१९ यूपोच्छ्रयणं, प्रतिष्ठापनं च

यूपायोच्छ्रीयमाणायानुब्रू३हि इति संप्रेष्यति । उद्दिवꣳ स्तभानान्तरिक्षं पृण पृथिवीमुपरेण दृꣳह उच्छ्रयति । ते ते धामान्युश्मसी गमध्ये गावो यत्र भूरिशृङ्गा अयासः । अत्राह तदुरुगायस्य विष्णोः परमं पदमवभाति भूरेः अवटेऽवदधाति । विष्णोः कर्माणि पश्यत यतो व्रतानि पस्पशे । इन्द्रस्य युज्यस्सखा ॥ तद्विष्णोः परमं पदꣳ सदा पश्यन्ति सूरयः । दिवीव चक्षुराततम् द्वाभ्यामाहवनीयेनाग्निष्ठां संमिनोति । ब्रह्मवनिं त्वा क्षत्रवनिꣳ सुप्रजावनिꣳ रायस्पोषवनिं पर्यूहामि प्रदक्षिणं पांसुभिः पर्यूह्य । ब्रह्म दृꣳह क्षत्रं दृꣳह प्रजां दृꣳह रायस्पोषं दृꣳह मैत्रावरुणदण्डेन समं भूमिपरिदृंहणं कृत्वा । उन्नम्भय पृथिवीं भिन्धीदं दिव्यं नभः । उद्नो दिव्यस्य नो देहीशानो वि सृजा दृतिम् अद्भिः परिषिञ्चति ।