०१ प्रस्तावना

पञ्चवर्षेभ्यः पूर्वम् अनुक्रमणिकासहितं प्रयोगचन्द्रिकाख्यं ग्रन्थं प्राचीकशम् ।
तत्र चत्वारिंशत्-संस्कारान्तर्गतानां
गर्भाधान-पुंसवन-सीमन्तोन्नयन-जातकर्म-नामकरणान्नप्राशन–
चौलोपनयन–वेद-व्रत–स्नान-विवाह–पञ्च-महायज्ञ–पाक-यज्ञादीनाम्
अनुष्ठाने वर्तमानानां संस्काराणां प्रयोगक्रमः समन्त्रकः प्रतिपादितोऽस्ति ।
स चानुष्ठातॄणाम् अनुष्ठापयितॄणां चात्यन्तसहायकारी प्रचरति ।
प्रयोगचन्द्रिकाकाराः श्रीमन्नैध्रुव-काश्यपान्वय-जन्मानः श्रीवीरराघवाचार्याः ।
अनुक्रमणिकाकाराश्च प्रयोगचन्द्रिकाकृद्-भागिनेय-पुत्राः वङ्गीपुर-वंश्याः श्रीनिवासाचार्याः ।

तैरेव वीरराघवाचार्यैः मरणादिश्राद्धान्तक्रियाकलाप-प्रयोग-प्रतिपादकः प्रयोग-दर्पणाख्यो ग्रन्थो व्यरचि ।
तद्-भागिनेय-पुत्रैः श्रीनिवासाचार्यैर् एव प्रयोग-दर्पणानुक्रमणिकाख्यो ग्रन्थो निरमायि ।
और्ध्व-देहिक-संस्कार-क्रम-प्रतिपादको ऽयं ग्रन्थः सर्वोपजीव्यः ।
पूर्व-प्रयोगापराभिधान-चत्वारिंशत्-संस्कारान्तर्गत-गर्भाधानादि-स्थालीपाकान्त-क्रियाकलाप-प्रयोग-कुशलाः बहुलं लभ्येरन् ।
अपर-प्रयोगापराभिधान+और्ध्वदेहिक-क्रियाकलापानुष्ठापकास् तु विरलाः…
एतं प्रयोग-दर्पणं कण्ठस्थीकृत्य पुरोहिताः और्ध्व-देहिक-क्रिया-जातम् अनुष्ठापयन्ति ।+++(5)+++

ग्रन्थोऽयं शत-संवत्सरेभ्यः प्राक् तेलुगु-लिप्यां ग्रन्थ-लिप्यां च मुद्रापितः ।
अधुना दुर्लभः ।
लभ्यमानोऽपि शीर्णप्रायः पठितुम् अशक्यश् च संवृत्तः ।

[[ii]]

अतः पुरोहिताः सर्वेऽपि देवनागर-लिप्याम् अस्य मुद्रणम् उपकारकं स्याद् इति प्रार्थयन्त ।
तेषां प्रार्थनाम् अनुसृत्य विश्व-प्रसिद्ध-पाण्डित्यैः पण्डित-राजैः डि. टि. ताताचार्यस्वामिभिः
अनुक्रमणिका-सहितस्य प्रयोग-दर्पणस्य
श्री उ. वे.वीरापुरं वेङ्कट-दीक्षित-हस्तेन देवनागर-लिप्यां प्रतिलिपिं कारयित्वा
तत्प्रतिः स्थापिता ।
तैश् चिकीर्षितम् अपि मुद्रणं न सम्पादितम् ।

अहं तत्-प्रतिं श्रीवेङ्कट-दीक्षितात् स्वीकृत्य
आवश्यक-शोधनं कृत्वा
मुद्रणार्थ-द्रविण-साहाय्यार्थं वर्ष-त्रयात् पूर्वं
तिरुमल-तिरुपति-देवस्थानकार्यालये प्रार्थनापत्रं प्राहिणवम् ।

मदीयं प्रार्थनापत्रं सम्बद्ध-समितौ निक्षिप्य
द्रव्यसाहय्यं देवस्थानाधिकारिणः समकल्पयन् ।
अत एवेदानीं मुद्रणम् अस्य अनुक्रमणिका-सहितस्य प्रयोगदर्पणस्य सम्पद्यते ।

सत्य-सायि-मुद्रणालयेऽस्य मुद्रणं कारितम् ।
तत्र स्वरचिह्नानाम् अभावात् सस्वरं मन्त्राणां मुद्रणं न कृतम् ।+++(5)+++
अथापि मन्त्रज्ञानां न भविष्यति क्लेशः ।

अपूर्वतया देवनागराक्षरैर् मुद्रितम् इदं पुस्तकं दृष्ट्वा
प्राप्य च सर्वे सन्तुष्येयुर् इति विश्वसिमि ।
श्री उ. वे. डि. टि. स्वामिनाम् अन्तरात्मा प्रसन्नो भविष्यति ।

प्रतिलिपि-कर्तॄणां वेङ्कट-दीक्षितानां,
द्रव्य-साहाय्यम् उपकल्पितवतां तिरुमल-तिरुपति-देवस्थानाधिकृतानां च
मदीयं हार्दं कार्तज्ञ्यम् आविष्करोमि ।
मुद्रणकर्त्रे सत्य-साईमुद्रणालयाधिकृताय श्रेयांसि भूयांस्याशासे ।

5-4-94
तिरुपतिः
एन्. एस्. रामानुजताताचार्यः