१५ दर्शादितर्पणम्


एकैकस्य तर्पणस्य सप्ताष्टौ वा तिला ग्राह्या।

पित्रादीनाम् आब्दिकं वा कृत्वा
परेद्युः पित्रादीन् मात्रादींश्च तपयेत्।
तीर्थ-श्राद्धे हिरण्य-श्राद्धे च श्राद्धात् परं,
महालये - परेद्युः ।


दर्शादौ अपराह्णे

अमुक-गोत्राणाम् अमुक-शर्मणां पितृ-पितामह-प्रपितामहानां स-पत्नीकानाम्
अमुक-गोत्राणाम् अमुक-शर्मणां मातामह–मातुः-पितामह–मातुःप्रपितामहानां स-पत्नीकानाम्
उभयवंश-पितृणां दर्शादि-श्राद्धं तिल-तर्पण-रूपेण करिष्ये

इति सङ्कल्प्य
द्वेधा दक्षिणाग्रान् दर्भान् संस्तीर्य

आवाहनादि

पूर्व-दर्भेषु “आयात पितर” इति सपत्नीकान् पित्रादीन् आवाह्य
“सकृद् आच्छिन्नम्” इति दर्भान् आसनार्थं दत्वा
तिलैर् अभ्यर्च्य
“ऊर्जं वहन्तीर्” इति तिलोदकम् उत्सृज्य

पश्चिम-दर्भेषु “आयात मातुः पितरः” इति सपत्नीकान् मातामहादीन् आवाह्य
“सकृदाच्छिन्नमि"ति दर्भान् आसनार्थं दत्वा
तिलैः अभ्यर्च्य
तिलोदकम् उत्सृज्य

पितृ-तर्पणम्

“उदीरताम् अवरे अङ्गिरसो नः पितरः आयन्तु नः पितरस्सोम्यासः” इति मन्त्रम्
“अमुक-गोत्रान् अमुक-शर्मणः पितॄन् स्वधा नमस् तर्पयामि” इति त्रिः तर्पयित्वा

“ऊर्जं वहन्तीः” “पितृभ्यः स्वधाविभ्यः” “ये चेह पितरः” इति तिसृभिः पितामहान्
“मधुवाता” “मधुनक्तं” “मधुमान्न” इति त्रिभिः प्रपितामहांश् च
त्रिः त्रिः तर्पयित्वा

“अमुक-गोत्रा अमुक-नाम्नीर् मातॄः स्वधा नमस् तर्पयामि” इत्य्-आदिभिर् मातृ-पितामही-प्रपितामहींश् च मन्त्रवर्जं त्रिः तर्पयित्वा

ज्ञातीन् ज्ञातिपत्नीश् च तर्पयित्वा

मातामहादीन्

पश्चिम-दर्भेषु पूर्वोक्त-मन्त्रैः मातामहान् मातुःपितामहान् मातुः प्रपितामहांश्च
पूर्ववत् तत्तन्मन्त्रैः तर्पयित्वा
मातामहीः मातुः पितामहीः मातुः प्रपितामहीश्च
मात्रादिवत् तर्पयित्वा

[[83]]

पितृ-वंश्या मातृ-वंश्या ये च अन्ये मत्त उदकमर्हन्ति
तान् स्वधा नमस् तर्पयामि

इति उभय-दर्भैः त्रिः तर्पयित्वा

“ऊर्जं वहन्तीः” इति तिलाञ्जलिना उदके त्रिः प्रदक्षिणं कृत्वा
“तृप्यते"ति त्रिः तर्पयित्वा

उत्थाय अञ्जलिं बद्ध्वा
दक्षिणा-मुखः “तृप्यध्वम्” इति त्रिः उक्त्वा

“नमो वः पितरो रसाय” इति “वसिष्ठो भूयासम्” इत्यन्तेन उपस्थाय

येषां न पिता न भ्राता
न बन्धुर् नान्यगोत्रिणः
ते तृप्तिम् अखिलां यान्तु
मया त्यक्तैः कुशैस्तिलः

इति दर्भानन्यत्र विसृज्य उपवीती आचस्य

वस्त्र-निष्पीडनम्

ये के च अस्मत्कुले जाता
अपुत्रा गोत्रजा मृताः ।
ते गृह्णन्तु मया दत्तं
वस्त्रनिष्पीडनोदकम्

इति स्नानवस्त्रं चतुर्-गुणीकृत्य
निवीती, तीरे निष्पीड्य
तद् वस्त्रं वाम-प्रकोष्ठे निक्षिप्य
उपवीती द्विर् आचामेत्।