०२ प्राक्तन-कर्माणि

चौलवत् कुमारं दक्षिणत उपवेश्य

अमुक-गोत्रम् अमुक-शर्माणं कुमारम् उपनेष्ये

इति सङ्कल्प्य

[[16]]

उपवीतम्

‘यज्ञोपवीतं परमम्’ इति मन्त्रं स-र्षि-च्छन्दो-दैवतम् उच्चरन् धारयित्वा
मन्त्रं वाचयित्वा

यज्ञोपवीतं परमं पवित्रं ...{Loading}...

य॒ज्ञो॒प॒वी॒तं प॑र॒मं प॒वित्रं॑
प्र॒जाप॑ति॒र् यत् स॑ह॒जं पु॒रस्ता᳚त् ।
आ॒यु॒ष्य॑म् अ॒ग्र्यं॑ प्रति॑मुञ्च शु॒भ्रं
य॑ज्ञोपवी॒तं बल॑म् अस्तु॒ तेजः॑ ॥

छन्द-आदि (द्रष्टुं नोद्यम्)

यज्ञोपवीत-धारण-महा-मन्त्रस्य
ब्रह्म र्षिः,
त्रिष्टुप् च्छन्दः
त्रयी विद्या देवता ।
यज्ञोपवीतधारणे विनियोगः ।

भोजनम्

आचमय्य
परिषेचनापोऽशन-प्राणाहुति-सहितं क्षार-लवण-वर्जं कुमारं भोजयित्वा

चौलवत् दिग्-वपनं कृत्वा
क्षौरं कारयित्वा
स्नातं कुमारं दक्षिणत उपवेश्य