३७ वैश्वदेवस्तोत्रं, शस्त्रं च

वैश्वदेवं शुक्रपात्रेण गृह्णाति ओमासश्चर्षणीधृतो विश्वे देवास आगत । दाश्वाꣳसो दाशुषस्सुतम् । उपयामगृहीतोऽसि विश्वेभ्यस्त्वा देवेभ्यः गृहीत्वा । पवित्रदशाभिः परिमृज्य । एष ते योनिर्विश्वेभ्यस्त्वा देवेभ्यः सादयति । वैश्वदेवस्य स्तोत्रमुपाकरोति । असर्ज्यसर्जि वागसर्ज्यैन्द्रꣳ सहोऽसर्ज्युपावर्तध्वम् बर्हिर्भ्यां स्तोत्रमुपाकरोति १। ब्रह्मन् स्तोष्याम इत्युक्ते ब्रह्मा - देव सवितरेतत्त इत्यादि प्रसव इत्यन्तमुक्त्वा प्रेतिरसि धर्माय त्वा धर्मं जिन्व । ओꣳ स्तुत । यजमानः - इडायै हिं कुरु तस्यै प्रस्तुहि तस्यै स्तुहि तस्यै मेऽवरुध्यै इति पुरस्तादाज्यानां जपति । पृथिवी होता । चित्तिः पृथिव्यग्निस्सूर्यं ते चक्षुर्महाहविर्होता स्तोत्रस्य पुरस्ताज्जपित्वा स्तूयमाने च चतुर्होतारं जपति । स्तुतस्य स्तुतमसि । अध्वर्युः इडा देवहूरित्यादि पूर्ववत् । शस्त्रस्य शस्त्रमसि । प्रतिगरो ग्रहनाराशंसाश्च । आश्राव्य प्रत्याश्राविते सम्प्रेष्यति उक्थशा यज सोमस्य । वषट्कृतानुवषट्कृते जुहोति । अनुप्रकम्पयन्ति नाराशंसान् वषट्कारानुवषट्कारौ । यजमानः विश्वेभ्यो देवेभ्य इदम् । ऊमेभ्यः पितृभ्य इदम् । अग्नये स्विष्टकृत इदम् । सर्वभक्षाश्चमसा भवन्ति । प्रक्षालितेषु चमसेषु ।