३८ उक्थ्यपर्यायाः

अथोक्थ्यप्रचारः । उपयामगृहीतोऽसि मित्रावरुणाभ्यां त्वा जुष्टं गृह्णामि देवेभ्यो देवायुव-मुक्थेभ्य उक्थायुवम् उक्थ्यपात्रेण उक्थ्यतृतीयं गृहीत्वा । पवित्रदशाभिः परिमृज्य । एष ते योनिर्मित्रावरुणाभ्यां त्वा सादयति । पुनर्हविरसि स्थालीमभिमृशति । मैत्रावरुणचमसं प्रथमत उन्नीय होतृचमसादीनुन्नयति । अध्वर्युः पूर्ववत् स्तोत्रमुपाकरोति । ब्रह्मा देवसवितरित्यादि । अन्वितिरसि दिवे त्वा दिवं जिन्व इति । ओꣳस्तुत । यजमानः इडायै, चतुर्होता, चतुर्होतॄन्, चतुर्होता । स्तुतस्य स्तुतमसि । इडादेवहूरित्यादि पूर्ववत् शस्त्रं प्रतिगीर्य । शस्त्रस्य शस्त्रमसि । अग्नये पथिकृत इत्यादि । ग्रहमध्वर्युरादत्ते । चमसांश्चमसाध्वर्यवः । आश्राव्य प्रत्याश्राविते संप्रेष्यति । उक्थशा यज सोमानाम् । मित्रावरुणाभ्यामिदम् । अग्नये स्विष्टकृत इदम् । भक्षान् हरन्ति । अध्वर्युस्सदोहविर्धानयोर्मध्ये तिष्ठन् देवेभ्यस्त्वा देवायुवं पृणज्मि यज्ञस्यायुषे मैत्रावरुणचमसे संपातमवनयति । तमध्वर्युः प्रतिभक्षयति सर्वभक्षाश्चमसा भवन्ति । प्रक्षालितेषु चमसेषु ।

एवं विहितावुत्तरौ पर्यायौ । ताभ्यां प्रतिप्रस्थाता चरति । उपयामगृहीतोऽसीन्द्राय त्वा जुष्टं गृह्णामि देवेभ्यो देवायुवमुक्थेभ्य उक्थायुवम् अर्धं चोक्थ्यशेषस्य गृह्णाति । पवित्रदशाभिः परिमृज्य । एष ते योनिरिन्द्राय त्वा सादयति । पुनर्हविरसि स्थालीमभिमृशति । ब्राह्मणाच्छंसि चमसमुख्यान् चमसानुन्नयति । पूर्ववत् स्तोत्रमुपाकरोति । ब्रह्मा देव सवितरित्यादि सन्धिरस्यन्तरिक्षाय त्वान्तरिक्षं जिन्व । ओꣳ स्तुत । यजमानः इडायै, चतुर्होता, चतुर्होतॄन्, चतुर्होता । स्तुतस्य स्तुतमसि । प्रतिप्रस्थाता इडा देवहूरित्यादि । शस्त्रस्य शस्त्रमसि । अग्नये पथिकृत इत्यादि । ग्रहं प्रतिप्रस्थातादत्ते । चमसांश्चमसाध्वर्यवः । उक्थशा यज सोमानाम् । इन्द्रायेदम् । अग्नये स्विष्टकृत इदम् । देवेभ्यस्त्वा इति मुख्ये संपातमवनयति । न प्रतिप्रस्थातोर्ध्वपात्रस्य भक्षयति । प्रक्षालितेषु चमसेषु उपयामगृहीतोऽसीन्द्राग्निभ्यां त्वा जुष्टं गृह्णामि देवेभ्यो देवायुवमुक्थेभ्य उक्थायुवम् सर्वं चोक्थ्यशेषस्य गृह्णाति । पवित्रदशाभिः परिमृज्य । एष ते योनिरिन्द्राग्निभ्यां त्वा सादयति । न स्थालीमभिमृशति । पूतभृतो बिल उदीचीनदशं पवित्रं वितत्य य आधवनीये राजा तं सर्वं पूतभृत्यवनीय अच्छावाकचमसमुख्यान् चमसानुन्नयन् सर्वं राजानमुन्नीय पवित्रदशाभिः कलशौ मृष्ट्वा न्युब्जति । पूर्ववत् स्तोत्रमुपाकरोति । ब्रह्मा - देव सवितरित्यादि प्रतिधिरसि पृथिव्यै त्वा पृथिवीं जिन्व । ओꣳ स्तुत । इडायै चतुर्होता चतुर्होतॄन् चतुर्होता । स्तुतस्य स्तुतमसि । इडा देवहूरित्यादि शस्त्रं प्रतिगीर्य । उक्थशाः प्रातस्सवनं प्रतिगीर्य जपति शस्त्रं शस्त्रं वा । शस्त्रस्य शस्त्रमसि । अग्नये पथिकृत इत्यादि । ग्रहं प्रतिप्रस्थातादत्त इत्यादि । चमसांश्चमसाध्वर्यवः । उक्थशा यज सोमानाम् । इन्द्राग्निभ्यामिदम् । अग्नये स्विष्टकृत इदम् । देवेभ्यस्त्वा इति मुख्ये संपातमवनयति । न प्रतिप्रस्थातोर्ध्वपात्रस्य भक्षयति । प्रक्षालितेषु चमसेषु । अथ सवनप्रायश्चित्तानि ।