२५ 'इन्द्रो दधीचो अस्थभिः'

‘इन्द्रो दधीचो अस्थभिः’ इत्यनुवाकौ

०८ अथर्व-शिर-इष्टकाः - इन्द्रो दधीचो ...{Loading}...

विस्तारः (द्रष्टुं नोद्यम्)

नक्षत्रेष्टिकाण्डम्‌॥ अग्निचयनशेषा अथर्वशिरोभिधानानाम् इष्टकानां मन्त्राः

भास्करोक्त-विनियोगः

1 अथर्वशिरो दशाविषक्ताः शिरस्युपदधाति - इन्द्रो दधीच इत्याद्याः ॥ सर्वा गायत्र्यः ।

१३ इन्द्रो दधीचो ...{Loading}...

+++(ज्येष्ठास्थः, रोहिणीस्थो वा)+++ इन्द्रो॑ दधी॒चो +++(=serpens/ orion)+++ अ॒स्थभि॑र्
वृ॒त्राण्य् अप्र॑तिष्कुतः ।
ज॒घान॑ नव॒तीर् नव॑ +++(→हेमन्त-दिनानि)+++ ।

१४ इच्छन्नश्वस्य यच्छिरः ...{Loading}...

इ॒च्छन्न् अश्व॑स्य॒+++(→यज्ञस्य)+++ यच् छिरः॑+++(→अग्निं, उत्तरायणारम्भ-सूर्यवत् दधिक्रावाणं [pegasus])+++
पर्व॑ते॒ष्व्+++(→मेघेषष्व्, हेमन्त-मासेष्व्)+++ अप॑श्रितम्
तद् वि॑दच् छर्य॒णाव॑ति ।

bce-3000-01-13 rohiNI jyeShThA equinox shatabhiShak pUrva phAlgunI solstice
bce-3000-01-13 rohiNI jyeShThA equinox shatabhiShak pUrva phAlgunI solstice
१५ अत्राह गोरमन्वत ...{Loading}...

अत्राह॒+++(=अस्मिन्नेव)+++ गोर्+++(=गन्तुः [चन्द्रमसो])+++ अ॑मन्वत॒
नाम॒ त्वष्टु॑र्+++(=दीप्तस्यादित्यस्य उत्तरायणारम्भे)+++ अपी॒च्य॑म्+++(=अपचितम्, अन्तर्हितम् [रात्रौ])+++ । इ॒त्था+++(=इत्थं)+++ च॒न्द्रम॑सो गृ॒हे +++(=अमावास्यायाम्, फाल्गुनीषु पौर्णमास्यां वा)+++॥

०१ इन्द्रमिद्गाथिनो बृहदिन्द्रमर्केभिरर्किणः ...{Loading}...

इन्द्र॒म् इद् गा॒थिनो॑+++(=गायकाः)+++ बृ॒हद्+++(साम्ना)+++
इन्द्र॑म् अ॒र्केभि॑र्+++(←अर्च्, ऋक्)+++ अ॒र्किणः॑ ।
इन्द्रं॒ वाणी॑र्+++(→यजूंषि)+++ अनूषत+++(←णु स्तुतौ)+++ ॥

०२ इन्द्र इद्धर्योः ...{Loading}...

इन्द्र॒ इद्+धर्योः॒ सचा॒+++(←सच् अनुसरणे)+++
सम्मि॑श्ल॒ आ व॑चो॒ युजा॑
इन्द्रो॑ व॒ज्री हि॑र॒ण्ययः॑ ॥+++(5)+++

०३ इन्द्रो दीर्घाय ...{Loading}...

इन्द्रो॑ दी॒र्घाय॒ चक्ष॑स॒
आ सूर्यं॑ रोहयद् दि॒वि ।
वि गोभि॒र् अद्रि॑म् ऐरयत् ॥+++(5)+++

०४ इन्द्र वाजेषु ...{Loading}...

इन्द्र॒ वाजे॑षु नो ऽव
स॒हस्र॑–प्र-धनेषु च ।
उ॒ग्र उ॒ग्राभि॑र् ऊ॒तिभिः॑ ॥

०७ तमिन्द्रं वाजयामसि ...{Loading}...

तमिन्द्रं॑ वाजयामसि
म॒हे वृ॒त्राय॒ हन्त॑वे
स वृषा॑ वृष॒भो भु॑वत्

विश्वास-प्रस्तुतिः ...{Loading}...

इन्द्र॒स् स दाम॑ने कृ॒तः
ओजि॑ष्ठ॒स् स बले॑ हि॒तः
द्यु॒म्नी श्लो॒की स सौ॒म्यः॑ ।

सर्वाष् टीकाः ...{Loading}...
मूलम्

इन्द्र॒स् स दाम॑ने कृ॒तः ।
ओजि॑ष्ठ॒स् स बले॑ हि॒तः ।
द्यु॒म्नी श्लो॒की स सौ॒म्यः॑ ।

भट्टभास्कर-टीका

9 इन्द्रस्स इति ॥ स तादृश इन्द्रः अस्मान् दामने दमनार्थे दमनकृत्ये वा बन्धने कृतः बन्धनयोगैर् वशीकृतकृत्य इत्यर्थः । उत्सादिर्द्रष्टव्यः । किञ्च - इन्द्रः ओजिष्ठः बलवत्तरः अभीतः बले हितः स बलीन्द्रो बले स्थितः द्युम्नी अन्नवान् यशस्वी वा । श्लोको स्तुतिमान् । सौम्य’सोमार्हः । ‘तदर्हति’इति यत् । ततश्छान्दसमन्तस्वरितत्वम् । ईदृश इन्द्रो अस्माभिस्स्वीकृत इति ॥

विश्वास-प्रस्तुतिः ...{Loading}...

गि॒रा वज्रो॒ न सम्भृ॑तः ।
सब॑लो॒ अन॑पच्युतः ।
व॒व॒ख्षुर् उ॒ग्रो अस्तृ॑तः ॥ 35 ॥

सर्वाष् टीकाः ...{Loading}...
मूलम्

गि॒रा वज्रो॒ न सम्भृ॑तः
सब॑लो॒ अन॑पच्युतः
व॒व॒ख्षुर्+++(←बह्)+++ उ॒ग्रो अस्तृ॑तः ॥ 35 ॥

भट्टभास्कर-टीका

10 गिरेति ॥ गिरा स्तुतिवाचा वज्रो न वज्र इव संभृतः सम्यक् हस्ते भृतः गृहीत्तः । सवलः बलसहितः अनपच्युतः ववक्षुः संग्रामेषु धुरो वोढुम् इच्छन् । ‘सर्वे विधयश्छन्दसि विकल्प्यन्ते’इतीत्वाभावः । वर्ण-व्यत्ययेन वा इकारस्याकारभावः ।
उग्रः उद्गूर्णवलः सदोद्यतः अस्तृतः केनचिद् अप्य् अनाच्छादितः । अनुपहिंसितो वा । ईदृशोऽयमिन्द्रः सर्वार्थसाधनभूतो वज्र इवास्माभिः संभृतः ॥

इति पञ्चमे अष्टमोऽनुवाकः ॥