३२ वपोद्धरणम्

इषे त्वा वपामुत्खिद्य । घृतेन द्यावापृथिवी प्रोर्ण्वाथाम् वपया द्विशूलां प्रच्छाद्य । ऊर्जे त्वा तनिष्ठेऽन्तत एकशूलयोपतृणत्ति । देवेभ्यः कल्पस्व अभिमन्त्र्य । देवेभ्यश्शुन्धस्व अद्भिरवोक्ष्य । देवेभ्यश्शुम्भस्व स्वधितिना वपां निमृज्य । अच्छिन्नो रायस्सुवीरोऽग्नीषोमाभ्यां त्वा जुष्टामुत्कृन्तामि उत्कृन्तति । अप उपस्पृश्य । मुष्टिना शमिता वपोद्धरणमपिधायास्त आ वपया होमात् । प्रत्युष्टꣳ रक्षः प्रत्युष्टा अरातयः शामित्रे वपां प्रतितप्य । नमस्सूर्यस्य सन्दृशे आदित्यमुपस्थाय । उर्वन्तरिक्षमन्विहि अभिप्रव्रजति । आहवनीयादाहृतमुल्मुकमादायाग्नीध्रः पूर्वः प्रतिपद्यते । वपाश्रपणी पुनरन्वारभते यजमानः । आग्नीध्रः उल्मुकैकदेशमाहवनीये प्रत्यपिसृजति ।