१० ब्रह्मकूर्चपञ्चगव्यविधिः

एकादश्यां द्वादश्यां व [[वा??]] उपोष्य, सुप्रक्षालितपाणिपादः स्वाचान्तः पवित्रपाणिः (ओं नमस्सदसे… इति) ब्राह्मणैरनुज्ञातः प्राणान् आयम्य,

अस्यां शुभतिथौ पञ्चगव्यद्रव्यशुद्ध्यर्थे शुद्धिपुण्याहं वाचयिष्ये

इति सङ्कल्प्य, शुद्धिपुण्याहं कृत्वा तज्जलेन पञ्चगव्यद्रव्याणि प्रोक्ष्य,

नवकृतपदमध्ये दुग्धम्, ऐन्द्रे दधि स्यात्, यमदिशि घृतं, इन्दोर्वारुणे गोमये द्वे । अनल-निर्ऋति-वाय्वीशान-कोणेषु पिष्टाऽऽमलककण, हरिद्रा, तोयम् एवं प्रयुञ्ज्यात् ॥

पलमेकं तु गोमूत्रं अङ्गुष्ठार्धञ्च गोमयम् ।
क्षीरं सप्तपलं चैव दधि त्रिपलमुच्यते ॥
पलमेकं घृतं ग्राह्यं पलमेकं कुशोदकम्

इति द्रव्यमानम् ।

प्राणान् आयम्य … ‘श्री गोविन्द’ इत्यादि..

अस्यां शुभतिथौ श्रीभगवदाज्ञया भगवत् (श्रीमन्नारायण) प्रीत्यर्थं मम अन्येषाञ्च मनोवाक्कायैरनुष्ठित-अभक्ष्यभक्षणअस्पृश्यस्पर्शनादि-जनित-समस्तभगवन्निग्रहशान्त्यर्थं ब्रह्मकूर्चविधिना पञ्चगव्यद्रव्यसंमेलनं करिष्ये

इति सङ्कल्प्य,

[[46]]

(प्रायश्चित्तार्थं पञ्चगव्यसंमेलने

…गोत्रस्य … शर्मणः … गोत्रायाः … नाम्न्याः .. पापनिवृत्त्यर्थम्

इति सङ्कल्प्य)

सात्त्विकत्यागं कृत्वा,

आवाहनम् -

गोमूत्रं यज्ञदैवत्यं गोमयं विष्णुमेव च ।
क्षीरं तु सोमदेवत्यं दधि ब्रह्माधिदैवतम् ।
घृतं तु वायुदेवत्यम् उदकं वारुणं तथा ॥

इत्युक्तप्रकारेण तत्तद्द्रव्ये तत्तद्दैवतात्मकं भगवन्तं श्रीमन्नारायणं ध्यात्वा, आवाहयेत् ॥ तत्प्रकारः -

गोमूत्रे –

य॒ज्ञेन॑ य॒ज्ञम॑य॒जन्त दे॒वाः । तानि॒ धर्मा॑णि प्रथ॒मान्या॑सन्न् ।
ते ह॒ नाकं॑ महिमान॑स्सच॒न्ते । यत्र॒ पूर्वे॑॑ सा॒ध्यास्सन्ति॑ दे॒वाः ॥ [[TODO:परिष्कार्यम्??]]

(इति मन्त्रेण) यज्ञदेवताम् आवाहयामि ।

गोमये –

स॒हस्र॑शीर्षा॒ पुरु॑षः । स॒ह॒स्रा॒क्षस्स॒हस्र॑पात् ।
स भूमिं॑ वि॒श्वतो॑ वृ॒त्वा । अत्य॑तिष्ठत् दशाङ्गु॒लम् ॥ [[TODO:परिष्कार्यम्??]]

(इति मन्त्रेण) विष्णुम् आवाहयामि ।

(

वस॑वो॒ रु॒द्रा आ॑दि॒त्या उ॑परि॒स्प॒शं॑ मो॒ग्रं चेत्ता॑रमधि रा॒जम॑क्रन्न् ।
अ॒र्वाञ्च॒मिन्द्र॑म॒मुतो॑ हवामहे॒ योगो॒जिद्ध॑न॒जिद॑श्व॒जिद्यः ॥ [[TODO:परिष्कार्यम्??]]

(इति मन्त्रेण) वसुं वा आवाहयामि ।)

क्षीरे –

सोमो॑ धे॒नुँ सोमो॒ अ॑र्व॒न्तमा॒शुम् । सोमो॑ वी॒रं क॑र्म॒ण्यं॑ ददातु ।
सा॒द॒न्यं॑ विद॒थ्यँ॑ स॒भेयम्᳚ । पि॒तु॒श्श्रव॑णं॒ यो ददा॑शदस्मै ॥ [[TODO:परिष्कार्यम्??]]

(इति मन्त्रेण) सोमम् आवाहयामि ।

[[47]]

दध्नि –

ब्रह्म॑जज्ञा॒नं प्र॑थ॒मं पु॒रस्ता᳚त् । विसी॑म॒तस्सु॒रुचो॑ वे॒न आ॑वः ।
स बु॒ध्निया॑ उ॒पमा अ॑स्य वि॒ष्ठाः । स॒तश्च॒ योनि॒मस॑तश्च॒ विवः॑ ॥ [[TODO:परिष्कार्यम्??]]

(इति मन्त्रेण) ब्रह्माणम् आवाहयामि ।

घृते –

वा॒योस्स॑वि॒तुर्वि॒दथा॑नि मन्महे॒ यावा᳚त्म॒न्वद्बि॑भृ॒तो यौ च॒ रक्ष॑तः ।
यौ विश्व॑स्य परि॒भू ब॑भू॒वतु॒स्तौ नो॑ मुञ्च॒तमाग॑सः ॥ [[TODO:परिष्कार्यम्??]]

(इति मन्त्रेण) वायुम् आवाहयामि ।

शुद्धोदके –

इ॒मं मे॑ वरुण श्रुधी॒हव॑म॒द्या च॑ मृडय । त्वाम॑व॒स्यु॒रा च॑के ।
तत्त्वा॑ यामि॒ ब्रह्म॑णा॒ वन्द॑मान॒स्तदाशा᳚स्ते॒ यज॑मानो ह॒विर्भिः॑ ।
अहे॑डमानो वरुणे॒हबो॒ध्युरु॑शँ स॒ मा न॒ आयुः प्रमो॑षीः ॥ [[TODO:परिष्कार्यम्??]]

इति मन्त्रेण वरुणं च आवाह्य, आसनादि-नैवेद्यवीटिकासमर्पणान्तैः उपचारैः सम्पूज्य, तद्दक्षिणतः स्वसूत्रोक्तविधानेन अग्निं प्रतिष्ठाप्य (उल्लेखनम्, अवोक्षणं, निरसनम्, अप उपस्पृश्य, भूर्भुवस्सुवरोम् इति अग्निं प्रतिष्ठाप्य, प्राक्तोयम्, अग्निम् इध्वा, प्रज्वाल्य, परिसमूह्य, परिस्तीर्य, दक्षिणानुत्तरान् उत्तरानधरान्, उत्तरेणाग्निं पात्रसादनम्) पात्रसादने दर्व्याज्यपात्रस्थाने सपालाशं कूर्चे पञ्चगव्यसंमेलनपात्रं च निधाय, प्रोक्षणीम्, इतरदर्वीं च सादयित्वा, प्रोक्ष्य, पवित्रान्तर्हिते पञ्चगव्यसमेलनपात्रे पञ्चगव्यसंमेलनं कुर्यात् ॥ (तत्प्रकारः -)

(१) गायत्र्या चैव गोमूत्रं
(२) गन्धद्वारेति गोमयम् ।
(३) आप्यायस्वेति च क्षीरं
(४) दधिक्राव्ण्णेति वै दधि ॥
(५) शुक्रमसीति चैवाज्यं
(६) देवस्यत्वा कुशेदकम् ॥

इत्युक्तैः मन्त्रैः पञ्चगव्यसंमेलनं कृत्वा प्रणवेनालेढ्य,

[[48]]

पञ्चगव्यसंमेलनमन्त्राः

॥ पञ्चगव्यसंमेलनमन्त्राः ॥

(१) तत्स॑वि॒तुर्वरे᳚ण्यं॒ भ॒र्गो॑ दे॒वस्य॑ धीमहि ।
धियो॒ योनः॑ प्रचो॒दया᳚त्। (गोमूत्रम्) [[TODO:परिष्कार्यम्??]]

(२) गन्ध॑द्वा॒रां दु॑राध॒र्षां॒ नि॒त्यपु॑ष्टां करी॒षिणी᳚म् ।
ई॒श्वरीं᳚ सर्व॑भूता॒नां॒ त्वामि॒होप॑ह्वये॒ श्रियम् ॥ (गोमयम्) [[TODO:परिष्कार्यम्??]]

०४ आ प्यायस्व ...{Loading}...

आ प्या॑यस्व॒ समे॑तु ते
वि॒श्वतः॑ सोम॒ वृष्ण्य॑म् ।
भवा॒ वाज॑स्य सङ्ग॒थे+++(=संगमने)+++ ॥

(क्षीरम्)

(४) द॒धि॒क्राव्ण्णो॑ अकारिषं जि॒ष्णोरश्व॑स्य वा॒जिनः॑ ।
सु॒र॒भिनो॒ मुखा॑कर॒त्प्रण॒ आयूँ॑षि तारिषत् ॥ [[TODO:परिष्कार्यम्??]] (दधि)

(५) शुक्र॑मसि॒ ज्योति॑रसि॒ तेजो॑ऽसि । [[TODO:परिष्कार्यम्??]] (आज्यम्)

(६) दे॒वस्य॑ त्वा स॑वि॒तुः प्र॑स॒वे᳚ऽश्विनो᳚र्बा॒हुभ्यां᳚ पू॒ष्णो हस्ता᳚भ्याम् ॥ [[TODO:परिष्कार्यम्??]] (कुशोदकम्)

उदीचोऽङ्गरान् निरूह्य, पञ्चगव्यात्मकमाज्यं तेष्वधिश्रित्य, ज्वलता तृणेनावद्योत्य, द्वे दर्भाग्रे प्रच्छिद्य प्रक्षाल्य प्रत्यस्य, त्रिः पर्यग्निकृत्वा, उदगुद्वास्य, अङ्गारानग्नौ प्रत्यूह्य, उदगग्राभ्यां पवित्राभ्यां पुनराहारं पञ्चगव्यं त्रिरुत्पूय, पवित्रग्रन्थिं विस्रस्य, अप उपस्पृश्य, प्रागग्रमग्नौ प्रहरति । येन जुहोति, तदग्नौ प्रतितप्य, दर्भैस्सम्मृज्य, पुनः प्रतितप्य, प्रोक्ष्य, दर्व्यौ निधाय, दर्भान् अद्भिस्संस्पृश्य अग्नौ प्रहरति ।

अदि॒तेऽनु॑मन्यस्व, अनु॑म॒तेऽनु॑म॒न्यस्व, सर॑स्व॒तेऽनु॑म॒न्यस्व देव॑ सवितः॒ प्र सु॑व [[TODO:परिष्कार्यम्??]]

इति परिषिच्य,

[[49]]

समन्थानसमित्कूर्चेन,

ओं भूभुर्व॒स्सु॒व॒स्स्वाहा᳚ ॥ [[TODO:परिष्कार्यम्??]]
(प्रजापतय इदं न मम)

(अग्नये चैव सोमाय शन्नो देवी त्र्यम्बकम् ।
इरावतीमिदं विष्णुर्मानस्तोके प्रजापते ॥
गायत्र्या च व्याहृतीभिः महाव्याहृतिभिस्तथा ।
होतृभिश्चैव होतव्यं हुतशेषं तु पुण्यदम् ॥)

होमप्रकारः

॥ होमप्रकारः ॥

ओम् अ॒ग्नये॒ स्वाहा᳚ ॥ [[TODO:परिष्कार्यम्??]] (अग्नय इदं न मम)

ओं सोमा॑य॒ स्वाहा᳚ ॥ [[TODO:परिष्कार्यम्??]] (सोमायेदं न मम)

ओं शन्नो॑ दे॒वीर॒भिष्ट॑य॒ आपो॑ भवन्तु पी॒तये᳚ ।
शंयोर॒भिस्र॑वन्तु न॒स्स्वाहा᳚ ॥ [[TODO:परिष्कार्यम्??]] (अद्भ्य इदं न मम)

ओं त्र्य॑म्बकं यजामहे सु॒ग॒न्धिं पु॑ष्टि॒वर्धन॑म् ।
उ॒र्वा॒रुकमि॑व॒ बन्ध॑नान्मृ॒त्योर्मु॑क्षीय॒ माऽमृता॒त् स्वाहा᳚ ॥ [[TODO:परिष्कार्यम्??]] (त्र्यम्बकायेदं न मम)

ओम् इरा॑वती धेनु॒मती॒ हि भू॒तँ सू॑यव॒सिनी॒ मन॑वे यश॒स्ये᳚ ।
व्य॑स्कभ्ना॒द्रोद॑सी॒ विष्णु॑रे॒ते दा॒धार॑ पृथि॒वीम॒भितो॑ म॒यूखै॒स्स्वाहा᳚ ॥ [[TODO:परिष्कार्यम्??]] (धेन्वा इदम्)

ओम् इ॒दं विष्णु॒र्विच॑क्रमे त्रे॒धा निद॑धे प॒दम् ।
समू॑ढमस्य पाँसु॒रे स्वाहा᳚ ॥ [[TODO:परिष्कार्यम्??]]
(विष्णव इदं न मम )

[[50]]

ओं मा न॑स्तो॒के तन॑ये॒ मा न॒ आयु॑षि मा नो॒ गोषु॒ मा नो॒ अश्वे॑षु रीरिषः ।
वी॒रान्मा नो॑ रुद्रभामि॒तो व॑धीर्ह॒विष्म॑न्तो॒ नम॑सा विधेम ते स्वाहा᳚ ॥ [[TODO:परिष्कार्यम्??]]

(मन्त्रोक्तदेवताभ्य (रुद्राय) इदम्) अप उपस्पृश्य,

ओं प्रजा॑पते॒ न त्वदे॒तान्य॒न्यो विश्वा॑ जा॒तानि॒ परि॒ ता ब॑भूव ।
यत्का॑मास्ते जुहु॒मस्तन्नो॑ अ॒स्तु व॒य ँ स्या॑म॒ पत॑यो रयी॒णाँ स्वाहा᳚ ॥ [[TODO:परिष्कार्यम्??]]

ओं तत्स॑वि॒तुर्वरे᳚ण्यं॒ भ॒र्गो॑ दे॒वस्य॑ धीमहि ।
धियो॒ योनः॑ प्रचो॒दया॒त्स्वाहा᳚ ।[[TODO:परिष्कार्यम्??]]
(सवित्र इदं न मम) (सावित्र्या इदं न मम)

ओं भूस्स्वाहा᳚ ॥ [[TODO:परिष्कार्यम्??]]
(अग्नय इदं न मम)

ओं भुव॒स्स्वाहा᳚ ॥ [[TODO:परिष्कार्यम्??]]
(वायव इदं न मम)

ओँ सुव॒स्स्वाहा᳚ ॥ [[TODO:परिष्कार्यम्??]]
(सूर्यायेदं न मम)

ओं भूर्भुव॒स्सुव॒स्स्वाहा᳚ ॥ [[TODO:परिष्कार्यम्??]]
(प्रजापतय इदं न मम)

ओं भू॒रग्नये॑ पृथि॒व्यै स्वाहा᳚ ॥ [[TODO:परिष्कार्यम्??]]
(अग्नय इदं न मम)

ओं भुवो॑ वा॒यवे॒ऽन्तरि॑क्षाय॒ स्वाहा᳚ ॥ [[TODO:परिष्कार्यम्??]]
(वायव इदं न मम)

ओं सुव॑रादि॒त्याय॑ दि॒वे स्वाहा᳚ ॥ [[TODO:परिष्कार्यम्??]]
(आदित्यायेदं न मम)

ओं भूर्भुव॒स्सुव॑श्च॒न्द्रम॑से दि॒ग्भ्यस्स्वाहा᳚ ॥ [[TODO:परिष्कार्यम्??]]
(चन्द्रमस इदं न मम)

[[51]]

ओं भूरन्न॑म॒ग्नये॑ पृथि॒व्यै स्वाहा᳚ ॥ [[TODO:परिष्कार्यम्??]]
(अग्नये पृथिव्या इदं न मम)

ओं भुवोऽन्नं॑ वा॒यवे॒ऽन्तरि॑क्षाय॒ स्वाहा᳚ ॥ [[TODO:परिष्कार्यम्??]]
(वायवे अन्तरिक्षायेदं न मम)

ओं सुव॒रन्न॑मादि॒त्याय॑ दि॒वे स्वाहा᳚ ॥ [[TODO:परिष्कार्यम्??]]
(आदित्याय दिव इदं न मम)

ओं भूर्भुव॒स्सुव॒रन्नं॑ च॒न्द्रम॑से दि॒ग्भ्यस्स्वाहा᳚ ॥ [[TODO:परिष्कार्यम्??]]
(चन्द्रमसे दिग्भ्य इदं न मम)

ओं भूरग्न॒ये॑ च पृथि॒व्यै च॑ मह॒ते च॒ स्वाहा᳚ ॥ [[TODO:परिष्कार्यम्??]]
(अग्नये महत इदं न मम)

ओं भुवो॑ वा॒यवे॑ च॒न्तरि॑क्षाय च मह॒ते च॒ स्वाहा᳚ ॥ [[TODO:परिष्कार्यम्??]]
(वायवे महत इदं न मम)

ओं सुव॑रादि॒त्याय॑ च दि॒वे च॑ मह॒ते च॒ स्वाहा᳚ ॥ [[TODO:परिष्कार्यम्??]]
(आदित्याय महत इदं न मम)

ओं भूर्भुव॒स्सुव॑श्च॒न्द्रम॑से च॒ नक्ष॑त्रेभ्यश्च दि॒ग्भ्यश्च॑ मह॒ते च॒ स्वाहा᳚ ॥ [[TODO:परिष्कार्यम्??]]
(चन्द्रमसे महत इदम्)

ओं चित्ति॒स्स्रुक् । चि॒त्तमाज्य᳚म् । वाग्वेदिः॑ । आधी॑तं ब॒र्हिः । केतो॑ अ॒ग्निः । विज्ञा॑तम॒ग्निः । वाक्प॑ति॒र्होता᳚ । मन॑ उपव॒क्ता । प्रा॒णो ह॒विः । सामा᳚ध्व॒र्युः । वाच॑स्पते विदे नामन्न् । वि॒धेम॑ ते॒ नाम॑ । वि॒धेस्त्वम॒स्माकं॒ नाम॑ । वा॒चस्पति॒स्सोमं॑ पिबतु । आऽस्मासु॑ नृ॒म्णं धा॒त्स्वाहा᳚ ॥ [[TODO:परिष्कार्यम्??]]
(वाचस्पतय इदं न मम)

ओं पृ॒थि॒वी होता᳚ । द्यौर॑ध्व॒र्युः । रु॒द्रो᳚ऽग्नीत् । बृह॒स्पति॑रुपव॒क्ता। वाच॑स्पते वा॒चो वी॒र्ये॑ण । सम्भृ॑ततमे॒नाय॑क्ष्यसे । यज॑मानाय॒ वार्य᳚म् । आ सुव॒स्कर॑स्मै । वा॒चस्पति॒स्सोमं॑ पिबति । ज॒जन॒दिन्द्र॑मिन्द्रि॒याय॒ स्वाहा᳚ ॥ [[TODO:परिष्कार्यम्??]]
(पृथिव्या इदं न मम )

[[52]]

जो॑ अ॒ग्निर्होता᳚ । अ॒श्विना᳚ऽध्व॒र्यू । त्वष्टा॒ग्नीत् । मि॒त्र उ॑पव॒क्ता । सोम॒स्सोम॑स्य पुरो॒गाः । शु॒क्रश्शु॒क्रस्य॑ पुरो॒गाः । श्रा॒तास्त॑ इन्द्र॒सोमाः᳚ । वाता॑पेर् हवन॒श्रुतः॒ स्वाहा᳚ ॥ [[TODO:परिष्कार्यम्??]]
(अग्नय इदं न मम)

ओं सूर्ये॑ ते॒ चक्षुः॑ । वातं॑ प्रा॒णः । द्यां पृ॒ष्ठम् । अ॒न्तरि॑क्षमा॒त्मा । अङ्ग᳚र्य॒ज्ञम् । पृ॒थि॒वीँ शरी॑रैः । वाच॑स्प॒तेऽच्छि॑द्रया वा॒चा । अच्छि॑द्रया जुह्वा᳚ । दि॒वि दे॑वा॒वृधँ॒ होत्रा॒मेर॑यस्व॒ स्वाहा᳚ ॥ [[TODO:परिष्कार्यम्??]]
(सूर्यायेदं न मम)

ओं म॒हाह᳚वि॒र्॒ होता᳚ । स॒त्यह॑विरध्व॒र्युः । अच्यु॑तपाजा॒ अ॒ग्नीत् । अच्यु॑तमना उपव॒क्ता । अ॒ना॒धृ॒ष्यश्चा᳚प्रतिधृ॒ष्यश्च॑ य॒ज्ञस्या॑भिग॒रौ । अ॒यास्य॑ उद्गा॒ता । वाच॑स्पते हृद्विधे नामन्न् । वि॒धेम॑ ते॒ नाम॑ । वि॒धेस्त्वम॒स्माकं॒ नाम॑ । वा॒चस्पति॒स्सोम॑मपात् । मा दैव्य॒स्तन्तु॒श्छेदि॒ मा म॑नु॒ष्यः॑ । नमो॑ दि॒वे । नमः॑ पृथि॒व्यै स्वाहा᳚ ॥ [[TODO:परिष्कार्यम्??]]
(वाचस्पतय इदं न मम)

ओं वाग्घोता᳚ । दी॒क्षा पत्नी᳚ । वाता᳚ऽध्व॒र्युः । आपो॑ऽभिग॒रः । मनो॑ ह॒विः । तप॑सि जुहोमि । भूर्भुव॒स्सुवः॑ । ब्रह्म॑ स्वय॒म्भु । ब्रह्म॑णे॒ स्वय॒म्भुवे॒ स्वाहा᳚ ॥ [[TODO:परिष्कार्यम्??]]
(वाचस्पतये ब्रह्मण इदं न मम)

ओं ब्रा॒ह्म॒ण एक॑ होता । स य॒ज्ञः । स मे॑ ददातु प्र॒जां प॒शून्पुष्टिं॒ यशः॑ । य॒ज्ञश्च॑ मे भूया॒त् स्वाहा᳚ ॥ [[TODO:परिष्कार्यम्??]]
(ब्रह्मण इदं न मम)

ओं अ॒ग्निर्द्विहो॑ता । स भ॒र्ता । स मे॑ ददातु प्र॒जां प॒शून्पुष्टिं॒ यशः॑ । भ॒र्ता च॑ मे भूया॒त् स्वाहा᳚ ॥ [[TODO:परिष्कार्यम्??]]
(अग्नय इदं न मम)

[[53]]

ओं पृ॒थि॒वी त्रिहो॑ता । स प्र॑ति॒ष्ठा । स मे॑ ददातु प्र॒जां प॒शून्पुष्टिं॒ यशः॑ । प्र॒ति॒ष्ठा च॑ मे भूया॒त् स्वाहा᳚ ॥ [[TODO:परिष्कार्यम्??]]
(पृथिव्या इदं न मम)

ओम् अ॒न्तरि॑क्षं॒ चतु॑र् होता । स वि॒ष्ठाः । स मे॑ ददातु प्र॒जां प॒शून्पुष्टिं॒ यशः॑ । वि॒ष्ठाश्च॑ मे भूया॒त् स्वाहा᳚ ॥ [[TODO:परिष्कार्यम्??]]
(अन्तरिक्षायेदं न मम)

ओं वा॒युः पञ्च॑ होता । स प्रा॒णः । स मे॑ ददातु प्र॒जां प॒शून्पुष्टिं॒ यशः॑ । प्रा॒णश्च॑ मे भूया॒त् स्वाहा᳚ । [[TODO:परिष्कार्यम्??]]
(वायव इदं न मम)

ओं च॒न्द्रमा॒ष्षढ्ढो॑ता । स ऋ॒तून्क॑ल्पयाति । स मे॑ ददातु प्र॒जां प॒शून्पुष्टिं॒ यशः॑ । ऋ॒तव॑श्च मे क॒ल्पन्ताँ॒ स्वाहा᳚ ॥ [[TODO:परिष्कार्यम्??]]
(चन्द्रमस इदं न मम)

ओम् अन्नँ॑ स॒प्तहो॑ता । स प्रा॒णस्य॑ प्रा॒णः । स मे॑ ददातु प्र॒जां प॒शून्पुष्टिं॒ यशः॑ । प्रा॒णस्य॑ च मे प्रा॒णो भू॑या॒त् स्वाहा᳚ ॥ [[TODO:परिष्कार्यम्??]]
(अन्नायेदं न मम)

ओं द्यौर॒ष्टहो॑ता । सो॑ऽनाधृ॒ष्यः । स मे॑ ददातु प्र॒जां प॒शून्पुष्टिं॒ यशः॑ । अ॒ना॒धृ॒ष्यश्च॑ भूयासँ॒ स्वाहा᳚ ॥ [[TODO:परिष्कार्यम्??]]
(दिव इदं न मम)

ओम् आ॒दि॒त्यो नव॑होता । स ते॑ज॒स्वी । स मे॑ ददातु प्र॒जां प॒शून्पुष्टिं यशः॑ । ते॒ज॒स्वी च॑ भूयासँ॒ स्वाहा᳚ ॥ [[TODO:परिष्कार्यम्??]]
(आदित्यायेदं न मम)

ओं प्र॒जाप॑ति॒र्दश॑होता । स इ॒दँ सर्व᳚म् । स मे॑ ददातु प्र॒जां प॒शून्पुष्टिं॒ यशः॑ । सर्वं॑ च मे भूया॒त् स्वाहा᳚ ॥ [[TODO:परिष्कार्यम्??]]
(प्रजापतय इदं न मम)

[[54]]

सर्वप्रायश्चित्ताहुतयः

सर्वप्रायश्चित्ताहुतयः

प्राणान् आयम्य,

श्रीभगवदाज्ञया भगवत्प्रीत्यर्थं ब्रह्मकूर्चपञ्चगव्यहोमकर्मणि मध्ये सम्भावितमन्त्रतन्त्रदेवताविपर्यासन्यूनातिरेक(रिक्त)स्वराक्षरपदभ्रेषप्रायश्चित्तार्थं सर्वप्रायश्चित्ताहुतीर्होष्यामि; प्राणायामञ्च करिष्ये ।

ओं भूर्भुव॒स्सुव॒स्स्वाहा᳚ ॥ [[TODO:परिष्कार्यम्??]]
(प्रजापतय इदं न मम)

35 अनाज्ञातय्ँयदाज्ञातम् यज्ञस्य ...{Loading}...

अना᳚ज्ञात॒य्ँयदाज्ञा॑तम् ।
य॒ज्ञस्य॑ क्रि॒यते॒ मिथु॑ ।
अग्ने॒ तद॑स्य कल्पय ।
त्वꣳ हि वेत्थ॑ यथात॒थम् ।

38 पुरुषसम्मितो यज्ञः ...{Loading}...

पुरु॑षसम्मितो य॒ज्ञः ।
य॒ज्ञᳶ पुरु॑षसम्मितः ।
अग्ने॒ तद॑स्य कल्पय ।
त्वꣳ हि वेत्थ॑ यथात॒थम् ।

41 यत्पाकत्रा मनसा ...{Loading}...

यत्पा॑क॒त्रा मन॑सा दी॒नद॑ख्षा॒ न ।
य॒ज्ञस्य॑ म॒न्वते॒ मर्ता॑सः ।
अ॒ग्निष्टद्धोता॑ क्रतु॒विद्वि॑जा॒नन्न् ।
यजि॑ष्ठो दे॒वाꣳ ऋ॑तु॒शो य॑जाति ॥115॥

ओं त्वन्नो॑ अग्ने॒ वरु॑णस्य वि॒द्वान् दे॒वस्य॒ हेडोऽव॑ यासिसीष्ठाः ।
यजि॑ष्ठो॒ वह्नि॑तम॒श्शोशु॑चानो॒ विश्वा॒ द्वेषाँ॑सि प्रमु॑मुग्ध्य॒स्मत् स्वाहा᳚ ॥ [[TODO:परिष्कार्यम्??]] (अग्नीवरुणाभ्याम्)

ओं स॒त्वन्नो॑ अग्नेऽव॒मो भ॑वो॒ती नेदि॑ष्ठो अ॒स्या उ॒षसो॒ व्यु॑ष्टौ ।
अव॑ यक्ष्वनो॒ वरु॑णँ॒ ररा॑णो वी॒हि मृ॑डीकँ सु॒हवो॑ न एधि॒ स्वाहा᳚ ॥ (अग्नीवरुणाभ्याम्) [[TODO:परिष्कार्यम्??]]

[[55]]

व्याहृति-होमाः ४ ...{Loading}...
विश्वास-प्रस्तुतिः

(ओं) भूस्स्वाहा᳚ ॥ (अ॒ग्नय॑ +इ॒दं न म॑म)

(ओं) भुव॒स्स्वाहा᳚ ॥ (वा॒यव॑ +इ॒दं न म॑म)

(ओं) सुव॒स्स्वाहा᳚ ॥
(सूर्या॑य +इ॒दं न म॑म)

(ओं) भूर्भुव॒स्सुव॒स्स्वाहा᳚ ॥
(प्र॒जाप॑तय +इ॒दं न म॑म)

मूलम्

(ओं) भूस्स्वाहा᳚ ॥ (अग्नय इदं न मम)

(ओं) भुव॒स्स्वाहा᳚ ॥ (वायव इदं न मम)

(ओं) सुव॒स्स्वाहा᳚ ॥
(सूर्याय इदं न मम)

(ओं) भूर्भुव॒स्सुव॒स्स्वाहा᳚ ॥
(प्रजापतय इदं न मम)

ओं विष्ण॑वे॒ स्वाहा᳚ ॥ [[TODO:परिष्कार्यम्??]] (विष्णवे परमात्मन इदं न मम)

प्राणायामम् । परिषेचनम् ।

अदि॒तेऽन्व॑मँस्थाः, अनु॑म॒तेऽन्व॑मँस्थाः, सर॑स्व॒तेऽन्व॑मँस्थाः, देव॑ सवितः॒ प्रासा॑वीः ॥ [[TODO:परिष्कार्यम्??]]

अग्ने॒ नय॑ सु॒पथा॑ रा॒ये अ॒स्मान् विश्वा॑नि देव व॒युना॑नि वि॒द्वान् ।
यु॒यो॒ध्य॑ स्मज्जु॑हुरा॒णमेनो॒ भूयि॑ष्ठां ते॒ नम॑उक्तिं विधेम ॥ [[TODO:परिष्कार्यम्??]]

इति अग्न्युपस्थानम्

मन्त्रहीनं - हुताशन ...{Loading}...

(अग्नये नमः)

विश्वास-प्रस्तुतिः

मन्त्रहीनं क्रियाहीनं
भक्तिहीनं हुताशन ।
यद्धुतं तु मया देव
परिपूर्णं तदस्तु ते ॥

मूलम्

मन्त्रहीनं क्रियाहीनं
भक्तिहीनं हुताशन ।
यद्धुतं तु मया देव
परिपूर्णं तदस्तु ते ॥

प्रायश्चित्तान्यशेषाणि ...{Loading}...
विश्वास-प्रस्तुतिः

प्रायश्चित्तान्य् अशेषाणि
तपः कर्मात्मकानि वै ।
यानि तेषाम् अशेषाणां
कृष्णानुस्मरणं परम् ॥

मूलम्

प्रायश्चित्तान्यशेषाणि
तपः कर्मात्मकानि वै ।
यानि तेषामशेषाणां
कृष्णानुस्मरणं परम्॥

(कृष्ण कृष्ण कृष्ण॥)

पञ्चगव्यप्राशनश्लोकः

यत् त्वगस्थिगतं पापं देहे तिष्ठति मामके ।
प्राशनं ब्रह्मकूर्चस्य (पञ्चगव्यस्य) दहत्वग्निरिवेन्धनम् ॥

इति मन्त्रेण प्राश्य, आचम्य, सात्त्विकत्यागं कुर्यात् ॥

॥ ब्रह्मकूर्चपञ्चगव्यविधिः समाप्तः ॥

[[56]]