञेयाः प्राणापानभृतश्शतम्२ ।

दक्षिणे स्युस्सन्ततयः प्राणापानभृदन्तरा ॥ ४३

प्राणापानभृतां मध्ये वशा उत्तरपक्षगाः ।

शिरोग्रीया पक्षयोस्तु द्वयोर्मध्यमपत्रकम् ॥ ४४

सप्तम्यामादिमा पाद्या षष्ठ्याञ्चैव तृतीयका ।

आद्यरीतावष्टमी च त्रिवृदाद्याष्षडीरिताः ॥ ४५

अष्टम्यामृषभ—-विज्ञेया प्रथमाचितिः ।

अश्वालम्भ पूरीषादि यथासूत्रं वितन्यते ॥ ४६

चितेरथ द्वितीयस्याः प्रस्तारे प्रथमे मताः ।

आश्विन्यश्च तथर्तव्याः पञ्च प्राणभृतोपि च ॥ ४७

अपस्याः पञ्चोपदध्यात् शिष्टा लोकंपृणा इह ।

सयाँन्यौ च तथर्तव्ये प्रस्तारे पञ्चमे मताः ॥ ४८

अपस्या अत्र वा ज्ञेयास्ततः सयाँन्यृतव्यके ।

शिष्टा लोकंपृणाष्षष्ठे प्रस्तारे त्र्यविरादिकाः ॥ ४९

ऋषभान्ताः पृणाश्शिष्टा द्वितीयाचितिरीरिता ।

तृतीयस्याश्चितेरश्वालम्भनादि वितन्यते ॥ ५०

मण्डलान्ते विवयसस्तिस्रो रेतस्सिचस्त्विह ।

विश्वज्योतिश्च सय्याँन्यौ चतस्रश्चाप्यृतव्यकाः ॥ ५१

राज्ञसीत्यादि दिश्यास्स्युश्शिष्टा लोकंपृणास्मृताः ।

अथाष्टमे तु प्रस्तारे दश प्राणभृतः पुरः ॥ ५२

षट्त्रिंशतञ्च बृहतीरुपधाय यथाविधि ।

लोकंपृणाभिः प्रच्छाद्य नवमं प्रतिपद्यते ॥ ५३

वालखिल्याः पुरस्ताच्च पश्चाच्चाप्युपधाय तु ।

भूतेष्टका आत्ममध्ये ऋषभादि ततो भवेत् ॥ ५४

तुरीयायाश्चितेराद्ये प्रस्तारेऽश्वादिके कृते ।

आशुस्त्रिवृत्तथैवाग्नेर्भागोऽसीत्यनुवाकयोः ॥ ५५

एका द्वावपि वा कृत्वा पृणाभिश्छादयेत्ततः ।

एकादशेऽथ प्रस्तारे सयाँन्यादि विधीयते ॥ ५६

अग्नेर्भागोऽसीति वा स्यादृतव्यान्ते पृणा इह ।

प्रस्तारेऽथ द्वादशे स्युस्सृष्टयो व्युष्टयस्तथा ॥ ५७

ईयुष्टे ये षोडशी स्यात् ततश्चितिसमापनम् ।

अथातः पञ्चमचितेर्मन्त्रोपहितिरुच्यते ॥ ५८

असपत्नोपधानान्ते विराडन्तेऽथवा पृणाः ।

चतुर्दशेऽथ प्रस्तारे विराडादि वितन्यते ॥ ५९

प्रागायता रीतयस्तु षडात्मनि खलु स्थिताः ।

दक्षिणस्यां रीतिकायां पूर्वास्तिस्रस्तदुत्तराः ॥ ६०

चतस्रोऽन्त्या तृतीयस्यां सप्तमी च तथाष्टमी ।

चतुर्थ्यामष्टमी चेति विराजः पूर्वगा दश ॥ ६१

दक्षिणे पश्चिमात्पत्रात् उत्तरैका ततः पुरः ।

एका तदुत्तरा पूर्वा तत्पूर्वा तत उत्तरा ॥ ६२

तत्पूर्वा पूर्विका तस्याः पक्ष्या चैव तदुत्तरा ।

पक्ष्या तत्पूर्विका चेति विराजो दश दक्षिणाः ॥ ६३

आद्यायामादितः तिस्रो द्वितीयस्याश्चतुष्टयम् ।

तृतीयस्यामादितो द्वे दक्षिणा प्रत्यगग्रका ॥ ६४

षोडशी चेति विज्ञेया विराजो दश पश्चिमाः ।

विराज उत्तरे पक्षे ज्ञेया दक्षिण पक्षवत् ॥ ६५

आत्मपञ्चमरीतौ तु चतस्रः पुरतः स्थिताः ।

षष्ठ्यामन्त्यास्तथा तिस्रः स्तोमभागास्तु पूर्वगाः ॥ ६६

दक्षपक्षोत्तरार्धे तु सप्तदक्षिणपार्श्वतः ।

प्रागायतायां रीतौ स्युस्स्तोमभागास्तु दक्षिणाः ॥ ६७

अन्त्यास्तिस्रस्त्वादिमायां द्वितीयस्यां तथा त्रयम् ।

तृतीयस्यामन्ततस्स्यादेकैवं पश्चिमा मताः ॥ ६८

पक्षे तथोत्तरे ज्ञेया दक्षिणार्धोत्तरान्तगाः ।

पक्ष्यास्सप्त स्तोमभागा मता प्रागपवर्गकाः ॥ ६९

अष्टमी च द्वितीयस्यां रीत्योरुत्तरयोस्तथा ।

पञ्चम्यौ चापि षोडश्यावेवं तिस्रस्तु मध्यमाः ॥ ७०

शिरोग्र्या या दक्षिणस्याः पश्चादेकार्चिका स्थिता ।

तथैव दक्षिणे पक्षे पश्चिमात् पूर्वपत्रकम् । । ७०

आद्यरीतौ सप्तमी च पक्षे चैव तथोत्तरे ।

पश्चिमात् पूर्वपत्रं च पञ्चम्यां च तथात्मनि ॥ ७१

रीतावप्यष्टमीत्येवं चोडानाकसदश्च ताः ।

अत्र तृण्णां विकर्णीं च विहायैवोत्तरान्तिया ॥ ७२

शिरोग्रीया दक्षिणा तु विज्ञेया मण्डलेष्टका ।

प्रथमायामात्मरीतौ पश्चिमाग्रा तु षोडशी ॥ ७३

रेतस्सिक् स्थविरस्यैका स्वराडित्युपधीयते ।

उत्तरा स्यात् शिरोऽग्रीया विश्वज्योतिस्तु षोडशी ॥ ७४

आत्मरीतौ तृतीयस्यां तृतीया च तुरीयका ।

ऋतव्याख्येऽथ पञ्चम्यां चतुर्थी चैव पञ्चमी ॥ ७५

सयाँन्याव्युपधायैते तूष्णीमेवावरोहति ।

पुरीषमपि नैवात्र समिधो वासयेत् घृते ॥ ७६

श्वो भूते याज्ञसेन्यादि कर्म तु प्रतिपद्यते ।

आत्मरीतौ तृतीयस्यां चतुर्थ्यां चापि षष्ठिका ॥ ७७

चतुर्थ्यां सप्तमी चेति गायत्र्यः पूर्वगा मताः ।

विहाय पश्चिमं पत्रं विहायाप्युत्तरेष्टकाम् ॥ ७८

तस्या उत्तरतो द्वन्द्वं उत्तरस्याश्च पूर्विका ।

इत्येतास्त्रिष्टुभस्तिस्रः विज्ञेया अथ पश्चिमाः ॥ ७९

प्रथमायां तथा रीतौ चतुर्थी चापि पञ्चमी ।

द्वितीयायां पञ्चमी च जगत्यस्तिस्र ईरिताः ॥ ८०

यथैव दक्षिणे पक्षे तथाऽनुष्टुभ उत्तरे ।

आद्यरीतौ तथाद्यायां तृतीयादीष्टका त्रयम् । । ८१

तासामुत्तरतस्तिस्रो बृहत्यश्च तथोष्णिहः ।

पञ्चम्यां तु तृतीया स्यात् षष्ठ्यां चे…..तथादिमे ॥ ८२

ततः पुरस्तात् तिस्रश्च पङ्क्त्यश्चाक्षरपङ्क्तयः ।

चतुर्थ्यां तु तृतीया स्यात् अतिच्छन्दस्समाह्वया ॥ ८३

द्वितीयस्यां द्वितीया च रीत्योरि तु रथोस्तथा ।

द्वितीये इष्टके चापि द्विपदास्तिस्र ईरिताः ॥ ८४

पत्राणि वर्जयित्वा तु तथा दक्षिणपक्षके ।

विराजां दक्षिणाया स्युः ता अष्टौ सरितः स्मृताः ॥ ८५

दक्षिणा स्तोमभागानां पञ्च जीमूतसंज्ञकाः ।

उत्तरा स्तोमभागानां कृत्तिका सप्त च स्मृताः ॥ ८६

शिरोग्र्याया उत्तरस्याः पश्चादेकत्रिका स्थिता ।

उपान्त्यं दक्षिणं पत्रमाद्यरीतौ च षष्ठिका ॥ ८७

उपान्त्यं चोत्तरं पत्रं पञ्चम्याञ्चैव षष्ठिका ।

इत्येवं वृष्टिसनयः पञ्चापि परिकीर्तिताः ॥ ८८

कृत्तिकानां उत्तरतो ह्यवशिष्टास्तु यास्स्थिताः ।

आदित्याख्या यशोदाश्च यथायोगं प्रकीर्तिताः ॥ ८९

भूयस्कृतोऽग्निरूपाणि द्रविणोदास्तु पञ्च च ।

आयुष्याश्चोत्तरे पक्षे यथा योगमिहस्थिताः ॥ ९०

चतुर्थ्यां षोडशी तुर्या त्वग्नेर्हृदयमीरिता ।

उत्तरासां विराजान्तु यास्स्युरुत्तरतस्स्थिताः । ९१

यावा अयावा इत्यादि सप्त स्युस्ता ऋतव्यकाः ।

यज्ञायज्ञीयनाम्नस्तु परस्तात् सम्भविष्यतः ॥ ९२

इष्टका पुच्छवर्तिन्यः तिस्रस्त्वत्रावशेषयेत् ।

द्वे अर्धे तु द्वितीयस्यां षष्ठी चैवाथ सप्तमी ॥ ९३

प्रागग्रा षोडशी चैव विशयोत्तर पार्श्वगा ।

विज्ञेया इष्टकास्तिस्रः यज्ञायज्ञीयसंज्ञकाः ॥ ९४

शिष्टा लोकंपृणास्तत्र त्रयोविंशतिरिष्टकाः ।

प्रस्तारे वै पञ्चदशे शुल्बोपहितिकर्मणि ॥ ९५

पुच्छरीतौ तृतीयस्या मध्यतः षोडशी युगम् ।

तथैव पूर्वयो रीत्योः तिस्रस्तिस्रस्तु मध्यगाः ॥ ९६

इत्यष्टौ नोपधेयास्युः परस्तात् उपधिर्मता ।

प्रस्तारे वै पञ्चदशे मन्त्रोपहितिरुच्यते ॥ ९७

पाद्याः पुच्छाग्ररीतौ तु दश चैवाथ पञ्च च ।

द्वितीयस्यामन्तिमा च जानीयादुपशीवरीः ॥ ९८

या देव्यसीष्टक इति ततश्च प्राणदा इति ।

अथोपशीवरी सा मामित्यादिरनुषज्यते ॥ ९९

अपानादौ व्यानदा इत्युत्तरेष्वेवमेव हि ।

दक्षिणे पश्चिमं पत्रं तत्पूर्वं तत उत्तराः ॥ १००

रीतिद्वयगता अष्टाविन्द्रनामाह्वया दश ।

तासामुत्तरतः पञ्च रीतयः क्रमशस्तथा ॥ १०१

षष्ठ्यां द्वे पश्चिमे द्वाविशँतीन्द्रतनवस्स्मृताः ।

अग्निनेत्यनुवाकेऽस्मिन् त्रिपदौ षोडशान्तिमौ ॥ १०२

अष्टादशः पञ्चपदाः इतरे द्विपदास्स्मृताः ।

प्रागायतारीतयस्स्युः पक्षे पक्षे त्रयोदश ॥ १०३

सव्यपक्षे मूलरीतिपक्षग्रीया विहाय तु ।

तस्या उत्तरयो रीत्योस्तिस्रस्तिस्रस्तु पूर्वगाः ॥ १०४

ताभ्यां षट्सूत्तरासु स्युश्च चतुर्विंशतिरिष्टकाः ।

रीतौ दशम्यां तिस्रश्च पश्चिमास्स्युरिहेष्टकाः ॥ १०५

इत्येवं यज्ञतनवस्त्रयस्त्रिंशत्प्रकीर्तिताः ।

शिष्ट्वा तु दक्षिणे पक्षे विशया उदगग्रकाः ॥ १०६

विशयायाः पश्चिमायाश्शिष्ट्वा दक्षिणतो द्वयम् ।

अवशिष्टं द्वादश तु ज्योतिष्मत्यः प्रकीर्तिताः ॥ १०७

षोडश्यामादिमा पाद्या पञ्चदश्यामथादिमा ।

चतुर्दशीत्रयोदश्योरिष्टके द्वे उपादिमे ॥ १०८

द्वादश्यां पञ्चमी पाद्या पृष्ठ्यारीतेश्च दक्षिणाः ।

चतस्रश्चैव षोडश्यः सप्तम्यां पञ्चमी तथा ॥ १०९

द्वितीया षोडशी षष्ठ्यां पञ्चम्यामाद्यपादिका ।

चतुर्थ्यामादिमा पाद्या तृतीयस्यां तथादिमा ॥ ११०

द्वितीयस्यां द्वितीया च नक्षत्राख्यास्तु दक्षिणाः ।

उपान्तिमा द्वितीयस्यां तृतीयस्यामथान्तिमा ॥ १११

चतुर्थ्यामन्तिमा पाद्या पञ्चम्यामन्त्यपादिका ।

षष्ठ्यां षोडश्युपान्त्या च सप्तम्यामपि सप्तमी ॥ ११२

पृष्ठ्यारीतेरुत्तरस्यां चतस्रष्षोडशीष्टकाः ।

द्वादश्यां सप्तमी पाद्या त्रयोदश्यामुपान्तिमा ॥ ११३

चतुर्दश्यामुपान्त्या च पञ्चदश्यन्त्यषोडशी ।

अन्त्या पाद्या च षोडश्यामितितिंशदिहेष्टकाः ॥ ११४

पूर्णा पश्चादृचाऽऽदावुपधाय तु पूर्णिमाम् ।

कृत्तिकेत्यादिभिर्मन्त्रैः प्रतीचीनाश्चतुर्दश ॥ ११५

उपदध्याद्विशाखान्ताः आतृण्णायास्तु दक्षिणाः ।

उपधायत्वमावास्यां यत्त इत्यादि मन्त्रतः ॥ ११६

उपदध्यादनूराधप्रभृतीः पूर्व पूर्वतः ।

उत्तरेण स्वयं तृण्णां पूर्णेत्यन्ते च पूर्णिमा ॥ ११७ इत्येवमिष्टकास्त्रिंशत् ज्ञेया नक्षत्रसंज्ञकाः ।

ज्योतिषे त्वेत्येवमन्तो मन्त्रः प्राथमिके मतः ॥ ११८

ऋचे त्वेत्यादि शेषस्तु सर्वत्राप्यनुषज्यते ।

अवशिष्टा यज्ञतनूरुतरेणेष्टकास्तु याः ॥ ११९

पक्ष्यास्तास्सरितो ज्ञेयाश्शिष्टाः पञ्चेष्टका स्थिताः ।

ऊर्ध्वा अस्यानुवाकस्था अष्टौ मन्त्रा इह क्रमात् ॥ १२०

षष्ठ्यामन्त्या च सप्तम्याञ्चतस्रोन्त्याश्च पाद्यकाः ।

अह्नां रूपाणि पञ्चैतान्युपदध्याद्यथाक्रमम् ॥ २१२

अष्टम्यां च नवम्यां चाप्यादिमे तु व्रताह्वये ।

समिदाधानमन्त्रौ यौ व्रतकाले प्रचोदितौ ॥ १२२

देवस्य त्वेत्यादिकौ तु ताभ्यामत्रोधिर्मता ।

आत्मेष्टकानामेव स्यान्नामधेयान्तरं व्रतम् ॥ १२३

शाखान्तरीयमित्यन्ये यः कश्चिदिह गृह्यताम् ।

शिरोग्रीया पादिका च दक्षिणोपान्त्यपत्रकम् ॥ १२४

पुच्छरीतौ द्वितीयस्यां तृतीया चापि षोडशी ।

उत्तरोपान्त्यपत्रं च सप्तम्याञ्चापि मध्यमा ॥ १२५

इति पञ्चात्मेष्टकास्युर्वैश्वदेव्याह्वया अथ ।

पृष्ठ्यारीतौ चतस्रस्युर्द्वादश्याञ्चापि मध्यमा ॥ १२६

इति पञ्चाथ मन्त्रेषु प्रथमः सय्यँदादिकः । १२७

उग्रेत्यादिर्द्वितीयस्स्यात् ध्रुवादिस्तु तृतीयकः ।

धर्त्रीत्यादिस्तुरीयस्स्यात् प्राचीत्यादिस्तु पञ्चमः । १२८

ते तेऽधिपतयस्तेभ्यः इत्यादिश्शेष एव च ।

जम्भे दधामीत्यन्तस्तु पञ्चस्वप्यनुषज्यते । १२९

वामदेव्यन्तु सप्तम्यामादितस्तिस्र इष्टकाः ।

दक्षपत्रे तु विशये पक्षाग्र्ये पूर्वगे उभे । १३०

तदुत्तरे च षोडश्यौ द्वादश्यां च चतुष्टयम् ।

त्रयोदशीचतुर्दश्योरादिमे इष्टके तथा । १३१

दशाथर्वशिरोनाम्न्यो मन्त्रास्सर्वे त्रिपादकाः ।

विशयायाः पश्चिमायाः पक्षे द्वे दक्षिणे स्थिते । १३२

पश्चिमा विशया चेति रथन्तरमुदाहृतम् ।

विशयायाः पश्चिमायाः उत्तरत्रेष्टका द्वयम् । १३३

पश्चिमा विशया चेति बृहदुत्तरपक्षके ।

चतुर्दशे तु प्रस्तारे पुच्छे शिष्टास्तु यास्स्थिताः । १३४

यज्ञायज्ञीयनाम्न्यस्ता विज्ञेयास्तिस्र इष्टकाः ।

प्रथमा षोडशी ज्ञेया षष्ठ्यामृषभसंज्ञि(ज्ञ)का । १३५

प्राजापत्या चरुर्दश्यां मध्यमा पादिका स्मृता ।

षोडश्यां मध्यमा पाद्या दक्षिणे चान्त्यपत्रकम् । १३६

द्वितीयस्यां चतुर्थी स्यात् उत्तरे चान्त्यपत्रकम् ।

सप्तम्यां पादिका तुर्या पञ्चाज्यान्यः प्रकीर्तिताः । १३७

सूक्ष्माश्मानस्तु वज्रिण्यो निधेया अन्तरालके ।

इन्द्रस्येति यथापाठं पुरस्तादन्तमीरयेत् । १३८

ततोऽघायुरसीत्यादि र्ऋच्छत्वन्तोऽनुषज्यते ।

ततः पुरस्तादित्यस्य स्थाने दक्षिणतः क्षिपेत् । १३९

पश्चादुत्तरतश्चेति क्रमात् स्पष्टस्तु पञ्चमः ।

चतुर्थ्यांमध्यतस्तिस्रः पाद्या लोकेष्टका स्मृताः । १४०

पञ्चम्यां मध्यतस्तिस्रः पावमान्यस्तु पादिकाः ।

उत्तराग्रास्तु षोडश्यः चतस्रो दक्षिणाग्रकाः । १४१

पूर्वास्तिस्रश्च पक्षाग्र्याश्छन्दस्यास्सप्त तास्स्मृताः ।

अन्त्याश्चतस्रो द्वादश्यां पाद्या राष्ट्रभृतः स्मृताः । १४२

उपधाय हिरण्यैस्तु सर्वतो मुखसंज्ञकम् ।

उपधाय विकर्णीं च त्रयोदश्यन्त्यषोडशीम् । १४३

आयोस्त्वेत्यादिभिर्मन्त्रैस्स्तृण्णाय – प्रवर्तते ।

ततो लोकंपृणादि स्यादष्टौ लोकंपृणा इह । १४४

अग्ने युक्ष्वेत्यादिकर्म यथासूत्रं विधीयताम् ॥

श्रीवराहप्रसादेन त्रिषाहस्रस्य कारिका । १४५

यज्ञवेङ्कटरामेण कृता सत्(द्)भिर्विमृश्यतां ।

कामस्समुद्र इव नेव हि तस्य चान्तोस्तीति १४६

श्रुतिं भगवतीं स्खलितां प्रतीमः

पादारविन्दमवलम्ब्य यतो गुरूणाम् ।

कामस्य पारमवगाह्य सुनिर्मितास्मः ॥ १४७

त्रयोदशे तु प्रस्तारे विराडन्ते पृणा मताः ।

इति पक्षं समाश्रित्य वितन्यन्तेद्य कारिकाः । १४८

शिरोग्रीया पादिका च दक्षिणोपान्त्यपत्रकं ।

आद्यायामष्टमी पाद्याप्युत्तरोपान्त्यपत्रकं । १४९

पृष्ठ्या रीतौ तृतीया च विज्ञेया असपत्नकाः ।

उपदध्याद्विराजस्तु प्राणभृद्वदिहाक्ष्णया । १५०

नत्वन्तरामिति विधि–चम – स्युरिष्टकाः ।

लोकंपृणाभिः प्रच्छाद्याथारभेत चतुर्दशम् ।

आत्मरीतौ द्वितीयस्यामुपान्त्या चान्तिमा तथा । १५१

॥ इति यज्ञवेङ्कटरामकृताः त्रिषाहस्रकारिकाः ॥

