०८ नामकरणम्

अथ नामकरणम्

पिता माता च अमुक-गोत्रस्यामुकनक्षत्रे जातस्य कुमारस्य नाम धास्यावह इति सङ्कल्प्य, कुमारस्य दक्षिणे कर्णे शर्मान्तं नाम ब्रूयातां विष्णुशर्मेति । ततोऽभ्युदयं पुण्याहं च कुर्यात् । अस्मिन् पुण्याहे मध्यमे स्वस्तिवाचने अमुक-शर्मणे स्वस्ति भवन्तो ब्रुवन्तु अमुक-शर्मणे स्वस्तीति प्रार्थनाप्रतिवचने कुर्युः ।