०५ अभ्युदयश्राद्धम्

अथाभ्युदयश्राद्धम्

कालः

यत्रादौ विहितं
तत्र प्रातःकाले कृत्वा
अनन्तरं कर्म कुर्यात् ।
यत्र अन्ते विहितं
तत्र पूर्वं कर्म कृत्वा
परेद्युः प्रातःकाले कुर्यात् ।

ब्रह्म-वरणान्तम्

तत्रोपवीती प्राङ्मुखो
दक्षिणं जान्व् आच्य
प्रागग्रैः ऋजुभिः युग्मैः दर्भैः
तिलार्थे यवैः
देवतीर्थेन प्रदक्षिणं सर्वं कुर्यात् ।

सङ्कल्पावाहनादौ
नान्दी-मुख-शब्देन पितरो विशेष्याः,
(सत्य-वसु-संज्ञक) वसु-सत्याख्या विश्वे-देवाः ।

अमुक-गोत्रस्य अमुक-शर्मणः अमुक-कर्माङ्गम्
अभ्युदय-श्राद्धं करिष्यामि

इति सङ्कल्प्य

… वरणे तु प्रतिवर्गं विश्वे-देवार्थे
द्वौ द्वौ विप्रौ +++(→४)+++,
पित्रादीनाम् +++(=पितृ-पितामह-प्रपितामहेभ्यः)+++
मात्रादीनां +++(=मातृ-पितामही-प्रपितामहीभ्यः)+++
मातामहादीनां +++(=मातामह–मातुः-पितामह–मातुः-प्रपितामहेभ्यः)+++ च नवानाम्
एकैकस्य द्वौ द्वौ +++(→१८)+++,
विष्ण्व्-अर्थम् एकम्
एवं पञ्च-विंशति-ब्राह्मणान् वृणुयात् ।

द्रव्यस्य ब्राह्मणस्य वा अभावे
वर्ग-द्वस्य विश्वेदेवार्थे द्वौ,
प्रतिवर्गं द्वौ द्वौ ,
विष्ण्वर्थम् एकम्,
एवं नव ब्राह्मणान् वृणुयात् ।

+++(श्रीनिवासदेशिको युग्मत्व-विधानाद् विष्ण्व्-अर्थे द्वयं वृणीयाद् इति प्रतिपादयति।)+++

ब्राह्मण-भोजन-रीत्या

… पार्वणवद् अग्निमुखान्ते
वर्ग-द्वय-पितॄन् आवाह्य
वर्ग-द्वय-पितृभ्यो जुहुयात् ।

[[6]]

श्रावणम् - उपास्मै …

‘मधु वाता’ इत्यृचां स्थाने
‘उपास्मै गायतानरः’ इति मधुमतीः पञ्च श्रावयेत् ।

०११ ...{Loading}...
01 उपास्मै गायता - गायत्री
विश्वास-प्रस्तुतिः ...{Loading}...

उपा॑स्मै गायता नरः॒
पव॑माना॒येन्द॑वे ।
अ॒भि दे॒वाँ इय॑क्षते

02 अभि ते - गायत्री
विश्वास-प्रस्तुतिः ...{Loading}...

अ॒भि ते॒ मधु॑ना॒ पयो
ऽथ॑र्वाणो अशिश्रयुः +++(=मिश्रितवन्तः)+++।
दे॒वं दे॒वाय॑ देव॒यु+++(←देवकामम्)+++ ॥

03 स नः - गायत्री
विश्वास-प्रस्तुतिः ...{Loading}...

स नः॑ पवस्व॒ शं गवे॒
शं जना॑य॒ शम् अर्व॑ते+++(=वाजिने)+++ ।
शं रा॑ज॒न्न् ओष॑धीभ्यः ॥

04 बभ्रवे नु - गायत्री
विश्वास-प्रस्तुतिः ...{Loading}...

ब॒भ्रवे॒ नु स्व-त॑वसे+++(=बलाय)+++
ऽरु॒णाय॑ दिवि॒-स्पृशे॑ ।
सोमा॑य गा॒थम् अ॑र्चत

05 हस्तच्युतेभिरद्रिभिः सुतम् - गायत्री
विश्वास-प्रस्तुतिः ...{Loading}...

हस्त॑-च्युतेभि॒र् अद्रि॑भिः
सु॒तं सोमं॑ पुनीतन
मधा॒व् आ धा॑वता॒ मधु॑ ॥

पिण्ड-प्रदानम्

पिण्ड-प्रदानेषु
चतुर्धा प्राग्-अग्रान् दर्भान् संस्तीर्य
तेषु पृषद्-आज्य-बदरी-फल-मिश्रान् चतुर्-विंशति-पिण्डान् (एकैकस्य द्वौ द्वौ पिण्डौ) दद्यात् ।
अन्यत् सर्वं पार्वणवत् कुर्यात् ।

आम-हिरण्य-श्राद्धे

एवं मुख्य-कल्पस्य असम्भवे

अभ्युदय-श्राद्धम् आमरूपेण/ हिरण्यरूपेण वा करिष्यामि

इति सङ्कल्प्य,
वरणादि गन्ध-दानादि च कृत्वा

निधानम्

…द्वि-गुणेन तण्डुलेन आम-श्राद्धं कुर्यात् ।
(अथ वा) ब्राह्मणानां पुरतः
अन्न-श्राद्ध-चतुर्गुणं हिरण्यं निधाय

प्रीणनम्

‘यज्ञेश्वरो हव्य’
‘एको विष्णु’रिति मन्त्रद्वयम् उच्चार्य

यज्ञेश्वरो … एको विष्णुः ...{Loading}...

यज्ञेश्वरो हव्य-समस्त-कव्य-
भोक्ता ऽव्ययात्मा हरिर् ईश्वरो ऽत्र ।
तत्-सन्निधानाद् अपयान्तु सद्यो
रक्षांस्य् अशेषाण्य् असुराश् च सर्वे ॥

एको विष्णुर् महद्-भूतं
पृथक् भूतान्य् अनेकशः ।
त्रीन् लोकान् व्याप्य भूतात्मा
भुङ्क्ते विश्व-भुग् अव्ययः ॥

अनेन हिरण्य-रूपेण अभ्युदय-श्राद्धेन
(सत्य-वसु-संज्ञक) वसु-सत्याख्य–विश्वे-देव-रूपी,
नान्दी-मुख-मातृ-पितामहि-प्रपितामहि-स्वरूपी नान्दी-मुख–पितृ-पितामह-प्रपितामह-स्वरूपी,
(प्रपितामहि-पितामहि-मातृस्वरूपी,
प्रपितामह-पितामह-पितृ-स्वरूपी +++(इति क्रमे व्यत्यासः)+++),
नान्दी-मुख–सपत्नीक-मातामह–मातुः-पितामह–मातुःप्रपितामह-स्वरूपी नान्दी-श्राद्ध-संरक्षक–श्री-महा-विष्णु-स्वरूपी भगवान् जनार्दनः प्रीयताम्

दानम्

इति यवोदकम् उत्सृज्य
ताम्बूलदक्षिणा-दानानि कुर्यात् ॥