०३ वस्त्रादि

समिद्-होमः

(सू - स्नातम् अग्नेर् उपसमाधानाद्य्-आज्य-भागान्ते
पालाशीं समिधम्, उत्तरयाऽऽधाप्य)

अग्नेर् उपसमाधानादि।
पात्रप्रयोगकाले कपर्दी -

पात्रप्रयोगे तु कुशाम्बु-कूर्च-
वस्त्राऽश्म-दण्डाजिन-मेखलाश् च।
दैव्यानि पात्राणि नियुज्य
पश्चाद् युञ्जीत चामूनि सहोपनेता ॥

क्रमशः दर्व्यादि-षट्-पात्राणि द्वन्द्वं न्यञ्चि सादयित्वा
ऽनन्तरं दर्भान्, जलं,
कूर्चः, दीक्षा-वस्त्रम्,
अश्म, पलाश-दण्डः,
अजिनं, मेखला,
इत्य् एतानि पात्राणि सह सादयित्वा,

आज्य-भागान्ते,
उपनेता आज्याभ्यक्तां पालाशीं समिधम् आदाय

०१ आयुर्दा देव ...{Loading}...

आ॒यु॒र्दा दे॑व ज॒रसं॑ गृणा॒नो
घृ॒त+++(√ क्षरणदीप्त्यो)+++-प्र॑तीको+++(=अवयवो)+++ घृ॒त-पृ॑ष्ठो अग्ने ।
घृ॒तं पिब॑न्न् अ॒मृत॒ञ् चारु॒ गव्यं॑
पि॒तेव॑ पु॒त्रञ् ज॒रसे॑ नये॒मम् ।

इति मन्त्रेण
कुमारस्य हस्ते दत्वा

“आधेहि" इति अग्नाव् आधापयेत् ॥

(अत्र न स्वाहाकारः नोद्देश्य-यागश् च)
तां समिधं कुमारः तूष्णीम् आदध्यात् ।

तमिऴ्

தரிக்கச் செய்ய வேண்டும். இந்த மந்திரத்தையும் குமாரனுக்குச் சொல்லி வைத்து சுத்தாசமநம் செய்து வைத்து பரிஷேசன, ஆபோசன ப்ராணாஹுதி உத்தராபோசன ஸஹிதமாக குமார போஜனம் செய்து வைத்து ஆசமன த்வயத்தையும் செய்து வைக்க வேண்டும். ஆசார்யன் திக்வபந மந்த்ரங்களைச் சொல்லி ஸ்னான ஸ்தானத்தில் குமாரனுக்கு ப்ரோக்ஷணம் செய்ய வேண்டும். [[TODO::परिष्कार्यम्??]]

अश्मारोपणम्

[[72]]

(सू - उत्तरेणाग्निं
दक्षिणेन पदा ऽश्मानम् आस्थापयति, आतिष्ठेति ।)

०१ आतिष्ठेममश्मानमश्मेव त्व२म् ...{Loading}...

आति॑ष्ठे॒मम् अश्मा॑न॒म्
अश्मे॑व॒ त्व२ꣳ स्थि॒रा+++(रो पुंसि)+++ भ॑व ।
अ॒भिति॑ष्ठ पृतन्य॒तस्+++(=पृतनाकामान्)+++
सह॑स्व पृतनाय॒तः+++(=पृतनाकामान्)+++ ।+++(र५)+++

अग्नेर् उत्तरतः स्थापितम् अश्मानं
कुमारं प्राङ्मुखम् आस्थापयति दक्षिणेन पदा ।

प्रथमतो दक्षिणेन पदाऽऽरोप्यानन्तरं
सव्येन पदाऽपि आरोपणं कर्तव्यम् ।
आहत्य उभय-पदा ऽपि +आरोहणं सिद्धं भवति +अत्र।

आस्थापनं नाम -
ईषत्-स्पर्शन-मात्रम् एवेति गृह्यरत्ने +उक्तम् ।
तथापि अस्मदीय-सूत्रे
“अश्मानम् आस्थापयत्य् आतिष्ठेति” इत्य् उक्त्वा
वस्त्र-मौञ्ज्य्-अजिन-धारणानन्तरं
“उत्तरया ऽवस्थाप्य” इत्य् उक्तत्वात्
ईषत्-स्पर्शनं कृत्वा,
तत्रैवाधस्ताद् वर्तने इदानीम् अवस्थापन-कार्यस्याभावात्,
सूत्रोक्तावस्थापनस्य वैयर्थ्यं स्यात् ।
अतः अश्मन उपर्य् एव
‘‘आगन्त्रेति’’ अवस्थापन-पर्यन्तं वर्तितव्यम् ।

वस्त्रम्

(सू - वासस् सद्यः-कृत्तोतं, उत्तराभ्याम् अभिमन्त्र्य)

दीक्षा-वस्त्रम् आदाय,

०३-०४ रेवतीस्त्वा व्यक्ष्णन्कृत्तिकाश्चाकृन्त२म् ...{Loading}...

+++(नक्षत्रेषु)+++ रे॒वती॑स् त्वा॒ व्य॑क्ष्ण॒न्+++(=व्यध्वंसयन् [मेषादिभ्यः])+++
कृत्ति॑का॒श् चाकृ॑न्त२ꣳस् त्वा ।
धियो॑ ऽवय॒न्न्, अव॒ ग्न+++(=देवता)+++ आ॑वृञ्जन्त्+++(=अच्छिन्दन्)+++
स॒हस्र॒म् अन्ताꣳ॑+++(=दशासूत्राणि)+++ अ॒भितो॑ अयच्छन्न्

दे॒वीर् दे॒वाय॑ +++(वस्त्र)+++परि॒धी+++(धौ)+++ स॑वि॒त्रे ।
म॒हत् तद् आ॑साम् अभवन् महित्व॒नम्+++(=महत्वम्)+++ ।+++(र४)+++

इति वस्त्रम् अभिमन्त्र्य,
(सू उत्तराभिस् तिसृभिः परिधाप्य)

तमिऴ्

பாத்ர ஸாதனத்தில் தைவிகமான பாத்ரங்களை இரட்டை - இரட்டையாக ஸாதனம் செய்து, தர்ப்பங்கள், ஜலம் கூர்ச்சம், தீக்ஷா வஸ்திரம், பாராங்கல், தண்டம் அஜிநம் மேகலை இவைகளைக்குப்பலாக ஸாதனம் செய்ய வேண்டும்.

அக்னிப்ரதிஷ்டாபனாதி ஆஜ்ய பாகாந்தம் செய்து ஒரு பலாச ஸமித்தை நெய்யில் தோய்த்து குமாரனிடம் கொடுத்து விட்டு “ஆயுர்தாதேவ + நயேமம்” என்கிற மந்திரத்தைச் சொல்லி, அந்தக் குமாரனைப் பார்த்து “ஆதேஹி” என்று ஆசார்யன் சொன்னதும் குமாரன் அந்த ஸமித்தை அக்னியில் சேர்க்க [[TODO::परिष्कार्यम्??]]

[[73]]

०५ या अकृन्तन्नवयन् ...{Loading}...

या अकृ॑न्त॒न्न् अव॑य॒न्॒ या अत॑न्वत॒
याश् च॑ दे॒वीर् +++(वस्त्रस्य)+++ अन्ता॑न् अ॒भितो॑ ऽददन्त+++(←दद् दाने)+++ ।
तास् त्वा॑ दे॒वीर् ज॒रसे॒ संव्य॑य॒न्त्व्
आयु॑ष्मान् इ॒दं परि॑धत्स्व॒ वासः॑ ।

०६ परिधत्त धत्त ...{Loading}...

परि॑धत्त धत्त॒ वास॑सैनꣳ
श॒तायु॑षं कृणुत दी॒र्घम् आयुः॑ ।
बृह॒स्पतिः॒ प्राय॑च्छ॒द् वास॑ ए॒तत्
सोमा॑य॒ राज्ञे॒ परि॑धात॒वा उ॑ ।

०७ जराङ् गच्छासि ...{Loading}...

ज॒रां ग॑च्छासि॒, परि॑धत्स्व॒ वासो॒
भवा॑ कृष्टी॒नाम्+++(=मनुष्याणां)+++ अ॑भिशस्ति॒-पावा॑+++(ता)+++ ।
श॒तञ् च॑ जीव श॒रद॑स् सु॒वर्चा॑
रा॒यश् च॒ पोष॒म् उप॒ संव्य॑यस्व +++(वासो यथा रायस्पोषं भवति तथा)+++।

इति परिधाप्य

(सू परिहितम् उत्तरया ऽनुमन्त्रयते)

०८ परीदं वासो ...{Loading}...

परी॒दं वासो॒ अधि॑+++(+अ)+++धास् स्व॒स्तये
ऽभू॑र् आपी॒नाम्+++(=आप्तानां)+++ अ॑भिशस्ति॒-पावा॑+++(ता!)+++ ।
श॒तञ् च॑ जीव श॒रदः॑ पुरू॒चीर्+++(=बहुगतीः)+++
वसू॑नि चा॒र्यो वि॑भजासि॒ जीवन्न्॑

इति परिहितं कुमारमनुमन्त्रयते ॥

मेखला

(सू - मौञ्जीं मेखलां तृवृतां त्रिः प्रदक्षिणं परिवीय)

०९ इयन् दुरुक्तात्परिबाधमाना ...{Loading}...

इ॒यं दुरु॑क्तात् परि॒बाध॑माना॒
शर्म॒ वरू॑थं+++(=वरणीयं)+++ पुन॒ती न॒ आगा॑त्
प्रा॒णा॒पा॒नाभ्यां॒ बल॑म् आ॒भर॑न्ती
प्रि॒या दे॒वानाꣳ॑ सु॒भगा॒ मेख॑ले॒यम् ।

१० ऋतस्य गोप्त्री ...{Loading}...

ऋ॒तस्य॑ गो॒प्त्री, तप॑सः पर॒स्+++(=प्र)+++पी+++(=पात्री)+++
घ्न॒ती रक्ष॒स् सह॑माना॒ अरा॑तीः ।
सा न॑स् सम॒न्तम् अनु॒ परी॑हि भ॒द्रया॑
भ॒र्तार॑स्+++(=बिभ्राणाः)+++ ते मेखले॒ मा रि॑षाम ।

इति एतन्-मन्त्र-द्वयेन
कुमारस्य कटि-तटे मौञ्जीं त्रिवृतां
त्रिः प्रदक्षिणं परिधापयेत्,
नाभि-देशे ग्रन्थिर् यथा भवति
तथा बध्नीयात्
एतौ मन्त्रौ कुमारं वाचयेत् ।

तमिऴ्

கிடையாது. அக்னிக்கு பாராங்கல்லில் வேண்டும் (உத்தேச்ய த்யாகம் வடவண்டை போடப்பட்டிருக்கும் “ஆதிஷ்டேமம் + பிருதநாயத:” என்கிற மந்திரத்தைச் சொல்லி, முதலில் வலது காலைத் தூக்கி வைத்து ஏறச் சொல்லி, பிறகு இரண்டு கால்களாலுமே ஏறியிருக்க வேண்டும். “ரேவதீஸ்த்வா + மஹித்வநம்” என்கிற இரு மந்திரங்களால் தீக்ஷ£ வஸ்திரத்தை அபிமந்த்ரணம் செய்து “யா அக்ருந்தந்; + உபஸம்வ்யயஸ்வ" [[TODO::परिष्कार्यम्??]]

[[74]]

अत्र कपर्दी -

मौञ्ज्य्-अजिनावस्थापन-
प्रोक्षणोत्थापनानि तु ।
समन्त्रमेतान्य् आचार्यः
पूर्वं कृत्वाऽथ वाचयेत् ॥

अजिनम्

(सू - अजिनम् उत्तरमुत्तरया)

११ मित्रस्य चक्षुर्धरुणम् ...{Loading}...

मि॒त्रस्य॒ चक्षु॒र्, धरु॑णं॒ बली॑य॒स्
तेजो॑ यश॒स्वि स्थवि॑र॒ꣳ॒ समि॑द्धम् ।
अ॒ना॒ह॒न॒स्यं+++(=अधूर्तयोग्यं)+++ वस॑नञ् जरि॒ष्णु
परी॒दं वा॒ज्य्+++(=अन्नवत्)+++ अजिन॑न् दधे॒ ऽहम् ॥ (२)

कृष्णाजिनम् उत्तर-लोमकं धारयित्वा
एतं मन्त्रम् अपि वाचयेत् ।