०२ प्रायश्चित्त-होमः

अथ प्रायश्चित्तहोमः

स्थण्डिलं कल्पयित्वा

प्राचीः पूर्वमुदक्सँस्थं दक्षिणारम्भमालिखेत् ।
अथोदीचीः पुरस्सँस्थं पश्चिमारम्भमालिखेत् ॥

अवाक्करोऽभ्युक्ष्य, तृणं नैर्ऋत्यां निरस्य, अप उपस्पृश्य, अग्निं प्रतिष्ठाप्य, अवोक्षणतोयशेषं प्रागुदग्वोत्सिच्य, प्राक्तोयमन्यन्निदधात्युदग्वा यथा बहिस्स्याच्च परिस्तराणाम् । प्रागग्रैः उदगग्रैः षोडशभिः दर्भैः प्रागादिप्रदक्षिणं परिस्तीर्य, उत्तरानधरान् दक्षिणानुत्तरान् कृत्वा, अग्नेरुत्तरतो दर्भान् संस्तीर्य, तेषु दर्वीमाज्यस्थालीं प्रोक्षणीमितरदर्वीं च द्वन्द्वम् अवाञ्चि सादयित्वा, आयामतः परीमाणं प्रोक्षणीसँस्कारः पात्रप्रोक्ष इति पात्राण्युत्तानानि कृत्वा, सर्वाभिरद्भिः त्रिः प्रोक्ष्य, पुनश्चाद्भिरापूर्य, किञ्चिद्दक्षिणतो निधाय, पवित्रमाज्यस्थाल्यां निधाय, आज्यं विलाप्य, उदीचोङ्गारान्निरुह्य, तेष्वधिश्रित्य, ज्वलता तृणेनावद्योत्य, दर्भाग्रे प्रच्छिद्य प्रक्षाल्य युगपत्प्रत्यस्य, त्रिः पर्यग्नि कृत्वा, उदगुद्वास्य अङ्गारानग्नौ प्रत्यूह्य, उदगग्राभ्यां पवित्राभ्यां पुनराहारमाज्यं त्रिरुत्पूय, पवित्रग्रन्थिं विस्रस्य, अप उपस्पृश्य, प्रागग्रमग्नौ प्रहरति । येन जुहोति तदग्नौ प्रतितप्य, दर्भैस्संमृज्य, पुनः प्रतितप्य, प्रोक्ष्य, दर्व्यौ निधाय, दर्भानद्भिस् संस्पृश्य, अग्नौ प्रहरति । अदितेऽनुमन्यस्व, अनुमतेऽनुमन्यस्व, सरस्वतेऽनुमन्यस्व, देवसवितः प्रसुव इति परिषिच्य, कुमारेणान्वारब्धः, प्रतिनिमित्तं प्रायश्चित्ताहुतीः जुहुयात् । “ओं भूः स्वाहा” अग्नय इदम् । “ओं भुवः स्वाहा”, वायव इदम् । “ओं सुवः स्वाहा”, सूर्यायेदम्, “ओं भूर्भुवः सुवः स्वाहा” प्रजापतय इदम् । “अग्नेऽभ्यावर्तिन्नभिन

[[41]]

वरुणाभ्याम् इदम् ।

त्वमग्ने अयास्ययासन्मनसा हितः ।
अयासन् हव्यमूहिषेऽयानो धेहि भेषजं स्वाहा,

अग्नये अयस इदम् । उदुत्तममं वरुणपाशमस्मदवाधमं विमध्यमँ श्रथाय । अथा वयमादित्यव्रते तवानागसो अदितये स्याम स्वाहा”, वरुणायेदम् ।

ये ते शतं वरुण ...{Loading}...
विश्वास-प्रस्तुतिः

ये ते॑ श॒तं वरुण॒ ये स॒हस्रं॑
य॒ज्ञियाः॒ पाशा॒ वित॑ताः पुरुत्र ।
तेभ्यो॑ न॒ इन्द्र॑स् सवि॒तोत विष्णु॑र्
विश्वे॑ दे॒वा मु॑ञ्चन्तु म॒रुतः॑ स्व॒स्त्या॥

मूलम्

ये ते॑ श॒तं वरुण॒ ये स॒हस्रं॑
य॒ज्ञियाः॒ पाशा॒ वित॑ताः पुरुत्र ।
तेभ्यो॑ न॒ इन्द्र॑स् सवि॒तोत विष्णु॑र्
विश्वे॑ दे॒वा मु॑ञ्चन्तु म॒रुतः॑ स्व॒स्त्या॥

(स्वाहा॑॥ वरुणेन्द्रसवितृविष्णुविश्वेदेवमरुद्भ्य इदम् ।)

एताः षड्विंशाहुतीर्जुहुयात् ॥

अथवा

व्यस्ताभिः समस्ताभिः व्याहृतिभिः पूर्वोक्तपाहिपञ्चकैः पुनः व्यस्ताभिः समस्ताभिः व्याहृतिभिरिति पाहित्रयोदशकैः, त्वन्नो अग्ने, स त्वन्नो अग्ने, त्वमग्ने अयासि, उदुत्तमं, ये ते शतं, इत्येतैश्च वा जुहुयात् ।

प्राणानायम्य, अस्मिन् प्रायश्चित्तहोमकर्मणि मध्ये सम्भावितमन्त्रतन्त्रस्वरवर्णविधिविपर्यासन्यूनातिरिक्तप्रायश्चित्तार्थं सर्वप्रायश्चित्तहोमं होष्यामि ओं भूर्भुवः सुवः स्वाहा, प्रजापतय इदम् ।

अनाज्ञातं यदाज्ञातं यज्ञस्य क्रियते मिथु ।
अग्ने तदस्य कल्पय त्वँ हि वेत्थ यथा तथम् ॥

स्वाहा - अग्नय इदम्,

पुरुषसम्मितो यज्ञः यज्ञः पुरुषसम्मितः ।
अग्ने तदस्य कल्पय त्वँ हि वेत्थ यथातथम् ॥

स्वाहा - अग्नय इदम्,

यत्पाकत्रा मनसा दीनदक्षान । यज्ञस्य मन्वते मर्तासः । अग्निष्टद्धोता क्रतुविद्विजानन् । यजिष्ठो देवाँऋतुशो यजाति स्वाहा । अग्नय इदम् । त्वन्नो अग्ने वरुणस्य विद्वान् देवस्य हेडोऽवयासिसीष्ठाः । यजिष्ठो वह्नितमश्शोशुचानो विश्वा द्वेषाँसि प्रमुमुग्ध्यस्मत्स्वाहा - अग्नीवरुणाभ्यामिदम्,

[[42]]

स आवर्तस्वायुषा वर्चसा सन्न्यामेधया प्रजया धनेन स्वाहा,

अग्नये अभ्यावर्तिन इदम् ।

अग्ने अङ्गिरः शतं ते सन्त्वावृतः सहस्रं त उपावृतः ।
तासां पोषस्य पोषेण पुनर्नो नष्टमाकृधि पुनर्नो रयिमाकृधि स्वाहा,

अग्नये अभ्यावर्तिन इदम् ।

सह रय्या निवर्तस्वाग्ने पिन्वस्य धारया । विश्वफ्स्निया[[??]] विश्वतस्परि स्वाहा,

अग्नये अभ्यावर्तिन इदम् ।

०५ पाहि नो अग्ने ...{Loading}...
विश्वास-प्रस्तुतिः (स्वाभाविक-स्वरेण)

पा॒हि नो अग्न॒ एन॑से॒ स्वाहा॑ ।
पा॒हि नो वि॒श्ववे॑दसे॒ स्वाहा॑ ।
य॒ज्ञं पा॒हि विभावसो॒ स्वाहा॑ ।
सर्वं॑ पा॒हि शतक्रतो॒ स्वाहा॑ । (15)

मूलम् (आरण्यक-स्वरेण)

पाहि नो अग्न एन॑से स्वा॒हा ।
पाहि नो विश्ववेद॑से स्वा॒हा ।
यज्ञं पाहि विभाव॑सो स्वा॒हा ।
सर्वं पाहि शतक्र॑तो स्वा॒हा । (15)