+१४ समावर्तनम्

स्नातकर्म करिष्यमाणः सूर्योदयात्पूर्वं व्रजं प्रविश्य अन्तर्लोम्ना चर्मणा व्रजद्वारं प्रच्छाद्य आसायं तत्रैव वसेत् । अस्मिन् अहनि बहिरातपे न निर्गच्छेत् ।

[[23]]

मध्यन्दिने स्नातकर्म करिष्ये इति सङ्कल्प्य अग्निप्रतिष्ठादिपात्रसादनान्ते पालाशीं समिधं कटं क्षुरं शीतमुष्णं च जलं यवान् शकृत् दर्भान् औदुम्बरं दन्तकाष्ठं स्नानीयं नवं वस्त्रद्वयं चन्दनं सोपधानं सूत्रप्रोतं सौवर्णं मणि बादरं मणिं कुण्डलद्वयं स्रजम् आञ्जनमादर्शनमुपानहो छत्रं वैणवं दण्डं च सादयित्वा आज्यभागान्ते पालाशीं समिधम् आज्याभ्यक्तां ‘इमँ स्तोमम्’ इत्येतया अग्नावाधाय अग्नेः पश्चात् कट एरकायां वा उपविश्य ‘त्र्यायुषम्’ इत्येतया क्षुरमभिमन्त्र्य ‘शिवो नामासि’ इति कस्मैचित् मन्त्रविदे प्रदाय तेन चौलवत् दिग्वपने कृते नापितेन सर्वाङ्गवपनं कारयित्वा स्नात्वा व्रजस्य पश्चिमार्ध उपविश्य मौञ्जीं विसृज्य कस्मैचित् ब्रह्मचारिणे प्रयच्छेत् । स ताम् ‘इदमहममुष्ये’ति औदुम्बरमूले दर्भस्तम्बे वा छादयेत् । अथोष्णा अपः शीतासु आनीय ताभिः ‘आपो हिष्ठा मयोभुव’ इति तिसृभिः ‘हिरण्यवर्णाः शुचयः पावकाः’ इति तिसृभिः स्नात्वा ‘अन्नाद्याय व्यूहध्वम्’ इत्यौदुम्बरेण काष्ठेन प्रादक्षिण्येन दन्तधावनं कृत्वा धात्रीपिष्टादिना स्नानीयेन देहं शिरश्चानुलिप्य स्नात्वा ‘सोमस्य तनूरसि’ इत्यहतं वासः परिधाय द्विराचम्य उपवीततद्वयं धृत्वा ‘नमो ग्रहाय च’ इत्येतैः कस्तूरिकादिभिः गन्धद्रव्यैः वासितं चन्दनं देवताभ्यः प्रदाय ‘अफ्सरस्सु च यो गन्धः’ इत्येतया आत्मानमनुलिप्य वज्रवैडूर्यादिना उभयतः परिगृहीतसूत्रप्रोतं सौवर्णमणिम् ‘इयमोषधे त्रायमाणा’ इत्येतया उदपात्रे त्रिः प्रदक्षिणमावृत्य ‘अपाशोस्युरोम’ इत्येतया कण्ठे तं मणिमाबद्ध्य सूत्रप्रोतं बादरं मणिं पूर्ववत्तूष्णीं त्रिरावृत्य सव्ये पाणी बध्नीयात् । अथ मन्त्रवित् कश्चित् ब्राह्मणः ‘रेवतीस्त्वेति’ द्वाभ्यां नवं वस्त्रमभिमन्त्र्य ‘या अकृन्तन्’ इति तिसृभिः उत्तरीयं धारयित्वा धृतोत्तरीयं ‘परीदं वास’ इत्येतया अनुमन्त्रयेत । अथ उत्तरीयस्य दशायां कुण्डले बध्वा ते दर्व्याम् अग्रे स्थापयित्वा सव्येन हस्तेन तयोरुपरि आज्यमानीय तेन ‘आयुष्यं वर्चस्यम्’ इत्यष्टाभिः प्रतिमन्त्रं हुत्वा कुण्डले अपनीय जयाद्यग्न्युपस्थानान्तं कृत्वा ‘आयुष्यं वर्चस्यम्’ इत्यष्टाभिरेव दक्षिणे कर्णे पुनश्च ताभिरेव सव्ये कर्णे क्रमेण कुण्डले धृत्वा

[[24]]

‘शुभिकेशिर’ इति द्वाभ्यां शिरसि स्रजमाबध्य ‘यदाञ्जनं’ ‘मयि पर्वतपूरुष’मिति द्वाभ्याम् अक्ष्णोः युगपत् अञ्जनं धृत्वा ‘यन्मे वर्चः’ इत्येतया आदर्शमवेक्ष्य ‘प्रतिष्ठेस्थ’ इत्युपानहौ युगपत् धृत्वा तूष्णीं छत्रमादाय ‘प्रजापतेश्शरणमसी’त्यात्मानम् आच्छाद्य ‘देवस्यत्वे’त्यादिना निवारयेत्यन्तेन शिरःप्रमाणम् ऋजुं सत्वचम् असुषिरं युग्मपर्वयुक्तं कल्माषं काकपृष्ठरहितं वैणवं दण्डमादाय आनक्षत्रोदयात् मौनी भूत्वा उदितेषु नक्षत्रेषु प्राचीमुदीचीं वा दिशम् उपनिष्क्रम्य ‘देवीः षडुर्वीः’ इति प्रागाद्यधरान्तं षड्दिशमुपस्थाय ‘माहास्महि’ इति नक्षत्राणि चन्द्रमसं च युगपदुपस्थाय मित्रेण सहालोच्य विवाहं संन्यासं वा कुर्यात् ।