३२ सनीहारः

पूषा सन्या सोमो राधसा सनीहारान् संशास्ति । चन्द्रमसि मम भोगाय भव । वस्त्रमसि मम भोगाय भव । उस्रासि मम भोगाय भव । हयोऽसि मम भोगाय भव । छागोऽसि मम भोगाय भव । मेषोऽसि मम भोगाय भव इत्येतैर्यथालिङ्गं प्रतिगृह्णाति । देवस्सविता वसोर्वसुदावा रास्वेयत्सोमा भूयो भर मा पृणन् पूर्त्या विराधि माहमायुषा अन्यानि । वायवे त्वा तासां नष्टामनुदिशति । वरुणाय त्वा अप्सु मृताम् । निर्ऋत्यै त्वा अवसन्नां संशीर्णां वा । मरुद्भ्यस्त्वा इति ह्रादुनिहतां मेष्कहतामप्सु वा मग्नाम् । रुद्राय त्वा महादेवहताम् । इन्द्राय त्वा प्रसह्वने यां सेनाऽभीत्वरी विन्देत । यमाय त्वा अविज्ञातेन यक्ष्मणा मृताम् । अनुदिष्टानामधिगतां न गोषु चारयेत् । सनीहारप्रस्थापनान्तं प्रथममहस्सन्तिष्ठते ॥