२१ पशुसंस्कारः

पशुं स्नपयन्त्यध्वर्युब्रह्मयजमानाः १। यद्यङ्गहीनस्स्यादङ्गतो वा विरुज्येत । अथैकेषां वैष्णवीमाग्ना-वैष्णवीं सारस्वतीं बार्हस्पत्यामिति च हुत्वा प्रयोजयेत् । इदं विष्णुर्विचक्रमे त्रेधा नि दधे पदम् । समूढमस्य पाꣳसुरे स्वाहा । विष्णव इदम् । अग्नाविष्णू सजोषसेमा वर्धन्तु वां गिरः । द्युम्नैर्वाजेभिरागतꣳ स्वाहा । अग्नाविष्णुभ्यामिदम् । प्र णो देवी सरस्वती वाजेभिर्वाजिनीवती । धीनामवित्र्यवतु स्वाहा । सरस्वत्या इदम् । बृहस्पते अति यदर्यो अर्हाद्द्युमद्विभाति क्रतुमज्जनेषु । यद्दीदयच्छवसर्तप्रजात तदस्मासु द्रविणं धेहि चित्रꣳ स्वाहा । बृहस्पतय इदम् । भूर्भुवस्सुवस्स्वाहा । प्रजापतय इदम् ।