३१ पुनर्दीक्षितनियमाः

न पुरा नक्षत्रेभ्यो वाचं विसृजेत् । यदि विसृजेत् इदं विष्णुर्वि चक्रमे त्रेधा नि दधे पदम् । समूढमस्य पाꣳसुरे ॥ त्वमग्ने व्रतपा असि देव आ मर्त्येष्वा । त्वं यज्ञेष्वीड्यः इति जपित्वा वाचं यच्छेत् ॥ यस्मिन्नहनि स्वापो भवति तस्मिन्नहनि नाभ्यभिमर्शनान्तं कृत्वा अग्ने त्वꣳ सु जागृहि वयꣳ सु मन्दिषीमहि गोपाय नस्स्वस्तये प्रबुधे नः पुनर्ददः स्वप्स्यन्नाहनीयमभिमन्त्रयते । त्वमग्ने व्रतपा असि देव आ मर्त्येष्वा । त्वं यज्ञेष्वीड्यः प्रबुध्य मुष्टी वाचं वा विसृज्य, अदीक्षितवादं वोदित्वा ॥ विश्वे देवा अभि मा माऽववृत्रन् प्रबुध्य जपति । पुनर्मनः पुनरायुरागात्पुनः प्राणः पुनराकूतमागात् । वैश्वानरोऽदब्धस्तनूपा अवबाधतां दुरितानि विश्वा इति च । अथैकेषां यदि प्रातस्सायं वा प्रैषानन्तरं वाचं विसृजेत् तदा वैष्णवीमाग्नावैष्णवीं सारस्वतीं बार्हस्पत्यामुत्तमामनूच्य वाग्यन्तव्येति । इदं विष्णुर्वि चक्रमे त्रेधा नि दधे पदम् । समूढमस्य पाꣳसुरे ॥ अग्निश्च विष्णो तप उत्तमं महर्दीक्षापालेभ्यो वनतꣳ हि शक्रा । विश्वैर्देवैर्यज्ञियैस्संविदानौ दीक्षामस्मै यजमानाय धत्तम् ॥ सरस्वत्यभि नो नेषि वस्यो मा पस्फरीः पयसा मा न आधक् । जुषस्व नस्सख्या वेश्या च मा त्वत्क्षेत्राण्यरणानि गन्म ॥ बृहस्पते अति यदर्यो अर्हाद्द्युमद्विभाति क्रतुमज्जनेषु । यद्दीदयच्छवसर्तप्रजात तदस्मासु द्रविणं धेहि चित्रम् ॥ यदि वर्षति धावेत् नमो रुद्राय वास्तोष्पतये आयने विद्रवणे उद्याने यत्परायणे आवर्तने विवर्तने यो गोपायति तꣳ हुवे ॥ दीक्षितान्तरेण समागमे कया नश्चित्र आभुवदूती सदावृधस्सखा । कया शचिष्ठया वृता ॥ सर्वत्र भूर्भुवस्सुवः इति व्याहृतीर्जपेत्