११ विवाहाद्यग्निनाशे

औपासनारम्भशेषहोमयोर्मध्ये अग्निनाशे त्रिरात्रमध्ये उपनयनाग्निनाशे दशरात्रमध्ये जातकर्माग्निनाशे वा क्रमेण विवाहाग्निसन्धानमुपनयनाग्निसन्धानं जातकर्माग्निसन्धानं करिष्ये इति सङ्कल्प्य ‘अपहता असुराः’ ‘शन्नो देवीः’ इति द्वाभ्यां तद्भस्म प्रोक्ष्य ‘अयं ते योनिर्ऋत्विय’ इति समिधि तद्भस्म समारोप्य मथिताग्नौ विवाहश्चेत् मथिताग्निं, श्रोत्रियागारात् आहृताग्नौ विवाहश्चेत् श्रोत्रियागारादाहृताग्निं जातकर्मोपनयनयोः लौकिकाग्निं प्रतिष्ठाप्य

[[34]]

‘आजुह्वानः’ ‘उद्बुध्यस्वे’ति द्वाभ्यां लौकिकाग्नौ तां समिधमाधाय परिस्तीर्याज्यं दर्वीं च संस्कृत्य परिषिच्य ‘अयाश्च’ ‘अग्निर्होते’ति द्वाभ्यां ‘ब्राह्मण एक होता’ इत्यनुवाकेन दशभिः ‘मनोज्योतिः’ ‘यन्म आत्मनोमिन्दा’ ‘पुनरग्नि’रिति तिसृभिः ‘भूरग्नये’ ‘भूरन्नमग्नये’ ‘भूरग्नये च’ इत्यनुवाकत्रयेण प्रतिस्वाहाकारं व्यस्ताभिः समस्ताभिः व्याहृतिभिः अनाज्ञातत्रयेण च हुत्वा परिषिच्य तत्तत्तन्त्रशेषं समापयेत् ।