मैथुनम्

विधिः

02 मिथुनीभूय च न ...{Loading}...

मिथुनी-भूय च, न तया सह सर्वां रात्रिं शयीत २

21 यावत्सन्निपातञ् चैव सहशय्या ...{Loading}...

यावत्संनिपातं चैव सहशय्या २१

22 ततो नाना ...{Loading}...

ततो नाना २२

23 उदकोपस्पर्शनम् ...{Loading}...

उदकोपस्पर्शनम् २३

01 अपि वा लेपान्प्रक्षाल्याचम्य ...{Loading}...

अपि वा लेपान्प्रक्षाल्याचम्य प्रोक्षणमङ्गानाम् १

20 स्त्रीवाससैव सन्निपातः स्यात् ...{Loading}...

स्त्रीवाससैव संनिपातः स्यात् २०

कालनियमाः

19 तथा ष्ठेवनमैथुनयोः कर्माप्सु ...{Loading}...

तथा ष्ठेवन-मैथुनयोः कर्माप्सु वर्जयेत् १९

16 अहन्यसंवेशनम् ...{Loading}...

अहन्यसंवेशनम् १६

01 प्रवचनयुक्तो वर्षाशरदम् मैथुनं ...{Loading}...

प्रवचन-युक्तो वर्षा-शरदं मैथुनं वर्जयेत् १

+++(पर्वनियमाः विशेषव्रतनियमाश्च पृथग् उक्ताः।)+++

नित्यकर्मत्वम्

06 सदा निशायान् दारम् ...{Loading}...

सदा निशायां दारं प्रत्य् अलंकुर्वीत ६

05 अनाविःस्रगनुलेपणः स्यात् ...{Loading}...

अन्-आविः+++(भूत)+++-स्रग्-अनुलेपणः स्यात् ५

17 ऋतौ च सन्निपातो ...{Loading}...

ऋतौ च संनिपातो दारेणानुव्रतम् १७

18 अन्तरालेऽपि दार एव ...{Loading}...

अन्तरालेऽपि दार एव १८

19 ब्राह्मणवचनाच्च संवेशनम् ...{Loading}...

ब्राह्मणवचनाच्च संवेशनम् १९

पात्रनियमः

03 पूर्ववत्यामसंस्कृतायां वर्णान्तरे च ...{Loading}...

पूर्ववत्याम्, असंस्कृतायां, वर्णान्तरे च मैथुने दोषः ३

04 तत्रापि दोषवान्पुत्र एव ...{Loading}...

तत्रापि दोषवान्पुत्र एव ४

ऊर्ध्वरेतः-प्रशंसा-निन्दने

03 अथ पुराणे श्लोकावुदाहरन्ति ...{Loading}...

अथ पुराणे श्लोकाव् उदाहरन्ति ३

04 अष्टाशीतिसहस्राणि ये प्रजामीशिर ...{Loading}...

अष्टाशीति-सहस्राणि ये
प्रजाम् ईशिर +++(=अभ्यनन्दन्)+++ ऋर्षयः ।
दक्षिणेनार्यम्णः पन्थानं
ते श्मशानानि भेजिरे ४

05 अष्टाशीतिसहस्राणि ये प्रजान् ...{Loading}...

अष्टाशीतिसहस्राणि ये प्रजां नेषिरर्षयः ।
उत्तरेणार्यम्णः पन्थानं तेऽमृतत्वं हि कल्पते ५

06 इत्यूर्ध्वरेतसाम् प्रशंसा ...{Loading}...

इत्यूर्ध्वरेतसां +++(=गृहस्थेतरेषाम्)+++ प्रशंसा ६

07 अथापि सङ्कल्पसिद्धयो भवन्ति ...{Loading}...

अथापि संकल्प-सिद्धयो +++(=सङ्कल्पत एव सिद्धिः)+++ भवन्ति ७

08 यथा वर्षम् प्रजादानन् ...{Loading}...

यथा वर्षं, प्रजा-दानं,
दूरे दर्शनं, मनो-जवता,
यच्चान्यद् एवं युक्तम् ८

09 तस्माच्छ्रुतितः प्रत्यक्षफलत्वाच्च विशिष्टानाश्रमानेतानेके ...{Loading}...

तस्माच् छ्रुतितः, प्रत्यक्ष-फलत्वाच् च
विशिष्टान् आश्रमान् एतान् एके ब्रुवते ९

10 त्रैविद्यवृद्धानान् तु वेदाः ...{Loading}...

त्रैविद्य-वृद्धानां तु
वेदाः प्रमाणम्
इति निष्ठा।
तत्र यानि श्रूयन्ते
व्रीहि-यव-पश्व्-आज्य-पयः-कपाल-पत्नी-संबन्धान्य्
उच्चैर् नीचैः कार्यम् इति
तैर् विरुद्ध आचारो ऽप्रमाणम् इति मन्यन्ते १०

11 यत्तु श्मशानमुच्यते नानाकर्मणामेषोऽन्ते ...{Loading}...

यत् तु श्मशानम् उच्यते
+++(“दक्षिणेनार्यम्णः पन्थानं ते श्मशानानि भेजिरे” इत्यस्मिन्)+++
नाना-कर्मणाम् एषोऽन्ते पुरुष-संस्कारो विधीयते ११

12 ततः परमनन्त्यम् फलं ...{Loading}...

ततः परम् अनन्त्यं फलं स्वर्ग्य-शब्दं श्रूयते १२

14 स्यात्तु कर्मावयवेन तपसा ...{Loading}...

स्यात् तु कर्मावयवेन तपसा वा कश्चित् सशरीरो ऽन्वन्तं लोकं जयति, सङ्कल्पसिद्धिश् च स्यान् - न तु तज् ज्यैष्ठ्यम् आश्रमाणाम् १४