+०२ अपर-प्रयोग-दर्पणः

Source: TW

विस्तारः (द्रष्टुं नोद्यम्)

पठन-सौकर्याय
क्रमः किञ्चिद् व्यत्यस्तो विषयानुरोधेन।
यत्र क्रमे व्यत्यासः कृतः, तत्र …-चिह्नम् प्रयुक्तम्।

॥ श्रीः ॥

प्रयोगदर्पणः

श्रीमन्नैध्रुवकाश्यपान्वयजनुषा श्रीवीर-राघवसूरिणा विरचितः

(श्रीनिवासाचार्यकृतया अनुक्रमणिकया सहितः)
एन्. एस्. रामानुजताताचार्येण संपादितः

श्रीमद्भिः कवि-कथक-कण्ठी-रव–गुरुभिः
सर्व-तन्त्र-स्वतन्त्रोभय-वेदान्ताचार्यैः
श्रीमद्-वेङ्कट-नाथैः
“विरचित-निज-मत-तिरस्कार-विगमा निरातङ्का” इति बिरुदानां
श्रीमद्-भगवद्-रामानुज-भाष्ये “पूर्वाचार्याः संचिक्षिपुर्” इति पूर्वाचार्यत्वेन प्रसिद्धानां
विशिष्टाद्वैत-सिद्धान्त-भाष्यकाराणां
नैध्रुव-माडभूषि-आळ्वान् इत्य् अपरनाम-धेयानां श्रीमद्-द्रमिडाचार्याणां वंश्य-नैध्रुव-श्रीनिवासार्य-सूनुना वीर-राघवेण
श्रीराम-चन्द्र-प्रसादेन विरचितम्॥

श्रीः
॥ हरिः ओम् ॥
॥ श्रीमते हयग्रीवाय नमः ॥

प्रयोगदर्पणम्

ससीतं सानुजं रामं
सम्प्रणम्य सहस्रशः ।
प्रयोगदर्पणं सम्यक्
साम्प्रतं क्रियते मया ॥
श्रीधराद्य्-अस्मद्-आचार्य-
पर्यन्तान् प्रणमन् गुरून् ।
प्रयोग-दर्पणं कुर्वे
दृश्यते येन संस्फुटम् ॥