०२ उपवीतविधिः

अथोपवीतविधिः

निर्माणम्

स्वाध्याय-दिवसे
शुचि कार्पास-निर्मितं सूत्रं
प्रणवेनाभिमन्त्र्य

‘आपो वा इद ँ सर्वम्’ इति +अद्भिर् अभिषिच्य

२२ आपो वा इदम् ...{Loading}...

विश्वास-प्रस्तुतिः

आपो॒ वा इ॒दꣳ सर्वं॒
विश्वा॑ भू॒तान्य् आपः॑
प्रा॒णा वा आपः॑
प॒शव॒ आपो, ऽन्न॒म् आपो, ऽमृ॑त॒म् आपः॑
स॒म्राड् आपो॑, वि॒राड् आपः॑, स्व॒राड् आप॒श्
छन्दा॒ꣳ॒स्य् आपो॒, ज्योती॒ꣳ॒ष्य् आपो॒, यजू॒ꣳ॒ष्य् आप॑स्,
स॒त्यम् आप॒स्, सर्वा॑ दे॒वता॒ आपो॒,
भूर् भुव॒स् सुव॒र् आप॒
ॐ ॥

मूलम्

आपो॒ वा इ॒दꣳ सर्वं॒
विश्वा॑ भू॒तान्यापः॑
प्रा॒णा वा आपः॑
प॒शव॒ आपो ऽन्न॒मापो ऽमृ॑त॒म् आपः॑
स॒म्राडापो॑ वि॒राडापः॑ स्व॒राडाप॒श्
छन्दा॒ꣳ॒स्यापो॒ ज्योती॒ꣳ॒ष्यापो॒ यजू॒ꣳ॒ष्याप॑स्
स॒त्यमाप॒स् सर्वा॑ दे॒वता॒ आपो॒
भूर्भुव॒स्सुव॒राप॒ ॐ ॥

त्रि-गुणी-करणम्

सप्त-प्रणव-पूर्वकं व्याहृति-त्रयेण अभिमन्त्र्य

[[19]]

चतुर्-अङ्गुल-मानेन षण्-णवति-संख्यया सूत्रम् अच्छिन्नं त्रि-गुणी-कृत्य

प्रणव-व्याहृतिभिः प्रोक्ष्य
कूर्चोपरि निधाय

‘आपोहिष्ठा मयोभुव’ इति तिसृभिः

०१ आपो हि ...{Loading}...

आपो॒ हि ष्ठा म॑यो॒भुव॑स्
ता न॑ ऊ॒र्जे+++(जाः)+++ द॑धातन ।
म॒हे रणा॑य॒+++(=रमणीयाय)+++ चक्ष॑से+++(=दर्शनाय)+++ ॥

०२ यो वः ...{Loading}...

यो वः॑ शि॒वत॑मो॒ रस॑स्
तस्य॑ भाजयते॒ह नः॑ ।
उ॑श॒तीर्+++(=कामयमाना)+++ इ॑व मा॒तरः॑ ॥

०३ तस्मा अरं ...{Loading}...

+++(रसाय)+++ तस्मा॒ अरं॑+++(=शीघ्रम्)+++ गमाम वो
यस्य॒ +++(प्रभावेण)+++ क्षया॑य॒+++(=निवासाय)+++ जिन्व॑थ+++(=प्रीणयथ)+++ ।
आपो॑ +++(प्रजा)+++ ज॒नय॑था च नः ॥

‘हिरण्यवर्णाः शुचयः पावकाः’ इति च तिसृभिः

03 हिरण्यवर्णाश् शुचयᳶ ...{Loading}...

हिर॑ण्यवर्णा॒श् शुच॑यᳶ पाव॒का,
यासु॑ जा॒तᳵ क॒श्यपो॒, यास्व् इन्द्रः॑ ।
अ॒ग्निय्ँ या गर्भ॑न् दधि॒रे, विरू॑पा॒स् -
ता न॒ आप॒श् शꣳ स्यो॒ना भ॑वन्तु

08 यासां राजा ...{Loading}...

यासा॒ꣳ॒ राजा॒ वरु॑णो॒ याति॒ मध्ये॑,
सत्यानृ॒ते अ॑व॒पश्य॒ञ् जना॑नाम् ।
म॒धु॒श्-चुत॒श् शुच॑यो॒ याᳶ पा॑व॒कास् -
ता न॒ आप॒श् शꣳ स्यो॒ना भ॑वन्तु

12 यासान् देवा ...{Loading}...

यासा᳚न् दे॒वा दि॒वि कृ॒ण्वन्ति॑ भ॒ख्षय्ँ -
या अ॒न्तरि॑ख्षे बहु॒धा भव॑न्ति
याᳶ पृ॑थि॒वीम् पय॑सो॒न्दन्ति॑ शु॒क्रास् -
ता न॒ आप॒श् शꣳ स्यो॒ना भ॑वन्तु

‘पवमानस् सुवर्जनः’ इत्यनुवाकेन च दर्भैः प्रोक्ष्य

०८, पावमानीमन्त्राः ...{Loading}...

विश्वास-टिप्पनी

स्मार्ते स्नानादौ मार्जनार्थाश्च।

01 पवमानस् सुवर्जनः ...{Loading}...

पव॑मान॒स् सुव॒र्-जनः॑ ।
प॒वित्रे॑ण॒ +++(नाना-विषयेषु)+++ विच॑र्षणिः ।
यᳶ पोता॒ स पु॑नातु मा ।

02 पुनन्तु मा ...{Loading}...

पु॒नन्तु॑ मा देवज॒नाः
पु॒नन्तु॒ मन॑वो धि॒या ।
पु॒नन्तु॒ विश्व॑ आ॒यवः॑+++(=मनुष्याः)+++ ।

03 जातवेदᳶ पवित्रवत् ...{Loading}...

जात॑वेदᳶ प॒वित्र॑वत् ।
प॒वित्रे॑ण पुनाहि+++(=पुनीहि)+++ मा ।
शु॒क्रेण॑ देव॒ दीद्य॑त्
अग्ने॒ क्रत्वा॒+++(=प्रज्ञया)+++ क्रतू॒ꣳर् अनु॑ ॥46॥

04 यत् ते ...{Loading}...

यत् ते॑ प॒वित्र॑म् अ॒र्चिषि॑
अग्ने॒ वित॑तम् अन्त॒रा ।
ब्रह्म॒ तेन॑ पुनीमहे

05 उभाभ्यान् देव ...{Loading}...

उ॒भाभ्या᳚न् देव सवितः
प॒वित्रे॑ण स॒वेन॑ च ।
इ॒दम् ब्रह्म॑ पुनीमहे ।+++(5)+++

06 वैश्वदेवी पुनती ...{Loading}...

वै॒श्व॒दे॒वी पु॑न॒ती दे॒व्य् आगा᳚त्+++(=आगच्छतु)+++ ।
यस्यै॑ ब॒ह्वीस् त॒नुवो॑ वी॒त-पृ॑ष्ठाः+++(=कान्त-स्तुतयः)+++ ।
तया॒ मद॑न्तस् सध॒-माद्ये॑षु +++(=सह माद्यन्ति येषु सवनेषु)+++ ।
व॒यꣵ स्या॑म॒ पत॑यो रयी॒णाम् ॥47॥

07 वैश्वानरो रश्मिभिर् ...{Loading}...

वै॒श्वा॒न॒रो र॒श्मिभि॑र् मा पुनातु
वात॑ᳶ प्रा॒णेने॑षि॒रो+++(←इष गतौ)+++ म॑यो॒भूः ।
द्यावा॑पृथि॒वी पय॑सा॒ पयो॑भिः +++(इति क्रमशः)+++ ।
ऋ॒ताव॑री+++(=ऋतवत्यौ)+++ य॒ज्ञिये॑ मा पुनीताम्

08 बृहद्भिस् सवितस् ...{Loading}...

बृ॒हद्भि॑स् सवित॒स् तृभिः॑+++(=त्रिभिः [लोकगणनया]/ तृप्यतेः करणे क्विप्)+++ ।
वर्षि॑ष्ठैर्+++(=प्रवृद्ध-धर्मैः)+++ देव॒ मन्म॑भिः+++(=मननीयैः)+++ ।
अग्ने॒ दख्षै᳚ᳶ पुनाहि मा ।

09 येन देवा ...{Loading}...

येन॑ दे॒वा अपु॑नत
येनापो॑ दि॒व्यङ् कशः॑+++(←कशेर् गतिकर्मणो ऽसुन्)+++ ।
तेन॑ दि॒व्येन॒ ब्रह्म॑णा ॥48॥
इ॒दम् ब्रह्म॑ पुनीमहे

10 यᳶ पावमानीर् ...{Loading}...

यᳶ पा॑वमा॒नीर् अ॒ध्येति॑
ऋषि॑भि॒स् सम्भृ॑त॒ꣳ॒ रस᳚म् ।
सर्व॒ꣳ॒ स पू॒तम् अ॑श्ञाति
स्व॒दि॒तम्+++(=स्वादुकृतं)+++ मा॑त॒रिश्व॑ना+++(=वायुना)+++ ।

11 पावमानीर् यो ...{Loading}...

पा॒व॒मा॒नीर् यो अ॒ध्येति॑
ऋषि॑भि॒स् सम्भृ॑त॒ꣳ॒ रस᳚म् ।
तस्मै॒ सर॑स्वती दुहे
ख्षी॒रꣳ स॒र्पिर् मधू॑द॒कम् ।

12 पावमानीस् स्वस्त्ययनीः ...{Loading}...

पा॒व॒मा॒नीस् स्व॒स्त्य्-अय॑नीः ॥49॥
सु॒-दुघा॒ हि पय॑स्वतीः ।
ऋषि॑भि॒स् सम्भृ॑तो॒ रसः॑ ।
ब्रा॒ह्म॒णेष्व् अ॒मृतꣳ॑ हि॒तम्

13 पावमानीर् दिशन्तु ...{Loading}...

पा॒व॒मा॒नीर् दि॑शन्तु नः ।
इ॒मल्ँ लो॒कम् अथो॑ अ॒मुम् ।
कामा॒न्थ् सम॑र्धयन्तु नः ।
दे॒वीर् दे॒वैस् स॒माभृ॑ताः

14 पावमानीस् स्वस्त्ययनीः ...{Loading}...

पा॒व॒मा॒नीस् स्व॒स्त्य्-अय॑नीः
सु॒-दुघा॒ हि घृ॑त॒श्-चुतः॑+++(=क्षारयित्र्यः)+++ ।
ऋषि॑भि॒स् सम्भृ॑तो॒ रसः॑ ॥50॥
ब्रा॒ह्म॒णेष्व् अ॒मृतꣳ॑ हि॒तम्

15 येन देवाᳶ ...{Loading}...

येन॑ दे॒वाᳶ प॒वित्रे॑ण ।
आ॒त्मान॑म् पु॒नते॒ सदा᳚ ।
तेन॑ स॒हस्र॑-धारेण ।
पा॒व॒मा॒न्यᳶ पु॑नन्तु मा ।

16 प्राजापत्यम् पवित्रम् ...{Loading}...

प्रा॒जा॒प॒त्यम् प॒वित्र᳚म् ।
श॒तोद्या॑मꣳ हिर॒ण्मय᳚म् ।
तेन॑ ब्रह्म॒-विदो॑ व॒यम् ।
पू॒तम् +++(यथा तथा स्वीयम्)+++ ब्रह्म॑ पुनीमहे

17 इन्द्रस् सुनीती ...{Loading}...

इन्द्र॑स् सुनी॒ती+++(त्या)+++ स॒ह मा॑ पुनातु ।
सोम॑स् स्व॒स्त्या वरु॑णस् स॒मीच्या᳚+++(=सम्यगञ्चनया)+++ ।
य॒मो राजा᳚ प्रमृ॒णाभि॑ᳶ+++(=प्रमारिकाभिः)+++ पुनातु मा ।
जा॒तवे॑दा मा+ऊ॒र्जय॑न्त्या पुनातु ॥51॥

त्रि-गुणी-करणम्

प्रत्यङ्-मुखो, गृहीत-मध्यः,
गृहीताग्रौ प्राङ्मुखौ,
दक्षिण-हस्तोर्ध्वं पाणिभ्यां प्रणव-व्याहृतिभिः अनुवर्त्य
सावित्र्या त्रि-गुणी-कृत्य

ग्रन्थिः

“प्राणानां ग्रन्थिर् असी"ति
ग्रन्थिं कृत्वा

वाम-हस्तोर्ध्वं पाणिभ्याम् अनुवर्त्य
दर्भैः घृष्ट्वा
दर्भास्तृते शुचौ देशे प्रसार्य
तदुपरि द्वौ दर्भौ प्रसार्य
त्रिः कर-ध्वनिं कृत्वा
भ्रमत्-सूत्रं नावेक्षेताम् +++(=??)+++।

ऋजू-करणम्

अनन्तरं तत्-सूत्रम् आदाय
अश्वत्थादि-याज्ञिय-वृक्षे
“पितृभ्यो नम” इति बद्ध्वा

सूत्र-कुटिलं प्रणव-व्याहृतिभिः ऋजू कृत्य
त्रि-वलयं कृत्वा

ग्रन्थिः

अग्राभ्यां मध्यम् आवेष्ट्य
पुनः सूत्र-त्रयं परिवेष्ट्य
“प्राणानां ग्रन्थिर् असी"ति ब्रह्मग्रन्थिं कृत्वा

प्रतिष्ठा

शुचौ देशे गोमयोपलिप्ते व्रीहीन् निधाय
तद्-उपरि जल-पूर्णं सकूर्चं स-याज्ञिय-शाखं कुम्भं निधाय
तस्मिन् प्रणव-व्याहृतिभिः यज्ञोपवीतं निधाय
गन्धादिभिर् अभ्यर्च्य

“यज्ञोपवीत-प्रतिष्ठां करिष्य” इति सङ्कल्प्य
यज्ञोपवीतं स्पृशन्
प्रणव-व्याहृतिभिः व्यस्ताभिः
समस्ताभिः व्याहृतिभिश् च प्रतिमन्त्रैश् च प्रतिष्ठाप्य

‘भूर् अग्निं च’ इत्य् अनुवाकेनाभिमन्त्र्य

2 ...{Loading}...
भास्करोक्त-विनियोगः

1चतस्रस् स्वयमातृण्णा दिक्षूपदधाति -

विश्वास-प्रस्तुतिः

भूर्! अ॒ग्निञ् च॑ पृथि॒वीञ् च॒ माञ् च॑ ।
त्रीꣳश् च॑ लो॒कान्थ् स॑व्ँवथ्स॒रञ् च॑ ।
प्र॒जाप॑तिस् त्वा +++(स्वयम्-आतृण्णे!)+++ सादयतु
तया॑ दे॒वत॑या ऽङ्गिर॒स्वद् ध्रु॒वा सी॑द

भट्टभास्कर-टीका

भूर्व्याहृतिः, अग्निर्देवता, पृथिवी लोकः, अहम् उपधाता,
त्रिलोकवासिनो जनाः, संवत्सरस् सर्वानुग्राही कालः,
सर्वमिदं त्वद्-उपधान-लब्धात्मकं, तस्माद्भूराद्यात्मिकां त्वां प्रजापतिस्सादयतु,
त्वं च तया देवतया सह
अङ्गिरसाम् इव स्थिरा सीद ।
एवं सर्वासु दिक्षु योज्यम् ॥

मूलम्

भूर॒ग्निञ्च॑ पृथि॒वीञ्च॒ माञ्च॑ ।
त्रीꣳश्च॑ लो॒कान्थ्स॑व्ँ वथ्स॒रञ्च॑ ।
प्र॒जाप॑तिस्त्वा सादयतु ।
तया॑ दे॒वत॑याऽङ्गिर॒स्वद्ध्रु॒वा सी॑द ॥

विश्वास-प्रस्तुतिः

भुवो॑ वा॒युञ् चा॒न्तरि॑ख्षञ् च॒ माञ्च॑ ।
त्रीꣳश्च॑ लो॒कान्थ् स॑व्ँवथ्स॒रञ्च॑ ।
प्र॒जाप॑तिस्त्वा सादयतु
तया॑ दे॒वत॑या ऽङ्गिर॒स्वद् ध्रु॒वा सी॑द

मूलम्

भुवो॑ वा॒युञ्चा॒न्तरि॑ख्षञ्च॒ माञ्च॑ ।
त्रीꣳश्च॑ लो॒कान्थ्स॑व्ँ वथ्स॒रञ्च॑ ।
प्र॒जाप॑तिस्त्वा सादयतु ।
तया॑ दे॒वत॑याऽङ्गिर॒स्वद्ध्रु॒वा सी॑द ॥

विश्वास-प्रस्तुतिः

स्व॑र् आदि॒त्यञ् च॒ दिव॑ञ् च॒ माञ् च॑ ।
त्रीꣳश्च॑ लो॒कान्थ् स॑व्ँवथ्स॒रञ्च॑ ।
प्र॒जाप॑तिस् त्वा सादयतु
तया॑ दे॒वत॑या ऽङ्गिर॒स्वद् ध्रु॒वा सी॑द

मूलम्

स्व॑रादि॒त्यञ्च॒ दिव॑ञ्च॒ माञ्च॑ ।
त्रीꣳश्च॑ लो॒कान्थ्स॑व्ँ वथ्स॒रञ्च॑ ।
प्र॒जाप॑तिस्त्वा सादयतु ।
तया॑ दे॒वत॑याऽङ्गिर॒स्वद्ध्रु॒वा सी॑द ॥

विश्वास-प्रस्तुतिः

भूर् भुव॒स् स्व॑श् च॒न्द्रम॑सञ् च॒ दिश॑श् च॒ माञ्च॑ ।
त्रीꣳश्च॑ लो॒कान्थ् स॑व्ँवथ्स॒रञ्च॑ ।
प्र॒जाप॑तिस् त्वा सादयतु
तया॑ दे॒वत॑या ऽङ्गिर॒स्वद् ध्रु॒वा सी॑द ॥ 5 ॥

मूलम्

भूर्भुव॒स्स्व॑श्च॒न्द्रम॑सञ्च॒ दिश॑श्च॒ माञ्च॑ ।
त्रीꣳश्च॑ लो॒कान्थ्स॑व्ँ वथ्स॒रञ्च॑ ।
प्र॒जाप॑तिस्त्वा सादयतु ।
तया॑ दे॒वत॑याऽङ्गिर॒स्वद्ध्रु॒वा सी॑द ॥ 5 ॥

तन्तु-देवता-पूजा

नव-तन्तु-देवताः
पृथिवीम् अपो ऽग्निं
वायुम् आकाशं प्राणम्
आत्मानम् अन्तरात्मानं परमात्मानं च
ग्रन्थि-त्रय-देवताः ब्रह्म-विष्णु-रुद्राः
यज्ञोपवीताधिष्ठान-देवतां परमात्मानं च
आवाह्य

आसनादिभिर् अभ्यर्च्य

सूर्य-दर्शनम्

‘आसत्येन’ ‘उद्वयं तमसः’ ‘चित्रं देवानां’ ‘तच्चक्षुः’
इति चतुर्भिः सूर्याय प्रदर्श्य

आ सत्येन रजसा ...{Loading}...

आ स॒त्येन॒ रज॑सा॒ वर्त॑मानो
निवे॒शय॑न्न् अ॒मृतं॒ मर्त्यं॑ च ।
हि॒र॒ण्यये॑न सवि॒ता रथे॒न॒+
+आऽऽदे॒वो या॑ति॒ भुव॑ना वि॒पश्यन्॑

१० उद्वयं तमसस्परि ...{Loading}...

उद् व॒यं तम॑स॒स् परि॒
ज्योति॒ष् पश्य॑न्त॒ उत्त॑रम् ।
दे॒वं दे॑व॒त्रा सूर्य॒म्
अग॑न्म॒ ज्योति॑र् उत्त॒मम् ॥

०१ चित्रं देवानामुदगादनीकं ...{Loading}...

चि॒त्रं दे॒वाना॒म् उद॑गा॒द् अनी॑कं॒
चक्षु॑र् मि॒त्रस्य॒ वरु॑णस्या॒ग्नेः ।
आ-प्रा॒+++(←पूरणे)+++ द्यावा॑-पृथि॒वी अ॒न्तरि॑क्षं॒
सूर्य॑ आ॒त्मा जग॑तस् त॒स्थुष॑श् च ॥

१२ तच्चक्षुर्देवहितम् पुरस्ताच्छुक्रमुच्चरत् ...{Loading}...

+++(सूर्यस्)+++ तच् चक्षु॑र् दे॒व+++(नि)+++हि॑तं पु॒रस्ता॑च् छु॒क्र+++(द्ध)+++म् उ॒च्चर॑त् -
पश्ये॑म श॒रद॑श् श॒तं
जीवे॑म श॒रद॑श् श॒तं
नन्दा॑म श॒रद॑श् श॒तं
मोदा॑म श॒रद॑श् श॒तं
भवा॑म श॒रद॑श् श॒तꣳ
शृ॒णवा॑म श॒रद॑श् श॒तं
प्रब्र॑वाम श॒रद॑श् श॒तम्
अजी॑ताः स्याम श॒रद॑श् श॒तं
ज्योक्+++(=दीर्घकालं)+++ च॒ सूर्य॑न् दृ॒शे ।

जपादि

पूर्ववत् निधाय
यज्ञोपवीतं स्पृशन्
अष्टोत्तरशतं गायत्रीं जपित्वा

१० तत्सवितुर्वरेण्यं भर्गो ...{Loading}...

तत् सवि॒तुर् वरे॑ण्य+++(णिय)+++म्
भर्गो॑+++(=भर्जनम्)+++ दे॒वस्य॑ धीमहि+++(←धा धारणे/ ध्यै ध्याने / धी आराधने)+++ ।
धियो॒ यो नः॑ प्रचो॒दया॑त् ॥
(प॒रो-र॑जसे॒ ऽसाव॒द् ओ३म् ॥)

प्रचोदयात्-स्वरः

प्र + चुद् + णिच् उदात्तः + शप् अनुदात्तः पित्त्वात् + [लेट् → आट् + तिप् अनुदात्तः पित्त्वात्]।

प्रानुदात्तत्वं तिङन्तस्योदात्तवत्त्वात्। तच्च यत्कारसद्भावात्।

धरणम्

‘त्र्यम्बकं यजामह’ इति सकृज् जपित्वा

१२ त्र्यम्बकं यजामहे ...{Loading}...

त्र्य॑म्बकं यजामहे
सु॒गन्धिं॑ पुष्टि॒-वर्ध॑नम्।
उ॒र्वा॒रु॒कम् +++(स्थूलफलम्)+++ इ॑व॒ बन्ध॑नान्
मृ॒त्योर् मु॑क्षीय॒, मा ऽमृता॑त्॥

उत्तानेन दक्षिणहस्तेन अवाचीनेन वामहस्तेन यज्ञोपवीतं गृहीत्वा
सर्षि-च्छन्दो-दैवतं ‘यज्ञोपवीतम्’ इति मन्त्रेण धारयेत् ।

यज्ञोपवीतं परमं पवित्रं ...{Loading}...

य॒ज्ञो॒प॒वी॒तं प॑र॒मं प॒वित्रं॑
प्र॒जाप॑ति॒र् यत् स॑ह॒जं पु॒रस्ता᳚त् ।
आ॒यु॒ष्य॑म् अ॒ग्र्यं॑ प्रति॑मुञ्च शु॒भ्रं
य॑ज्ञोपवी॒तं बल॑म् अस्तु॒ तेजः॑ ॥

छन्द-आदि (द्रष्टुं नोद्यम्)

यज्ञोपवीत-धारण-महा-मन्त्रस्य
ब्रह्म र्षिः,
त्रिष्टुप् च्छन्दः
त्रयी विद्या देवता ।
यज्ञोपवीतधारणे विनियोगः ।

प्रत्य्-उपवीतं मन्त्रोच्चारणाचमने कुर्यात् ।

त्याज्योपवीतानि

विच्छिन्नैकतन्तुम् अविच्छिन्नैकतन्तुं वा
त्रिभिः ब्राह्मणैः वा अनिर्मितम्
अनुवर्तने मनुष्य-मार्जारादिभिः अधो-गतं
पूय-शोणित-विण्-मूत्र-श्लेष्मोच्छिष्ट-दूषितम्
अशुचि-स्पृष्टं

विण्-मूत्रोत्सर्जने चण्डालैः ग्राम-चण्डालैश् च सम्भाषणे
निवीतं कृत्वा दक्षिणे कर्णे च अनिक्षिप्तं चोपवीतं परित्यजेत् ।+++(5)+++

[[20]]

प्रायश्चित्तानि

भुज-कूर्पर–मणि-बन्धेषु उपवीते गते
क्रमेण त्रीन् षट् द्वा-दश प्राणायामान् कुर्यात् ।
क्रोधात् मोहाद् वा यज्ञोपवीत-च्छेदने
नद्यां स्नात्वा
अष्टा-सहस्र-गायत्रीं जपेत् ।

उपवीत-नाशे
यावद् उपवीतं न लभ्यते
तावत् कार्पास-तन्तु-गोवाल-कुशेषु अन्यतमेन कृतं धारयेत् ।
एक-रात्रम् अपि
उपवीतेन विना शूद्रो भवति ।+++(4)+++