अरुणकेतुक-मन्त्रः

ओं भद्रं कर्णेभि श्रुणुयाम देवाः । भद्रं पश्येमाक्षभिर्यजत्राः । स्थिरैरङ्गैस्तुष्टुवाꣳ् सस्तनूभि ः । व्यशेम देवहितं यदायुः । स्वस्ति न इन्द्रो वृद्धश्रवाः । स्वस्ति नः पूषा विश्ववेदाः । स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः । स्वस्ति नो बृहस्पतिर्दधातु । आपमापामपस्सर्वाः । अस्मादस्मादितोऽमुतः । अग्निर्वायुश्च सूर्यश्च । सह सञ्चस्करर्धिया । वाय्वश्वा रश्मिपतयः । मरीश्यात्मानो अद्रुहः । देवीर्भुवनसूवरीः । पुत्रवत्त्वाय मे सुत । महानाम्नीर्महामानाः । महसो महसः स्वः । देवीः पर्जन्यसूवरीः । पुत्रवत्वाय मे सुत । अपाश्न्युष्णिमपारक्षः । अपाश्न्युष्णिमपारघम् । अपाघ्रामप चावर्तिम् । अप देवीरितोहित । वज्रं देवी रजीताꣳश्च । भुवनं देवसूवरीः । आदित्यानदितिं देवीं । योनिनोर्ध्वमुदीषत । शिवानश्शन्तमा भवन्तु । दिव्या आप ओषधयः । सुमृडीका सरस्वती । मा ते व्योम संदृशि ॥ १ ॥

स्मृतिः प्रत्यक्षमैतिह्यम् । अनुमानश्चतुष्टयम् । एतैरादित्यमण्डलम् । सर्वैरेव विधास्यते । सूर्यो मरीचिमादत्ते । सर्वस्माद्भुवनादधि । तस्याः पाकविशेषेण । स्मृतं काल विशेषणम् । नदीव प्रभवात्काचित् । अक्षय्यात्स्यन्दते यथा । तां नद्योऽभि समायंति । सोरुस्सती न निवर्तते । एवं नानासमुत्थानाः । कालास्संवत्सरग्ग श्रिताः । अणुशश्च महशश्च । सर्वे समवयन्त्रितम् । सतैस्सर्वैस्समाविष्टः । ऊरुस्सन्न निवर्तते । अधिसंवथ्सरं विद्यात् । तदेव लक्षणे । अणुभिश्च महद्भिश्च । समारूढः प्रदृश्यते । संवथ्सरः प्रत्यक्षेण । नाधिस्वतः प्रदृश्यते । पटरो विक्लिधः पिङ्गः । एतद्वरुणलक्षणं । यत्त्रैतदुपदृश्यते । सहस्रं तत्र नीयते । एकꣳ् हि शिरोनानामुखे । कृथ्न्सं तदृतुलक्षणं । उभयतस्सप्तेन्द्रियानि । जल्पितं त्वेव दिह्यते । शुक्लकृष्णे संवथ्सरस्य । दक्षिणवामयोः पार्श्वयोः । तस्यैषा भवति । शुक्रं ते अन्यद्यजतं ते अन्यत् । विषरूपे अहनी दौरिवासि । विश्वा हि माया अवसि स्वधावः । भद्रा ते पूशन्निहरातिरस्त्विति । नात्र भुवनम् । न पूशा । न पशवः । नादित्यस्संवथ्सर एव प्रत्यक्षेण प्रियतमं विद्यात् । एतद्वै संवथ्सरस्य प्रियतमꣳ् रूपम् । योऽस्यमहानर्थ उत्पथ्स्यमानो भवति । इदं पुण्यं कुरुष्वेति । तमाहरणं दद्यात् ॥ २ ॥

साकंजानाꣳ् सप्तथमाहुरॆकजम् । षडुद्यमा ऋषयो देवजा इति । तेषामिष्टानि विहितानि धामशः । स्थात्रे रेजन्ते विकेतानि रूपशः । को नु मर्या अमिथितः । सखा सखायमब्रवीत् । जहाको अस्मदीषते । यस्तित्याज सखिविदꣳ् सखायम् । न तस्य वाच्यपि भागो अस्ति । यदीꣳ् शृणोत्यलकꣳ् शृणोति । न हि प्रवेद सुकृतस्य पन्थामिति । ऋतुर् ऋतुना नुद्यमानः । विननादाभिधावः । षष्टिश्च त्रिꣳ्शकावल्गाः । शुक्लकृष्णौ च षाष्टिकौ । सारागवस्त्रैर्जरदक्षः । वसन्तो वसुभिस्सह । संवथ्सरस्य सवितुः । प्रैषकृत्र्पथमस्स्मृतः । अमूनादय तेत्यन्यान् । अमूꣳश्च परिरक्षतः । एता वाचः प्रयुज्यंते । यत्रैतदुपदृश्यते । एतदेव विजानीयात् । प्रमाणं कालपर्यये । विशेषणं तु वक्ष्यामः । ऋतूनां तन्निबोधत् । शुक्लवासा रुद्रगणः । ग्रीष्मेणावर्तते सह । निजहन्पृथीवीꣳ् सर्वाम् । ज्योतिषाऽप्रतिख्येन सः । विश्वरूपाणि वासꣳ्सि । आदित्यानां निबोधत् । संवथ्सरीणं कर्मफलम् । वर्षाभिर्ददताꣳ् सह । अदुःखो दुःखचक्षुरिव । तद्माऽऽपीत इव दृश्यते । शितेनाव्यथयन्निव । रुरुदक्ष इव दृश्यते । ह्लादयते ज्वलतश्चैव । शाम्यतश्चास्य चक्षुषी । या वै प्रजा भ्रग्गश्यन्ते । संवत्सरात्ता भ्रग्गश्यन्ते । याः प्रतितिष्ठंति । संवथ्सरे ताः प्रतितिष्ठंति । वर्षाभ्य इत्यर्थः

॥ ३ ॥

अख्षि दुःखोत्थितस्यैव । विप्रसन्ने कनीनिके । आङ्तेचाद्गणं नास्ति । ऋभूणां तन्निबोधत । कनकाभानिवासाꣳ्सि । अहतानि निबोधत । अन्नमश्नीत मृज्मीत । अहंवो जीवनप्रदः । एता वाचः पयुज्यन्ते । शरद्यत्रोपदृश्यते । अभिधून्वन्तोऽभिघ्नन्त इव । वातवन्तो मरुद्गणाः । अमुतो जेतुमिषुमुखमिव । सन्नद्धास्सह ददृशे ह । अपध्वस्तैर्वस्तिवर्णैरिव । विशि खासः कपर्दिनः । अक्रुध्दस्य योत्स्यमानस्य । क्रुध्दस्यैव लोहिनी । हेमतश्चक्षुषी विद्यात् । अक्ष्णयोः क्षिपणोरिव । दुर्भिक्षं देवकोकेषु । मनूनामुदकं गृहे । एता वाचः प्रवदन्तीः । वैद्युतो यान्ति शैशिरैः । ता अग्निः पवमाना अन्वैक्षत । इह जीविकामपरिपश्यन् । तस्यैषा भवति । इहेह वस्स्वतपसः । मरुतस्सूर्यत्वचः । शर्म सप्रथा आवृणे ॥ ४ ॥

अतिताम्राणि वासाꣳ्सि । अष्टि वज्रि शतघ्नी च । विश्वे देवा विप्रहरन्ति । अग्निजिह्वा असश्चत । नैव देवो न मर्त्यः । न राजा वरुणो विभूः । वाग्निर्नेन्द्रो न पवमानः । मातृक्कच्च न विद्यते । दिव्यस्यैका धनुरार्त्निः । प्रिथिव्यामपरा श्रिता । तस्येन्द्रो वम्रिरूपेण । धनुर्ज्यामछिनथ्स्वम् । तदिन्द्र धनुरित्यज्यम् । अब्भ्रवर्णेषु चक्षते । एतदेव शंयोर्बाहस्पत्यस्य । एतद्रुद्रस्य धनुः । रुद्रस्य त्वेव धनुरार्त्निः । शिर उत्पिपेष । स प्रवर्ग्योऽभवत् । तस्माद्यस्सप्रवर्ग्येण यज्ञेन यजते । रुद्रस्य स शिरः प्रतिदधाति । नैनꣳ् रुद्र आरुको भवति । य एवं वेद ॥ ५ ॥

अत्यूर्ध्वाक्षोऽतिरश्चात् । शिशिरः प्रदृश्यते । नैव रूपं न वासाꣳ्सि । न चक्षुः प्रतिदृश्यते । नन्योन्यं तु न हिꣳस्रातः । सतस्तद्देवलक्षणम् । लोहितोऽक्ष्णिशारशीर्ष्णिः । सूर्यस्योदयनं प्रति । त्वं करोषि न्यञ्जलिकाम् । त्वं करोषि निजानुकाम् । नि जानुका मे न्यञ्जलिका । अमी वाचमुपासतामिति । तस्मै सर्व ऋतवो नमन्ते । मर्यादाकरत्वात्प्र पुरोधाम् । ब्राह्मण आप्नोति । य एवं वेद । स खलु संवथ्सर एतैस्सेनानीभिस्सह । इन्द्राय सर्वान्कामानभिवहति । स द्रप्सः । तस्यैषा भवति । अव द्रप्सो अꣳ्शुन्तीमतिष्ठत । इयानः कृष्णो दशभिस्सहस्रैः । आवर्तमिन्द्रश्शच्चा धमन्तम् । उप स्नुहि तं नृमणामथद्राम् ॥ ६ ॥

आरोगो भ्राजः पटरः पतङ्गः । स्वर्णरो ज्योतिषीमान्विभासः । ते अस्मै सर्वे दिवमातपन्ति । ऊर्जं दुहाना अनपस्फुरन्तः । यत्ते शिल्पं कश्यप रोचनावत् । इंद्रि यावत्पुष्कलं चित्रभानू । यस्मिन्त्सूर्या अर्पिताः सप्त साकम् । तस्मिन्राजानमधिविश्रयेमम् । स्वप्त सूर्या दिवमनुप्रविष्टाः । तावन्वेति पथिभिर्दक्षिणावान् । ते अस्मै सर्वे घृतमातन्ति । ऊर्जं दुहाना अनपफुहुरन्तः । सप्तदीशो नानासूर्याः । सप्त होतार ऋत्विजः । देवा आदित्या ये सप्त । तेभिः सोमाऽभिरक्षणः । यद्याव इन्द्र ते शतꣳ् शतं भूमिः । उत स्युः । न त्वा वज्रिन्त्सहस्रꣳ् सूय्राः । अनु न जातमष्ट रोदसी । चित्रं देवानामुदगादनीकं । चक्षुर्मित्रस्यय वरुणस्याग्नेः । आ प्रा द्यावापृथिवी अन्तरिक्षम् । सूर्य आत्मा जगतस्तस्थुषश्च ॥ ७ ॥

केदमभ्रं निविशते । क्वायꣳ् संवस्थरो मिथः । क्वाहः क्वेयं देव रात्री । क्व मासा ऋतवः श्रिताः । अर्धमासा मुहूर्ताः । निमेषास्त्रुटिभिः सह । क्वेमा आपो निविशंते । यदितो यान्तिसम्प्रति । काला अस्पु निविशंते । आपः सूर्ये समाहिताः । अम्राएयतः प्रपद्यते । विद्युत्सूर्ये समाहिता । अनवर्णे इमे भूमि । इयं चासौ च रोदसी । किꣳ्स्विदत्रान्तरा भूतम् । येनेमे विधृते उभे । विष्णुना विधृते भूमी । इति वस्तस्य वेदना । इरावती धेनुमती हि भूतम् । सूयवसिनी मनुषे दशस्ये । व्यष्टभ्नाद्रोदसी विष्णवेते । दाधर्थ पृथिवीमभितो मयूखैः । किं तद्विष्णो र्बलमाहुः । का दीप्तिः किं परायणम् । एको अक्षराद्दीप्तिरुच्यते । त्रिपदाद्धारयद्देवः । यद्विष्णोरेकमुत्तमम् । अग्नयो वायमश्चैव । एतदस्य परायणम् । पृच्छामि त्वा परं मृत्युम् । अवमं मध्यमं चतुम् । लोकं Äच पुण्य पापानाम् । एतत्पृच्छामि संप्रति । अमुमाहुः परं मृत्युम् । पवमानं तु मध्यमम् । अग्निरेवावतो मृत्युः । चन्द्रमाश्चतुरुच्यते । अनाभोगाः परं मृत्युम् । पापाः संयंति सर्वदा । आभोगास्व्तेवं संयंति । यत्र पुण्ययकृतो जनाः । ततो मध्यममायंति । चतुमग्निं च संप्रति । पृच्छामि त्वा पापकृतः । यत्र यातयते यमः । त्वं नस्तद्रब्रह्मन्प्रब्रूहि । यदि वेत्थासतो गृहान् । कश्यपादुदिताः सूर्याः । पापान्निर्ध्नन्ति सर्वदा । रोदस्योरन्तर्देशेषु । तत्र न्यस्यन्ते वासवैः ।

आ यस्मिन्त्सप्त वासवाः । रोहन्ति पूर्व्या रुहः । ऋषिर्हदीर्घश्रुत्तमः । इद्रस्य धर्मो अतिथिः । अग्ने नय सुपथा राये अस्मान् । विश्वानि देव वयुतानि विद्वान् । युयोध्यस्मज्जुहुरानमेनः । भूयिष्ठान्ते नमउक्तिं विधेम ॥ ८ ॥

अग्निश्च जातवेदाश्च । सहोजा अजिराप्रभुः । वैश्वानरो नर्यापाश्च । पङ्क्तिराधाश्च सप्तमः । विसर्पिवाऽष्टमोऽग्निनाम् । एतेऽष्टौ वसवः क्षिताः । प्रभाजमाना व्यवदाताः । याश्च वासुकिवैद्युताः । रजाताः पुरुषाः श्यामाः । कपिला अतिलोहिताः । ऊर्ध्वा अवप

तन्ताश्च वैद्युतः । स्वानभ्राट् । अङ्धारिर्वंभारिः । हस्तः सुहस्तः । कृशानुर्विश्वावसुः । मूर्धन्वान्सूर्यवर्चाः । कृतिः । गौरी मिमाय सलिलानि तक्षती । एकपदी द्विपदी साज् चतुष्पदी । अष्टापदी नवपदी बभूवुषी । सहस्राक्षरा परमे व्योमन् । वराहवः स्वतपसः । विद्युमहसो धूपयः । श्वापयो गृहमेधाश्च । ये चे मेऽशिमिविद्विषः । समानमेतदुदकम् । उच्चैत्यवचाहभिः । भूमि पर्जन्या जिन्वति । दिवं जिन्वन्त्यग्नयः । यदक्षरं भूतकृतम् । विश्वे देवा उपासते । महिर्षिमस्य गोप्तारम् । जमदग्निमकुर्वत् । जमदग्निराप्यायते । छन्दोभिश्चतुरुत्तरैः । राज्ञः सोमस्य तृप्तासः । ब्रह्मण्या वीर्यावता । शिवा नः प्रदिशो दिशः । तच्छंयोराव्रिणीमहे । गातुं यज्ञाय । गातुं यज्ञपतये । दैवी स्वस्तिरस्तुनः । स्वस्तिर्मानुषेभ्यः । ऊर्ध्वं जिगातु भेषजम् । शन्नो अस्तु द्विपदे । शं चतुष्पदे ॥ ९ ॥

सहस्रवृदियं भूमिः । परं व्योम सहस्रवृत् । अश्विना भुज्यू नासत्या । विश्वस्य जगतस्पती । जाया भूमिः पतिर्व्योम । मिथुनं ता अतुर्यथुः । पुत्रो बृहस्पती रुद्रः । सरमा इति स्रोपुमम् । शुक्रं वामन्यद्यजतं वामन्यत् । विषुरूपे अहनी द्यौरिव स्थः । विश्वा हि माया अवथः स्वधावन्तौ । भद्रा वां पूषणाविह रातिरस्तु । वासात्यौ चित्रौ जगतो निधानौ । द्यावाभूमी चरथः सꣳ्सखायौ । तावश्विना रासभाश्वा हवं मे । शुभस्पती आगतꣳ् सूर्यया सह । त्युग्रो ह भुज्युमश्विनोदमेधे । रयिं न कश्चिन्ममृवां आवाहाः । तमूहथुर्नोभिरात्मन्वतीभिः । अन्तरिक्षप्रुङ्भिरपोदकाभिः । तिस्रः क्षपस्रिरहाऽतिवज्रद्भिः । नासत्या भुज्युमूहथुः पतङ्गैः । ०समुद्रस्य धन्वन्नार्द्रस्य पारे । त्रिभि रथैः शतपद्भिः षडश्वैः । सवितारं वितन्वन्तम् । अनुबध्नाति शाम्बरः । आपपूरु षम्बरश्चैव । सविताऽरेपसो भवत् । त्यꣳ् सुतृप्तंविदित्यैव । बहुसोमगिरं वशी । अन्वेति तुग्रो वक्रीयान्तम् । आयसूयान्त्सोमतृप्सुषु । स संग्रामस्तमोद्यौऽत्योतः । वाचो गाः पिपाति तत् । स तद्गोभिः स्तवाऽत्येत्यन्ये । रक्षसाऽनन्वीताश्च ये । अन्वेति परिवृत्यास्तः । एवमेतौस्थौ अश्चिना । ते एते द्युः पृथिव्योः । अहरहर्गर्भ दधाथे ॥ १० ॥

पवित्रवन्तः परि वाजमासतेपितैषां प्रत्नो अभि रक्षति व्रतम् । महः समुद्रं वरुणःस्थिरो दधे । धीरा इच्छेकुर्धरिणेश्वारभम् । पवित्रं ते विततं ब्रह्मणस्पते । प्रभुर्गात्राणि पर्येषि विश्वतः । अतप्ततनूर्न तदामो अश्नुते । शृतास इद्वहन्त स्तत्समाशत ।

ब्रह्मा देवानां पदवीः कवीनामृषिर्विप्राणां महिषोमृगाणाम् । स्येनोगृध्राणाꣳस्वदितिर्वनाꣳ्सोमः पवित्रमत्येऽतिरेभन् । असतः सद्ये ततक्षुः । ऋषयः सप्तात्रिश्चयत् । सर्वेऽत्रयो अगस्त्यश्चनक्षत्रैः शंकृतोऽवसन् । अमी य ऋक्षा निहितास उच्चा । नक्तं ददृश्रे कुहचिद्दिवेयुः । अदब्धानि वरुणस्य व्रतानि । विचाकशच्चन्द्रमा नक्षत्रमेति । तत्सवितुर्वरेण्यं । भर्गो देवस्य धीमहि । धियो योनः प्रचोदयात् । तत्सवितुर्वृणीमहे । वयं देवस्य भोजनम् । श्रेष्ठꣳ् सर्वधातमम् । तुरं भगस्य धीमहि । अपागूहत सविता तृभीन् । सर्वां दिवो अंधसः । नक्तं तान्यभवंदृशे । अस्थ्यस्न्था संभविष्यामः । नाम नामैव नाम मे ।

नपुꣳ्सकं पुमाꣳ्स्र्यस्मि । स्थावरोऽस्म्यथ जङ्गमः । यजेऽयक्षि षष्टाहे च । मया भूतान्ययक्षत । पशवो मम भूतानि । अनूवन्ध्योऽस्म्यहं विभुः । स्र्तियः सतीः । ता उ मे पुꣳ्स आहुः । पश्यदक्षएवान्य विचेतदन्धः । कविर्यः पुत्रः स इमा चिकेत । यस्ता विजानास्तवितुः पिता सत् । अन्धो मणिमविन्दत् । तमनङ्गुलिरावयत् । अग्रीवः प्रत्यमुंचत् । तमजिह्वा असश्चत । ऊर्ध्वमूलमवाक्छाखम् । वृक्षं यो वेद संप्रति । न स जातुः जनः श्रद्दध्यात् । मृत्युर्मा मारयादितिः । हसितꣳ् रुदितं गीतम् । वीणा पिणव लासितम् । मृतं जीवं च यत्किंचित् । अङ्गानि स्नेव विद्धि तत् । अतृष्यत्ꣳ्स्तृष्य ध्यायत् । अस्माज्जाता मे मिथु चरन् । पुत्रो निर्ऋत्या वैदेहः । अचेता यश्च चेतनः । स तं मणिमविन्दत् । सोऽनङ्गुलिरावयत् । सोऽग्रीवः प्रत्यमुंचत् । सोऽजिह्वो असश्चत् । आ तमग्ने रथं तिष्ठ । एकाश्वमेकयोजनम् । वातध्राजिगतिं विभो न रिष्यति न व्यथते । नास्याक्षो यातु सज्जति । यच्छ्वेतान्रोहिताꣳश्चानेः । रथे युक्त्वाऽधितिष्ठति । एकं या च दशभिश्च स्वभूते । द्वाभ्यामिष्टये विꣳ्शत्या च । तिसृभिश्च वहसे त्रिꣳ्शता च । नियुद्भिर्वायविह ता विमुंच ॥ ११ ॥

आतनुष्व प्रतनुष्व । उद्धमाऽधम संधम । आदित्ये चन्द्रवर्णानाम् । गर्भमाधेहि यः पुमान् । इतः सिक्तꣳ् सूर्यगतम् । चन्द्रमसे रसं कृधि । वारादं गनयाग्रेऽग्निं । य एको रुद्र उच्यते । असंख्याताः सहस्राणि । स्मर्यते न च दृश्यते । एवमेतं निबोधत । आ मन्द्रैरिन्द्र हरिभिः । याहि मयूररोमभिः । मा त्वा केचिन्न्येमुरिन्न पाशिनः । दधन्वेव ता इहि । मा मन्द्रैरिन्द्र हरिभिः । यामि मयूररोमभिः । मा मा केचिन्न्येमुरिन्न पाशिनः । निधन्वेव तां३ इमि । अणुभिश्च महद्भिश्व । निधृष्वैरसमायुतैः । कालैर्हरित्वमापन्नैः । इद्राऽऽयाहि सहस्रयुक् । अग्निर्विभ्राष्टिवसनः । वायुश्वेत सिकद्रुकः । संवत्सरो विषूवर्णैः । नित्यास्तेऽनुचरास्तव । सुब्रह्मण्योꣳ् सुब्रह्मण्योम् सुब्रह्मण्योम् । इन्द्राऽऽगच्छ हरिव आगच्छ मेधातिथेः । मेष वृषणश्वस्य मेने । गौरावस्कदिन्नहल्यायै जार । कौषिक ब्राह्मण गौतम ब्रुवाण । अरुणाश्वा इहाऽऽगताः । वसवः पृथिविक्षितः । अष्टौ दिग्वाससोऽग्नयः । अग्निश्च जातवेदाश्चेत्येते । ताम्राश्वास्ताम्ररथाः । ताम्रवर्णास्तथाऽसिताः । दण्डहस्ताः खादग्दतः । इतो रुद्राः परां गताः । उक्तꣳ् स्थानं प्रामाणं च पुर इत । बृहस्पतिश्च सविता च । विश्वरूपैरिहाऽऽगताम् । रथेनोदकवर्त्मना । अप्सुषा इति तद्वयोः । वाश्रेव विद्युन्मि ( माति वत्सं न मातासिषक्ति । यदेषां वृष्टिरसर्जि ) । ब्रह्मण आस्तरणमसि । ब्रह्मण उपस्तरणमसि ॥ १२ ॥

अष्टयोनीमष्टपुत्रामष्टपत्नीमिमां महीम् । अहं वेद न मे मृत्युः न चामृत्युरघाऽहरत् । अष्टयोन्यष्टपुत्रमष्टपदीदमन्तरिक्षम् । अहं वेद न मे मृत्युर्नचामृत्युरघाऽहरत् । अष्टयोनिमष्टपुत्रामष्टपत्नीममुं दिवम् । अहं वेद न मे मृत्युर्नचामृत्युरघाऽहरत् । ( सुत्रामाणं पृथिवीं द्यामनेहसꣳ् सुशर्माण मदितिꣳ् सुप्रणीतिम् । दैवींनावꣳस्वरित्रामनागसमस्रवंतीमारुहेमा स्वस्तये । महीमूषु मातरꣳ् सुव्रतानामृतस्य पत्नीमवसे हुवेम । तुवुक्षत्राम जरंतीमुरूचीꣳ् सुषर्माणमदितिꣳ् सुप्रणीतिम् ) । । अदितिर्द्यौरदितिरन्तरिक्षम् । अदितिर्माता स पिता स पुत्रः । विश्वे देवा अदितिः पंचजनाः । अदितिर्जातमदितिर्जनित्वम् । अष्टौ पुत्रासो अदितेर्येजातास्तन्वः परि । देवां३ उपप्रैत्सप्तभिः । परामार्ताण्डमाभरत् । मित्रश्च वरुणश्च । धाता चार्यमा च । अꣳ्शश्च भगश्चा इन्द्रश्च विवस्वाꣳश्च । हिरण्यगर्भः ( समवर्तताग्रेभूतस्य जातः पतिरेक आसीत् । सदाधार प्रिथिवीं द्यामुतेमां कस्मै देवाय हविषा विधेम ) । हꣳ्स ( शुचिषद्वसुरन्तरिक्षसद्धोता वेदिषदतिथिर्दुरोणसत् । नृषद्वरसदृत सद्व्योम सदब्जागोजा ऋतजा अद्रिजा ऋतं बृहत् ) । ब्रह्म जज्ञानं ( प्रथमं पुरस्ताद्विसीमतस्सुरुचो वेन आवः । सबिध्निया उपमा अस्य विष्ठाः सतश्च योनिमसश्च विवः ) । तदित्पदं ( न विचिकेत विद्वान् । यन्मृतः पुनरप्येति जीवान् । त्रिवृद्यद्भुवनस्य रथवृत् । जीवोगर्भोनमृतस्सजीवात् ) ॥ १३ ॥

योऽसौ तपन्नुदेति । स सर्वेषां भूतानां प्राणानादायोदेति । मा मे प्रजाया मा पशूनाम् । मा मम प्राणानादायोदगाः । असौ योऽस्तमेति । स सर्वेषां भूतानां प्राणानादायोदेति । मा मे प्रजाया मा पशूनाम् । मा मम प्राणानादायास्तंगाः । असौ य आपूर्यति । स सर्वेषां भूतानां प्राणैरापूर्यति । मा मे प्रजाया मा पशूनाम् । मा मम प्राणैरापूरिष्ठाः । असौ योऽपक्षीयति । स सर्वेषां भूतानां प्राणैरपक्षीयति । मा मे प्रजाया मा पशूनाम् । मा मम प्राणैरपक्षेष्ठाः । अमूनि नक्षत्राणि । सर्वेषां भूतानां प्राणैरप प्रसर्पंति चोत्सर्पंति च । मा मे प्रजाया मा पशूनाम् । मा मम प्राणैरप प्रसृपत मोत्सृपत । इमे मासाश्चार्धमासाश्च । सर्वेषां भूतानां प्राणैरप प्रासर्पंति चोत्सर्पंति च । मा मे प्रजाया मा पशूनाम् । मा मम प्राणैरपप्रसृपत मोत्सृपत । इम ऋतवः सर्वेषां भूतानां प्राणैरप प्रसर्पन्ति चोत्सर्पंति च । मा मे प्रजाया मा पशूनाम् । मा मम प्राणैरप प्रसृपत मोत्सृपत । अयꣳ् संवत्सरः । सर्वेषां भूतानां प्राणैरप प्रसर्पति चोत्सर्पति च । मा मे प्रजाया मा पशूनाम् । मा मम प्राणैरप प्रसृप चोत्सृप । इदमहः । सर्वेषां भूतानां प्राणैरप प्रसर्पति चोस्तर्पति च । मा मे प्रजाया मा पशूनाम् । मा मम प्राणैरप प्रसृप चोत्सृप । इयꣳ्रात्रिः । सर्वेषां भूतानां प्राणैरप प्रसर्पति चोत्सर्पति च । मा मे प्रजाया मा पशूनाम् । मा मम प्राणैरप प्रसृप मोत्सृप । ओं भूर्भुवः स्वः । एतद्वोमिथुनं मा नो मिथुनꣳ् रीढ्वम् ॥ १४ ॥

वसूनामादित्यानाꣳ स्थाने स्वतेजसा भानि । ( ओं भूर्भुवः स्वः । रश्मयो वो मिथुनं मा नो मिथुनꣳ् रीढ्वम् ) । रुद्राणामादित्यानाꣳ स्थाने स्वतेजसा भानि । ( ओं भूर्भुवः स्वः । रश्मयो वो मिथुनं मा नो मिथुनꣳ् रीढ्वम् ) । आदित्यानामादित्यानाꣳ स्थाने स्वतेजसा भानि । ( ओं भूर्भुवः स्वः । रश्मयो वो मिथुनं मा नो मिथुनꣳ् रीढ्वम् ) सताꣳ् सत्यनां । आदित्यानाꣳ स्थाने स्वतेजसा भानि । ( ओं भूर्भुवः स्वः । रश्मयो वो मिथुनं मा नो मिथुनꣳ् रीढ्वम् ) । अभिधून्वतामभिघ्नताम् । वातवतां मरुताम् । आदित्यानाꣳ स्थाने स्वतेजसा भानि । ( ओं भूर्भुवः स्वः । रश्मयो वो मिथुनं मा नो मिथुनꣳ् रीढ्वम् ) । ऋभूणामादित्यानाꣳ स्थाने स्वतेजसा भानि । ( ओं भूर्भुवः स्वः । रश्मयो वो मिथुनं मा नो मिथुनꣳ् रीढ्वम् ) । विश्वेषां देवानामादित्यानाꣳ स्थाने स्वतेजसा भानि । ( ओं भूर्भुवः स्वः । रश्मयो वो मिथुनं मा नो मिथुनꣳ् रीढ्वम् ) । संवत्स्रस्य सवितुः । आदित्यस्य स्थाने स्वतेजसा भानि । ओं भूर्भुवः स्वः । रश्मयो वो मिथुनं मा नो मिथुनꣳ् रीढ्वम् ॥ १५ ॥

आरोगस्य स्थाने स्वतेजसा भानि । ( ओं भूर्भुवः स्वः । आपो वो मिथुनं मा नो मिथुनꣳ् रीढ्वम् ) । भ्राजस्य स्थाने स्वतेजसा भानि । ( ओं भूर्भुवः स्वः । आपो वो मिथुनं मा नो मिथुनꣳ् रीढ्वम् ) । पटरस्य स्थाने स्वतेजसा भानि । ( ओं भूर्भुवः स्वः । आपो वो मिथुनं मा नो मिथुनꣳ् रीढ्वम् ) । पतङ्गस्य स्थाने स्वतेजसा भानि । ( ओं भूर्भुवः स्वः । आपो वो मिथुनं मा नो मिथुनꣳ् रीढ्वम् ) । स्वर्णरस्य स्थाने स्वतेजसा भानि । ( ओं भूर्भुवः स्वः । आपो वो मिथुनं मा नो मिथुनꣳ् रीढ्वम् ) । ज्योतिषीमतस्य स्थाने स्वतेजसा भानि । ( ओं भूर्भुवः स्वः । आपो वो मिथुनं मा नो मिथुनꣳ् रीढ्वम् ) । विभासस्य स्थाने स्वतेजसा भानि । ( ओं भूर्भुवः स्वः । आपो वो मिथुनं मा नो मिथुनꣳ् रीढ्वम् ) । कश्यपस्य स्थाने स्वतेजासा भानि । ( ओं भूर्भुवः स्वः । आपो वो मिथुनं मा नो मिथुनꣳ् रीढ्वम् ) ॥ १६ ॥

प्रभ्राजमानानाꣳ् रुद्राणाꣳ् स्थाने स्वतेजसा भानि । ( ओं भूर्भुवः स्वः । रूपाणि वो मिथुनं मा नो मिथुनꣳ् रीढ्वम् ) । व्यवदातानाꣳ् रुद्राणाꣳ स्थाने स्वतेजसा भानि । ( ओं भूर्भुवः स्वः । रूपाणि वो मिथुनं मा नो मिथुनꣳ् रीढ्वम् ) । वासुकिवैद्युतानाꣳ् रुद्राणाꣳ स्थाने स्वतेजसा भानि । ( ओं भूर्भुवः स्वः । रूपाणि वो मिथुनं मा नो मिथुनꣳ् रीढ्वम् ) । रजतानाꣳ् रुद्राणाꣳ स्थाने स्वतेजसा भानि । ( ओं भूर्भुवः स्वः । रूपाणि वो मिथुनं मा नो मिथुनꣳ् रीढ्वम् ) । परुषाणाꣳ् रुद्राणाꣳ स्थाने स्वतेजसा भानि । ( ओं भूर्भुवः स्वः । रूपाणि वो मिथुनं मा नो मिथुनꣳ् रीढ्वम् ) । श्यामानाꣳ् रुद्राणाꣳ स्थाने स्वतेजसा भानि । ( ओं भूर्भुवः स्वः । रूपाणि वो मिथुनं मा नो मिथुनꣳ् रीढ्वम् ) । कपिलानाꣳ् रुद्राणाꣳ स्थाने स्वतेजसा भानि । ( ओं भूर्भुवः स्वः । रूपाणि वो मिथुनं मा नो मिथुनꣳ् रीढ्वम् ) । अतिलोहितानाꣳ् रुद्राणाꣳ स्थाने स्वतेजसा भानि । ( ओं भूर्भुवः स्वः । रूपाणि वो मिथुनं मा नो मिथुनꣳ् रीढ्वम् ) । ऊर्ध्वानाꣳ् रुद्राणाꣳ स्थाने स्वतेजसा भानि । ( ओं भूर्भुवः स्वः । रूपाणि वो मिथुनं मा नो मिथुनꣳ् रीढ्वम् ) । अवपतन्तानां रुद्राणाꣳ स्थाने स्वतेजसा भानि । ( ओं भूर्भुवः स्वः । रूपाणि वो मिथुनं मा नो मिथुनꣳ् रीढ्वम् ) । वैद्युतानाꣳ् रुद्राणाꣳ स्थाने स्वतेजसा भानि । ( ओं भूर्भुवः स्वः । रूपाणि वो मिथुनं मा नो मिथुनꣳ् रीढ्वम् ) ।

प्रभ्राजनानीनाꣳ् रुद्राणीनाꣳ स्थाने स्वतेजसा भानि । ( ओं भूर्भुवः स्वः । रूपाणि वो मिथुनं मा नो मिथुनꣳ् रीढ्वम् ) । व्यवदातीनाꣳ् रुद्राणीनाꣳ स्थाने स्वतेजसा भानि । ( ओं भूर्भुवः स्वः । रूपाणि वो मिथुनं मा नो मिथुनꣳ् रीढ्वम् ) । वासुकीवैद्युतीनाꣳ् रुद्राणीनाꣳ स्थाने स्वतेजसा भानि । ( ओं भूर्भुवः स्वः । रूपाणि वो मिथुनं मा नो मिथुनꣳ् रीढ्वम् ) । रजतानाꣳ् रुद्राणीनाꣳ स्थाने स्वतेजसा भानि । ( ओं भूर्भुवः स्वः । रूपाणि वो मिथुनं मा नो मिथुनꣳ् रीढ्वम् ) । परुषाणाꣳ् रुद्राणीनाꣳ स्थाने स्वतेजसा भानि । ( ओं भूर्भुवः स्वः । रूपाणि वो मिथुनं मा नो मिथुनꣳ् रीढ्वम् ) । श्यामानाꣳ् रुद्राणीनाꣳ स्थाने स्वतेजसा भानि । ( ओं भूर्भुवः स्वः । रूपाणि वो मिथुनं मा नो मिथुनꣳ् रीढ्वम् ) । कपिलानाꣳ् रुद्राणीनाꣳ स्थाने स्वतेजसा भानि । ( ओं भूर्भुवः स्वः । रूपाणि वो मिथुनं मा नो मिथुनꣳ् रीढ्वम् ) । अतिलोहितानाꣳ् रुद्राणीणीनाꣳ स्थाने स्वतेजसा भानि । ( ओं भूर्भुवः स्वः । रूपाणि वो मिथुनं मा नो मिथुनꣳ् रीढ्वम् ) । ऊर्द्वानाꣳ् रुद्राणीनाꣳ स्थाने स्वतेजसा भानि । ( ओं भूर्भुवः स्वः । रूपाणि वो मिथुनं मा नो मिथुनꣳ् रीढ्वम् ) । अवपतन्तीनाꣳ् रुद्राणीनाꣳ स्थाने स्वतेजसा न्भानि । ( ओं भूर्भुवः स्वः । रूपाणि वो मिथुनं मा नो मिथुनꣳ् रीढ्वम् ) । वैद्युतीनाꣳ् रुद्राणीनाꣳ स्थाने स्वतेजसा भानि । ( ओं भूर्भुवः स्वः । रूपाणि वो मिथुनं मा नो मिथुनꣳ् रीढ्वम् )

॥ १७ ॥

अग्नेः पूर्वदिश्यस्य स्थाने स्वतेजसा भानि । ( ओं भूर्भुवः स्वः । दिशो वो मिथुनं मा नो मिथुनꣳ् रीढ्वम् ) । जातवेदस उपदिश्यस्य स्थाने स्वतेजसा भानि । ( ओं भूर्भुवः स्वः । दिशो वो मिथुनं मा नो मिथुनꣳ् रीढ्वम् ) । सहोजसो दक्षिणदिश्यस्य स्थाने स्वतेजसा भानि । ( ओं भूर्भुवः स्वः । दिशो वो मिथुनं मा नो मिथुनꣳ् रीढ्वम् ) । अजिराप्रभव उपदिश्यस्य स्थाने स्वतेजसा भानि । ( ओं भूर्भुवः स्वः । दिशो वो मिथुनं मा नो मिथुनꣳ् रीढ्वम् ) । वैश्वानरस्यापरदिश्यस्य स्थाने स्वतेजसा भानि । ( ओं भूर्भुवः स्वः । दिशो वो मिथुनं मा नो मिथुनꣳ् रीढ्वम् ) । नर्यापस उपदिश्यस्य स्थाने स्वतेजसा भानि । ( ओं भूर्भुवः स्वः । दिशो वो मिथुनं मा नो मिथुनꣳ् रीढ्वम् ) । पङ्क्तिराधस उपग्दिश्यस्य स्थाने स्वतेजसा भानि । ( ओं भूर्भुवः स्वः । दिशो वो मिथुनं मा नो मिथुनꣳ् रीढ्वम् ) । विसर्पिण उपदिश्यस्य स्थाने स्वतेजसा भानि । ओं भूर्भुवः स्वः । दिशो वो मिथुनं मा नो मिथुनꣳ् रीढ्वम् ॥ १८ ॥

दक्षिणपूर्वस्यां दिशि विसर्पि नरकः । तस्मान्नः परिपाहि । दक्षिणापरस्यां दिश्यविसर्पि नरकः । तस्मान्नः परिपाहि । उत्तरपूर्वस्यां दिशि वषादि नरकः । तस्मान्नः परिपाहि । उत्तरपरस्यां दिश्यविषादी नरकः । तस्मान्नः परिपाहि । आयस्मिन्स्तप्त वासवा ( तिष्ठन्ति स्वा रुहोयथा । ऋषिर्यदीर्धश्रुत्तमैन्द्रस्य घर्मो अतिथिः ) । इद्रियाणि शतक्रतो ( या ते जनेषु पंचसु । इन्द्रतानि त आवृणे ) ॥ १९ ॥

इन्द्रघोषा वो वसुभिः पुरस्तादुपदधाम् । मनोजवसो वः पितृभिर्दक्षिणत उपदधताम् । प्रचैता वो रुद्रैः पश्चादुपदधताम् । विश्वकर्मा वा अदित्यैरुत्तरत उपदधताम् । त्यष्टा वो रूपैरुप- रिष्टारुपदधताम् । संज्ञानं वः पश्चात् ( उपदधताम् ) । आदित्यः सर्वोऽग्निः पृथिव्याम् ( उपदधताम् ) । वायुरन्तरिक्ष

( उपदधताम् ) । सूर्यो दिवि ( उपदधताम् ) । चंद्रमा दिक्षु ( उपदधताम् ) । नक्षर्ताणि स्वलोक ( उपदधताम् ) । एवा ह्येव । एवा ह्यग्ने । एवा हि वायो । एवा हीन्द्र । एवा हि पूषन् । एवा हि देवाः ॥ २० ॥

आपमापामपः सर्वाः । अस्मादस्मादितोऽमुतः । अग्निर्वायुश्च सूर्यश्च । सह संचस्करर्धिया । वाय्वश्वा रश्मिपतयः । मरीच्यात्मानो अद्रुहः । देवीर्भुवनसूर्वरीः । पुत्रवत्वाय मे सुत । महानाम्नीर्महामानाः । महसो महस स्वः । देवीः पर्जन्यसूवरीः । पुत्रवत्वाय मे सुत । अपाश्रुष्णिमपा रक्षः । अपाश्नुष्णिमपा रघम् । अपाघ्रामप चावर्तिम् । अप देवीरितो हित । वज्रं देवेरजीताꣳश्च । भुवनं देवसूवरीः । आदित्यानदितिं देवीम् । योनिनोर्द्वमुदीशत । भद्रं कर्णेभि श्रुणुयाम देवाः । भद्रं पश्येमाक्षभिर्यजत्राः । स्थिरैरङ्गैस्तुष्टुवाꣳ् सस्तनूभि ः । व्यशेम देवहितं यदायुः । स्वस्ति न इन्द्रो वृद्धश्रवाः । स्वस्ति नः पूषा विश्ववेदाः । स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः । स्वस्ति नो बृहस्पतिर्दधातु । केतवो अरुणासश्च । ऋषयो वातरशनाः । प्रतिष्ठाꣳ् शतधा हि । समाहितासो सहस्रधायसम् । शिवा नः शंतमा भवंतु । दिव्या आप ओषधयः । सुमृदीका सरस्वती । मा ते व्योम संदृशि

॥ २१ ॥

कामस्तदग्रेसमवर्तताधि । मनसा रेतः प्रथमं यदासीत् । स तो बंधुमसति । निरविन्दन् । हृदि प्रतिष्या कवयो मनीषा । आपो ह यद्बृहतीगर्भमायन् । दक्षं दधाना जनयन्तीः स्वयंभुवम् । ततर् इमेऽध्यसृज्यन्त सर्गाः । विधाय लोकान् विधाय भूतानि । विधाय सर्वाः प्रदिशो दिशश्च । प्रजापतिः प्रथमाजा ऋतस्य । आत्मनाऽऽत्मानमभिसंविवेशय ॥ २२ ॥

केतवो अरुणासश्च । ऋषयो वातरशनाः । प्रतिष्ठाꣳ् शतधा हि । समाहितासो सहस्रधायसम् ॥ २३ ॥

( आपमापामपः सर्वाः । अस्मादस्मादितोऽमुतः । अग्निर्वायुश्च सूर्यश्च । सह संचस्करर्धिया । वाय्वश्वा रश्मिपतयः । मरीच्यात्मानो अद्रुहः । देवीर्भुवनसूर्वरीः । पुत्रवत्वाय मे सुत ) । लोकं पृण च्छिद्रं पृण । यास्तिस्रः परमजाः । ( इन्द्र घोषावो वसुभिः रेवाह्येव ( पुरस्तादुपदधताम् ) । मनोजवसो वः पितृभि रेवाह्वेव ( दक्षिणत उपदधताम् ) । ( प्रचैता वो रुद्रै रेवाह्येव (पश्च ) दुपदधताम् ) । विश्वकर्माव आदित्यै रेवाह्येवः ( उत्तरत उपदधताम् ) । त्वष्टावोरूपै रेवाह्येवः ( उपरिष्टात्दुपदधताम् ) । संज्ञानं वः ( पश्चादुपदधताम् ) । आदित्यः सर्वोऽग्निः पृथिव्यामुपदधातु । वायुरन्तरिक्षे उपदधातु । सूर्योदिव्युपदधातु । चन्द्रमादिक्षूपदधातु । नक्षत्राणि स्व लोक उपदधातु । एवाह्येव । एवा ह्यग्ने । एवा हि वायो । एवा हीन्द्र । एवा हि पूषन् । एवा हि देवाः ॥ २४ ॥

इमा नु कं भुवना सीषधेम । इन्द्रश्च विश्वे च देवाः । यज्ञं च नस्तन्वं च प्रजां च । आदित्यैरिन्द्रः सह सीषधातु । आदित्यैरिन्द्रः सगणो मरुद्भिः । अस्माकं भूत्वविता तनूनाम् । आप्लवस्व प्रप्लवस्व । आणडी भव ज मा मुहुः । सुखादीं दुःखनिधनाम् । प्रतिमुंचस्व स्वां पुरम् । मरीचयः स्वायंभुवाः । ये शरीराणयकल्पयन् । ते ते देहं कल्पयन्तु । मा च ते ख्या स्म तीरिषत् । उत्तिष्ठत मा सप्त । अग्निमिच्छध्वं भारताः । राज्ञः सोमस्य तृप्तासः । सूर्येण सयुजोषसः । युवा सुवासाः ( परिवीत आगात । स उ श्रेयान्भवति जायमानः । तं धीरासः कवय उन्नयन्ति । स्वाधियो मनसा देवयन्तः ) । अष्टा चक्रा नव द्वारा । देवानां पूरयोध्या । तस्याꣳ् हिरण्यमयः कोशः । स्वर्गो लोको ज्योतिषाऽऽवृत्तः । यो वै तां ब्रह्मणो वेद । अमृतेनाऽऽवृतां पुरीम् । तस्मै ब्रह्म च ब्रह्मा च । आयुः कीर्तिं प्रजां दधुः । विभ्राजामानाꣳ् हरीणीम् । यशसा संपरीवृताम् । पुरꣳ् हिरण्मयीं ब्रह्मा । विवेशाऽपराजिता । पराङ्त्येज्यामयि । पराङ्त्येनाशकी । इह चामुत्र चान्वेति । विद्वान्देवासुरानुभयान् । यत्कुमारीमन्द्रयते । यद्यौषिद्यत्पतिव्रता । अरिष्टं यत्किंच क्रियते । अग्निस्तदनुवेधति । अशृतासः शृतासश्च । यज्वानो येऽप्ययज्वनः । स्वर्यंतो नापेक्षंते । इन्द्रमग्निं च ये विदुः । सिकता इव संयन्ति । रश्मिमिः समुदीरिताः । अस्माल्लोकादमुश्माच्च । ऋषिभिरदात्फृश्निभिः । अपेत वीत वि च सर्पतातः । येऽत्र स्थ पुराणा ये च नूतनाः । अहोभिरद्भिरक्तुभिर्व्यक्तम् । यमो ददात्ववसानमस्मै । नृ मुणन्तु नृ पात्वर्यः । अकृष्टा ये च कृष्टजाः । कुमारीषु कनीनीषु । जरिणीषु च ये हिताः । रेतः पिता आणडपिताः । अङ्गारेषु च ये हुताः । उभयान्पुत्रपौत्रकान् । युवेऽहं यमराजगान् । शतमिन्दुशरदो ( अन्ति देवायत्रानश्चाक्रा जरसं तनूनाम् । पुत्रासो यत्र पितरो भवन्ति । मा नो मध्यरीरिषताऽऽयुर्गन्तोः ) । अदो यद्ब्रह्म विलवम् । पितृणां च यमस्य च । वरुणस्याश्विनोरग्नेः । मरुतां च विहायसाम् । कामप्रयवणं मे अस्तु । स ह्मेवास्मि सनातनः । इति नाको ब्रह्मीश्रवो रायोघनम् । पुत्रानापो देवीरिहाऽऽहिता ॥ २५ ॥

विशीर्ष्णीं गृधृशीर्ष्णिं च । अपेतो निर्ऋꣳ् हथः । परिबाधꣳ श्वेतकुक्षम् । निजंघꣳ् शवलोदरम् । स तान्वाच्यायया सह । अग्ने नाशय संदृशः । ईर्ष्यासूये बुभुक्षाम् । मन्युं कृत्यां च दीधिरे । रथेन किꣳ्शुकावता । अग्ने नाशय संदृशः ॥ २६ ॥

पर्जन्याय प्रगायत । दिवस्पुत्राय मीढुषे । स नो यवसमिच्छतु । इदं वाचः पर्जन्याय स्वराजे । हृदो अस्त्वन्तरं तद्युयोत । मयोभूर्वातो विश्वकृष्टयः सन्त्वस्मे । सुपिप्पला ओषधीर्देवगोपाः । यो गर्भमोषधीनाम् । गवां कृणोत्पर्वताम् । पर्जन्यः पुरुषीणाम् ॥ २७ ॥

पुनर्मामैत्विन्द्रियम् । पुनरायुः पुनर्भगः । पुनर्ब्राह्मणमैतु मा । पुनर्द्रविणमैतु मा । यन्मेऽद्य रेतः पृथिवीमस्कान् । यदोषधीरप्यसरद्यदापः । इदं तत्पुनराददे । दोर्धयुत्वाय वर्चसे । यन्मे रेतः प्रसिच्यते । यन्म आजायते पुनः । तेनं माममृतं कुरु । तेन सुप्रजसं कुरु ॥ २८ ॥

अद्भ्यस्तिरोधाऽऽजायत । तन वैश्रवणः सदा । तिरोधेहि सपत्नान्नः । ये आपोऽश्नंति केचन । त्वाष्ट्रीं मायां वैश्रवणः । रथꣳ् सहस्र बन्धुरम् । पुरुश्चक्रꣳ् सहस्राश्वम् । आस्थायाऽऽयाहि नो बलिम् । यस्मै भूतानि बलिमावहन्ति । धनं गावो हस्ति हिरण्यमश्वान् । असाम सुमतौ यज्ञियस्य । श्रियं विभ्रतोऽऽन्नमुखीम् विराजम् । सुदर्शने च क्रौंचे च । मैनागे च माहागिरौ । सतद्वाट्टारगमन्ता । सꣳ्हार्यं नगरं नव । हिरण्यनाभये वितुदये कौवेरायायं बलिः । सर्वभूताधिपतये नमः । क्षत्रं क्षत्रं वैश्रवणः । ब्राह्मणा वयꣳस्मः । नमस्ते अस्तु मा मा हिꣳ्सीः । अस्मात्प्रविश्यान्नमद्धि । तिरोधा भूः । तिरोधा भुवः । तिरोधा स्वः । तोरोधा भूर्भुवः स्वः । सर्वेषां लोकानामाधिपत्ये सीद । तिरोधा भूः स्वाहा । तिरोधा भुवः स्वाहाः । तिरोधा स्वः स्वाहा । तिरोधा भूर्भुवः स्वः स्वाहा । यस्ते विधातुको भ्राता । ममान्तर्हृदये श्रितः । तस्मा इममग्रपिण्डं जुहोमि । स मेऽर्थान्मा विव धीत् । मयि स्वाहा । राजाधिराजाय प्रसह्यसाहिने । नमो वयं वैश्रवणाय कुर्महे । स मे कामान्माम कामाय मह्यम् । कामेश्वरो वैश्रवणो ददातु । कुबेराय वैश्रवणाय । महाराजाय नमः । केतवो अरुणासश्च । ऋषयो वातरशनाः । प्रतिष्ठाꣳ् शतधा हि । समाहितासो सहस्रधायसम् । शिवा नः शंतमा भवन्तु । दिव्या आप ओषधयः । सुमृडीका सरस्वती । मा ते व्योम संदृशि ॥ २९ ॥