३८ अङ्गानां उद्धरणं श्रपणं च

पशुं विशास्ति । गुदं मा निर्व्लेषीर्वनिष्ठुं मा निर्व्लेषीः इति संप्रेष्यति । हृदयाद्युद्धरणम् । हृदयं जिह्वा वक्षो यकृद्वृक्यौ सव्यं दोरुभे पार्श्वे दक्षिणा श्रोणिर्गुदतृतीयमिति दैवतानि । दक्षिणं दोस्सव्या श्रोणिर्गुदतृतीयमिति सौविष्टकृतानि । क्लोमानं प्लीहानं पुरीततं वनिष्ठुमध्यूध्नीं मेदो जाघनीमित्युद्धरति । हृदयशूलं शाखापवित्रमुपवेषं कुम्भीं च निष्टप्तꣳ रक्षो निष्टप्तोऽघशꣳसः शामित्रे प्रतितप्य । धृष्टिरसि इति उपवेषादानादि । उदक् शाखापवित्रमत्यादधातीत्यन्तं कृत्वा, सव्येन शाखापवित्रमन्वारभ्य । देवस्त्वा सविता पुनतु इति सकलं मांसजातं कुम्भ्यां प्रक्षिपति । देवस्त्वा सविता इति शूले प्रणीक्ष्य हृदयं शामित्रे श्रपयति ।