०५ प्रवर्ग्यपात्राणां करणम्

सम्प्रक्लिश्य मृदम् । मखस्य शिरोऽसि पिण्डं कृत्वा । यज्ञस्य पदे स्थः अङ्गुष्ठाभ्यां निगृह्य अपहायमुखमनभिप्राणन् वेणुना महावीरं करोति । त्र्युद्धिं पञ्चोद्धिमपरिमितोद्धिं वा । प्रादेशमात्र-मूर्ध्वसानुमुपरिष्टादासेचनवन्तं मध्ये सन्नतं वायव्यप्रकारम् । गायत्रेण त्वा छन्दसा करोमि प्रथमम् । मखस्य रास्नासि उपबिलं रास्नां करोति । अदितिस्ते बिलं गृह्णातु पाङ्क्तेन छन्दसा वेणुपर्वणा बिलं करोति तृतीयवेलामतिनयति । सूर्यस्य हरसा श्राय उत्तरतस्सिकतासु प्रतिष्ठाप्य । मखोऽसि अनुवीक्षते । एवं द्वितीयं तृतीयं च करोति । मखस्य शिरोऽसीत्यादि । त्रैष्टुभेन त्वा छन्दसा करोमि द्वितीयम् । मखस्य रास्नासीत्याद्यनुवीक्षणान्तं पूर्ववत् । मखस्य शिरोऽसीत्यादि । जागतेन त्वा छन्दसा करोमि तृतीयम् । मखस्य रास्नासीत्याद्यनुवीक्षणान्तं पूर्ववत् । तूष्णीमितराणि । एतस्या एव मृदो दोग्ध्रे करोति । हस्त्योष्ठ्ये प्रसेचनवती यथा स्रुगदण्डैवम् । वर्षीय आध्वर्यवं प्रतिप्रस्थानात् । आज्यस्थालीं दधिस्थालीं रौहिणकपाले च परिमण्डले घोटप्रकारे करोति । श्लक्ष्णीकरणैश्श्लक्ष्णीकुर्वन्ति अहतचण्डातकैर्गवीधुकैः क्लीतकाभिर्वेणुपर्वभिराज्येनेति । वृष्णो अश्वस्य शकृत् गार्हपत्ये प्रदीप्य प्रथमकृतं महावीरं शफाभ्यां परिगृह्य धूपयति वृष्णो अश्वस्य निष्पदसि वरुणस्त्वा धृतव्रत आधूपयतु । मित्रावरुणयोर्ध्रुवेण धर्मणा । एवं द्वितीयं तृतीयं च धूपयति । तूष्णीमितराणि । शफाभ्यामेवात ऊर्ध्वं महावीरानादत्ते । अग्रेण गार्हपत्यमवटं खात्वा, लोहितपचनीयैस्संभारैरवस्तीर्य तेषु महावीरानुपावहरति । अर्चिरसि प्रथमम् । शोचिरसि द्वितीयम् । ज्योतिरसि तपोऽसि तृतीयम् । तूष्णीमितराण्यन्ववधाय । लोहित पचनीयैस्संभारैः प्रच्छाद्य । गार्हपत्ये मुञ्जानादीप्योपोषति । अर्चिषे त्वा पुरस्तात् । शोचिषे त्वा दक्षिणतः । ज्योतिषे त्वा पश्चात् । तपसे त्वा उत्तरतः । अपि वा सर्वैस्सर्वतः । अभीमं महिना दिवम् । मित्रो बभूव सप्रथाः । उत श्रवसा पृथिवीम् पच्यमानान् मैत्र्योपचरति ।