३८ चात्वालकरणं, उत्तरवेदिकरणं च

उत्तरस्माद्वेद्यंसादुदक्प्रक्रमे चात्वालः । तमुत्तरवेदिवत्तूष्णीं शम्यया परिमित्य देवस्य त्वा — हस्ताभ्यामाददेऽभ्रिरसि नारिरसि अभ्रिमादाय । परिलिखितꣳ रक्षः परिलिखिता अरातय इदमहꣳ रक्षसो ग्रीवा अपि कृन्तामि योऽस्मान्द्वेष्टि यं च वयं द्विष्म इदमस्य ग्रीवा अपि कृंतामि त्रिः प्रदक्षिणं परिलिख्य । तूष्णीं जानुदघ्नं त्रिवितस्तं वा खात्वोत्तरवेद्यर्थान्पांसून् हरति विदेरग्निर्नभो नामाग्ने अङ्गिरो योऽस्यां पृथिव्यामस्यायुषा नाम्नेहि यत्तेऽनाधृष्टं नाम यज्ञियं तेन त्वाऽऽदधे । सिꣳहीरसि महिषीरसि उत्तरवेद्यां निवपति । एतेनैव विदेरग्निर्नभो नामाग्ने अङ्गिरो यो द्वितीयस्यां पृथिव्यामस्यायुषा नाम्नेहि यत्तेऽनाधृष्टं नाम यज्ञियं तेन त्वाऽऽदधे इति द्वितीयम् । विदेरग्निर्नभो नामाग्ने अङ्गिरो यस्तृतीयस्यां पृथिव्यामस्यायुषा नाम्नेहि यत्तेऽनाधृष्टं नाम यज्ञियं तेन त्वाऽऽदधे इति तृतीयम् । तूष्णीं चतुर्थं हृत्वा । सिꣳहीरसि महिषीरसि इति निवपति । उरु प्रथस्वोरु ते यज्ञपतिः प्रथताम् प्रथयित्वा । ध्रुवासि शम्यया संहत्य । देवेभ्यः कल्पस्व अभिमन्त्र्य । देवेभ्यश्शुन्धस्व अद्भिरवोक्ष्य । देवेभ्यश्शुम्भस्व सिकताभिरवकीर्य । प्रोक्षणीशेषमुत्तरत उत्तरवेद्यै निनीय । आपो रिप्रं निर्वहत स्फ्येनोदीचीमेकस्फ्यां निस्सार्य । विभ्राड्बृहत्पिबतु सोम्यं मध्वायुर्दधद्यज्ञपतावविह्रुतम् । वातजूतो यो अभिरक्षति त्मना प्रजाः पिपर्ति बहुधा विराजति उत्तर वेद्या अन्तान्थ्संमृशति । अथास्या मध्ये प्रादेशमात्रीं गोपदमात्रीमश्वशफमात्रीं वोत्तरनाभिं चतुस्स्रक्तिं कृत्वा । चतुश्शिखण्डे युवती कनीने घृतप्रतीके भुवनस्य मध्ये । तयोर्देवा अधि सं वसन्त उत्तमे नाक इह मादयन्ताम् उभे अभिमन्त्र्य । इन्द्रघोषस्त्वा वसुभिः पुरस्तात्पातु पुरस्तात्प्रत्यङतिष्ठन्नुत्तरवेदिं प्रोक्षति । मनोजवास्त्वा पितृभिर्दक्षिणतः पातु दक्षिणतः । प्रचेतास्त्वा रुद्रै: पश्चात्पातु पश्चात् । विश्वकर्मा त्वादित्यैरुत्तरत: पातु उत्तरत: । त्वष्टा त्वा रूपैरुपरिष्टात्पातु मध्यम् । प्रोक्षणीशेषं दक्षिणत उत्तरवेद्यै निनयेत् शुचा त्वार्पयामि पाप्मन् । आपो रिप्रं निर्वहत । पूर्ववदेकस्फ्यां दक्षिणतो निस्सार्य । ]

वेदिकरणकाले ब्रह्मा दक्षिणत आस्ते यजमानश्च । उदुम्बरशाखाभिः प्लक्षशाखाभिर्वा प्रच्छन्ना वसति । अत्र त्रिस्तनव्रतं यजमानाय प्रयच्छति । ततो गार्हपत्ये दीक्षितस्य व्रतं श्रपयतीत्यादि नाभ्यभिमर्शनान्तम् । या ते अग्ने रुद्रिया तनूः इति व्रतयति । ततो यूपकर्म । उरु विष्णो विक्रमस्वेत्यादि चषालकरणान्तं पशुवत् ।