०४ बीज-व्यवस्था

व्रीहि-यव-माष-तिल-मुद्ग-सर्षपान्
पात्रे संसृज्य
क्षीरेण प्रक्षाल्य

ब्राह्मणैस् सह
“या जाता” इत्य् ओषधि-सूक्तेनाभिमन्त्रयते ।

तमिऴ्

பாலிகையிலும் ‘யோஸ்ய கௌஷ்ட்ய’ என்கிற இரண்டு மந்திரங்களால் தென்னண்டை பாலிகையிலும், “இமம்மேவருண” என்கிற இரண்டு மந்திரங்களினால் மேலண்டை பாலிகையிலும், “ஸோமோதேனும்” என்கிற இரண்டு மந்திரங்களினால் வடவண்டை பாலிகையிலும் மும்மூன்று தடவை பீஜாவாபம் செய்ய வேண்டும். பிறகு ஐந்து, ஏழு என்கிற க்ரமத்தில் ஒற்றைப் படை ஸ்த்ரீகளைக் கொண்டு பாலிகைகளுக்குத் தீர்த்தம் சேர்க்க வேண்டும். இந்த அங்குரார்ப்பணம் சௌளம்- உபநயநம் விவாஹம் இவைகளில் ஆரம்பத்திலேயே செய்ய வேண்டும். ஒரே ஸமயத்தில் சௌளம்-உபநயனம் இரண்டும் சேர்ந்து நடந்தால் இரண்டின் அங்கமாக ஒரே தடவை அங்குரார்ப்பணத்தைச் செய்தால் போதும். ஒரே ஸமயத்தில் கர்மாக்கள் செய்யும்படி நேருமாகில் அப்யுதயம்-அங்குரார்ப்பணம் ரக்ஷாபந்தனம் இவைகளை ஒரே தடவை மட்டும் செய்தால் போதும் என்று வசனம். சுப அனேக

०६ ओषधिवापः ...{Loading}...
विस्तारः (द्रष्टुं नोद्यम्)

कृष्टायां भुवि ओषधिवापः

विस्तारः (द्रष्टुं नोद्यम्)

अनुष्टुप , ९ बृहती , अगनिर्ऋषिः

चतुर्थकाण्डे द्वितीयप्रपाठके षष्ठोऽनुवाकः

सायणोक्त-विनियोगः

१९११ (अथ चतुर्थकाण्डे द्वितीयप्रपाठके षष्ठोऽनुवाकः )। पञ्चमेऽनुवाकेऽग्निक्षेत्रकर्षणमुक्तम् ।
अथ षष्ठ ओषधिवापो विधीयते ।
कल्पः—“या जाता ओषधय इति चतुर्दशभिरोवधीर्वपति” इति ।
तत्र प्रथमामाह– या जाता इति।

विश्वास-प्रस्तुतिः ...{Loading}...

या जा॒ता ओष॑धयो
दे॒वेभ्य॑स् त्रि-यु॒गम् पु॒रा ।
मन्दा॑मि ब॒भ्रूणा॑म् अहꣳ
श॒तन् धामा॑नि स॒प्त च॑ ।

सर्वाष् टीकाः ...{Loading}...
Keith

The plants born
Three generations before the gods,
Of the brown ones I celebrate
The seven and a hundred abodes.

मूलम्

या जा॒ता ओष॑धयो दे॒वेभ्य॑स्त्रियु॒गम्पु॒रा ।
मन्दा॑मि ब॒भ्रूणा॑महꣳ श॒तन्धामा॑नि स॒प्त च॑ ।

सायण-टीका

युगशब्दः कालवाची ।
त्रियुगं वर्षाः शरद्वसन्त इति कालत्रयमुद्दिश्य पुरा सृष्ट्यादौ देवेभ्यः सकाशाद्या ओषधय उत्पन्ना बभ्रूणां प्राणिभ-रणसमर्थानां परिपपाकेन (ण) पिङ्गलवर्णानां वा तासामोषधीनां शतं धामानि शतसं-ख्याकाञ्जातिभेदान्सप्त च विशेषाकारेण ग्राम्यानारण्यांश्च सप्त धान्यमेदानवेक्ष्य मन्दामि हृष्यामि ।

विश्वास-प्रस्तुतिः ...{Loading}...

श॒तव्ँ वो॑ अम्ब॒ धामा॑नि
स॒हस्र॑म् उ॒त वो॒ रुहः॑
अथा॑ शत-क्रत्वो यू॒यम्
इ॒मम् मे॑ अग॒दङ् कृ॑त

सर्वाष् टीकाः ...{Loading}...
Keith

A hundred, O mother, are your abodes, A thousand too your shoots,
Therefore do ye, with a hundred powers,
Make him whole for me.

मूलम्

श॒तव्ँवो॑ अम्ब॒ धामा॑नि स॒हस्र॑मु॒त वो॒ रुहः॑ ।
अथा॑ शतक्रत्वो यू॒यमि॒मम्मे॑ अग॒दङ्कृ॑त ।

सायण-टीका

अथ द्वितीयामाह— शतं वो अम्बेति ।
हेऽम्ब मातृस्थानीया ओषधयो वो युष्माकं धामानि जातिभेदाः क्षेत्राणि वा शतं सन्ति ।
उतापि च वो युष्माकं रुहः प्ररोहा अङ्कुराश्च सहस्रं सन्ति ।
सहस्रमित्यासामपरिमितत्वमुपलक्ष्यते ।
अथैवं बहुभेदोपेतत्वे सति शतसंख्याकाः क्रतवो याभिर्युष्माभिर्निष्पाद्यन्ते तादृश्यः शतक्रत्वे यूयं मे मदीयमिमं यजमानमगदं कृत क्षुत्पिपासादिरोगरहितं कुरूत ।

विश्वास-प्रस्तुतिः ...{Loading}...

पुष्पा॑वतीᳶ प्र॒सूव॑तीᳶ
फ॒लिनी॑र् अ-फ॒ला उ॒त ।
अश्वा॑ इव स॒-जित्व॑रीर्
वी॒रुधᳶ॑ पारयि॒ष्णवः॑

सर्वाष् टीकाः ...{Loading}...
Keith

With flowers, with shoots,
Fruit-bearing and without fruit,
Like steeds victorious
The plants are strong to help.

मूलम्

पुष्पा॑वतीᳶ प्र॒सूव॑तीᳶ फ॒लिनी॑रफ॒ला उ॒त ।
अश्वा॑ इव स॒जित्व॑रीर्वी॒रुधᳶ॑ पारयि॒ष्णवः॑ ।

सायण-टीका

अथ तृतीयामाह– पुष्पावतीरिति ।
अत्रौषधयो नानाविधैर्विशेषणैः प्रशस्यन्ते ।
पुष्पावतीः काश्चिदोषधयः पुष्पमात्रपर्यवसायिन्यो न तु फलन्ति ।
प्रसूवतीरन्या ओषधयः पुष्पपूर्व-कफलोत्पत्तिस्थायिन्यः ।
फलिनीरपराः काश्चिदोषधयः पुष्पं विना केवलेन फलेन युक्ताः।
उतामि चाफला अन्याः काश्चिदोषधयः फलेन तद्धेतुपुष्पेण च
१९१४ विरहिताः।
तदेतत्सर्वं लोकसिद्ध्यनुसारेणोदाहरणीयम् ।
वीरुधः काश्चिदोषधयो लता-रूपाः, पारयिष्णवः फलपाकान्तत्वं परित्यज्य पारं बहुसंवत्सरावसानं प्राप्तुं शीलं यासां तास्तथाविधाः।
तद्यथा-नागवल्लीप्रभूतय एताः सर्वा ओषधयोऽश्वा इव सजित्वरीः ।
यथाऽश्वा युद्धे बहवः सह शीध्रं गत्वा जयशीला भवन्ति, एवमोषधयोऽपि बह्व्यः सहोत्पन्नाः फलपर्यन्तलक्षणजयशीला भवन्ति ।

विश्वास-प्रस्तुतिः ...{Loading}...

“ओष॑धी॒र्”+++(=ओष=दाह/पाक+धीः)+++ इति॑ मातर॒स्
तद् वो॑ देवी॒र् उप॑ ब्रुवे
रपाꣳ॑सि+++(=पापानि)+++ विघ्न॒तीर् इ॑त॒
रप॑श् चा॒तय॑मानाः

सर्वाष् टीकाः ...{Loading}...
Keith

‘Plants’, O ye mothers,
I hail you, O goddesses;
Go bearing away defilement,
Defilement [1] destroying.

मूलम्

ओष॑धी॒रिति॑ मातर॒स्तद्वो॑ देवी॒रुप॑ ब्रुवे ।
रपाꣳ॑सि विघ्न॒तीरि॑त॒ रपः॑ [24] चा॒तय॑मानाः ।

सायण-टीका

अथ चतुर्थीमाह– ओषधीरितीति ।
हे मातरो मातृसमाना देवीर्देव्यः।
इतिशब्दोऽत्र हेत्वर्थे वर्तते ।
यस्माद् ओषधीर् युयमोषधयस्
तत् तस्माद्वो युष्मानुपब्रुवे प्रार्थये ।
ओषो दाहः फल-पाको धीयते स्थाप्यते यासु ता ओषधयः ।
अतो युष्मान् प्रति प्रार्थनमुचितमित्यर्थः ।
कथं प्रार्थनमिति तदुच्यते- रपांसि विघ्नतीः पापानि विनाशयन्त्यो रपश्चातयमानाः पापफलं दुःखमपि विनाशयन्त्य इत प्राप्नुत।

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒श्व॒त्थे वो॑ नि॒षद॑नम्
प॒र्णे वो॑ वस॒तिᳵ कृ॒ता ।
गो॒-भाज॒ इत् किला॑सथ॒
यथ् स॒नव॑थ॒+++(←दाने)+++ पूरु॑षम् ।

सर्वाष् टीकाः ...{Loading}...
Keith

In the Aśvattha is your seat,
In the Parna is your dwelling made;
Cows shall in truth be your share
If ye shall gain this man.

मूलम्

अ॒श्व॒त्थे वो॑ नि॒षद॑नम्प॒र्णे वो॑ वस॒तिᳵ कृ॒ता ।
गो॒भाज॒ इत्किला॑सथ॒ यथ्स॒नव॑थ॒ पूरु॑षम् ।

सायण-टीका

अथ पञ्चमीमाह– अश्वत्थे व इति ।
हे ओषधिदेवता वो युष्माकमश्वत्थे निषदनं पर्णे पला-शवृक्षे वो युष्माक वसतिः कृता निवासकारणं गृहं कृतम् ।
देवताधिष्ठतत्वादेव लोके-ऽश्वत्थवृक्षः प्रदक्षिणनस्कारादिभिः पूज्यते ।
पलाशवृक्षश्चेघ्मादिरूपेण कर्म साधनं संपन्नः ।
ईदृश्योऽपि यूयं गोभाज इद्भवदीयस्थावररूपेण भूमिभाज एव भूत्वाऽसथ किल स्थिता इत्येतल्लोके प्रसिद्धम् ।
तत्किमर्थमिति तदुच्यते-यद्यस्मात्कारणात्पूरुषं मनुष्यं सनवथान्नदानेन पोषयथ तस्मादेवं स्थावररूपावस्थानमित्यर्थः ।

विश्वास-प्रस्तुतिः ...{Loading}...

यद् अ॒हव्ँ वा॒जय॑न्न् इ॒मा
ओष॑धी॒र् हस्त॑ आद॒धे
आ॒त्मा यख्ष्म॑स्य नश्यति
पु॒रा जी॑व॒-गृभो॑ यथा ।

सर्वाष् टीकाः ...{Loading}...
Keith

In that in strength I seize
These plants in my hand,
The soul of the disease perisheth,
As before one that taketh alive.

मूलम्

यद॒हव्ँवा॒जय॑न्नि॒मा ओष॑धी॒र्हस्त॑ आद॒धे ।
आ॒त्मा यख्ष्म॑स्य नश्यति पु॒रा जी॑व॒गृभो॑ यथा ।

सायण-टीका

अथ षष्ठीमाह— यदहं वाजयन्निति ।
यद्यदाऽहं वाजयन्नन्नमिच्छन्निमा ओषधीर्हस्त आदधामि तदानीमेव यक्ष्मस्य क्षुधादिरोगस्याऽऽत्मा स्वरूपं पुरा नश्यति भोजनात्प्रगेव नष्टसदृशो भवति ।
तत्र दृष्टान्तः—यथा लोके जीवगृभो धीवरैर्जीवस्य शशादेर्ग्रहणात्पुरा भीतः शशः कर्णाभ्यां नेत्रे पिधाय भूमिसंश्लिष्टो मृत इव तिष्ठति तद्वत्।

विश्वास-प्रस्तुतिः ...{Loading}...

यद् ओष॑धयस् स॒ङ्गच्छ॑न्ते॒
राजा॑न॒स् समि॑ताव् इव ।
विप्र॒स् स उ॑च्यते भि॒षग्
र॑ख्षो॒-हा ऽमी॑व॒-चात॑नः ।

सर्वाष् टीकाः ...{Loading}...
English

When the plants come together
Like princes at the assembly,
Sage is the physician called,
Slayer of Raksases, overpowerer of diseases.

मूलम्

यदोष॑धयस्स॒ङ्गच्छ॑न्ते॒ राजा॑न॒स्समि॑ताविव ।
विप्र॒स्स उ॑च्यते भि॒षग्र॑ख्षो॒हामी॑व॒चात॑नः ।

सायण-टीका

अथ सप्तमीमाह– यदोषधय इति ।
यद्यदौषधयः सर्वाः संगच्छन्ते फलदानाय क्षेत्रसंगता १९१५ भवन्ति, तत्र दृष्टान्तः—राजानः समिताविव, यथा युद्धे प्रतिपक्षिणः सेनां जेतुं परस्परमनुकूला राजानः संगच्छन्ते तद्वत् । तदानीं संगतास्वोषधीषु विप्रो मेधावी सरवीर्यभावनाभिज्ञो यः पुरुषः स भिषगुच्यते क्षुधादिरोगचिकित्सक इत्यभिधीयते । कथं भिषक्त्वमिति तदुच्यते—रक्षोहा पक्वाभिरेताभिः पुसेडाशं राक्षोघ्नं कृत्वा रक्षसां हन्ता तदुपद्रवरूपं रोगं विनाशयति । अमीवचातन ओषधिजन्यपथ्यादिभिरमीवान्रोगां-श्चातयति विनाशयतीत्यमीवचातनः ।

विश्वास-प्रस्तुतिः ...{Loading}...

“निष्कृ॑ति॒र्” नाम॑ वो मा॒ता
ऽथा॑ यू॒यꣵ स्थ॒ “सङ्कृ॑तीः” ।
स॒राᳶ प॑त॒त्रिणीः᳚ स्थन॒
यद् आ॒मय॑ति॒ निष्कृ॑त

सर्वाष् टीकाः ...{Loading}...
Keith

Remover is your mother by name, And ye are helpers;
Ye are winged streams [2];
Remove whatever is unwell.

मूलम्

निष्कृ॑ति॒र्नाम॑ वो मा॒ताथा॑ यू॒यꣵ स्थ॒ सङ्कृ॑तीः ।
स॒राᳶ प॑त॒त्रिणीः᳚ [25] स्थ॒न॒ यदा॒मय॑ति॒ निष्कृ॑त ।

सायण-टीका

अथाष्टमीमाह— निष्कृतिर्नामेति । हे ओषधयो वो युष्माकं निष्कृतिर्नाम क्षुधादिविनाशन-मव माता मातृवदुत्पत्तिनिमित्तं क्षुदादिकं निवारयितुमेव हि भवतीनामुत्पत्तिः । अथैवं सति यूयं संकृतीः स्थ सम्यक्स्वकार्ये क्षमा भवत । सराः क्षुदादीनामपवारयित्र्यः पतत्रि-णीः पतत्त्रं पत्रं तस्मात्प्रत्यागमनं तेनाऽऽगमनेनोपेताः स्थन भक्त । यत्क्षुदादिकमामयति रोगवद्वाधते तन्निष्कृत विनाशयत ।

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒न्या वो॑ अ॒न्याम् अ॑वत्व्
अ॒न्यान्य् अस्या॒ उपा॑वत
तास् सर्वा॒ ओष॑धयस् सव्ँविदा॒ना
इ॒दम् मे॒ प्राव॑ता॒ वचः॑ ।

सर्वाष् टीकाः ...{Loading}...
Keith

Let one of you aid another,
Let one be of assistance to another;
All the plants in unison
Do ye further this speech of mine.

मूलम्

अ॒न्या वो॑ अ॒न्याम॑वत्व॒न्यान्यस्या॒ उपा॑वत ।
तास्सर्वा॒ ओष॑धयस्सव्ँविदा॒ना इ॒दम्मे॒ प्राव॑ता॒ वचः॑ ।

सायण-टीका

अथ नवमीमाह— अन्या व इति । हे ओषधयो वो युष्माकं मध्येऽन्या काचिदोषधिव्यक्तिर-न्यामितरामोषधिव्यक्तिमवतु रक्षतु । तथा रक्षिता साऽन्याऽप्यन्यस्या रक्षिकाया उपावत समीपमागत्य तामप्यवतु । संभूयकारित्वात्परल्पररक्षकत्वमुचितम् । तथाविधाः सर्वा हे ओषधयः संविदानाः परस्परमैकमत्यं गता इदं मे मदीयं वचो वाक्यं प्रार्थनारूपं प्रावत प्रकर्षेण रक्षत ।

विश्वास-प्रस्तुतिः ...{Loading}...

उच् छुष्मा॒ ओष॑धीना॒ङ्
गावो॑ गो॒ष्ठाद् इ॑वेरते
धनꣳ॑ सनि॒ष्यन्ती॑नाम्
आ॒त्मान॒न् तव॑ पूरुष ।

सर्वाष् टीकाः ...{Loading}...
Keith

The strength of the plants hath arisen Like cows from the pasturage,
Of them that are fain to win gain,
To the self of thee, O man.

मूलम्

उच्छुष्मा॒ ओष॑धीना॒ङ्गावो॑ गो॒ष्ठादि॑वेरते ।
धनꣳ॑ सनि॒ष्यन्ती॑नामा॒त्मान॒न्तव॑ पूरुष ।

सायण-टीका

अथ दशमीमाह— उच्छुष्मा इति । ओषधीनां शुष्मास्तदु भोगजन्या बलविशेषा उदीरत उद्ग- गच्छन्ति । तत्र दृष्टान्तः-गावो गोष्ठादिव, यथा गांवो निवासस्थानाद्गृहादरण्यदेशं प्रत्यु-द्गच्छन्ति तद्वत्। कीदृशीनामोषधीनां पूरुष तवाऽऽत्मानं धनं सनिष्यन्तीनां हे यजमान त्वदीयं शरीरं धनमिव दातुमिच्छन्तीनां यथा धनं दास्यन्ति एवमोषधयोऽपि त्वदीयशरी-राकारेण परिणता शरीरं दास्यन्तीत्यर्थः ।

विश्वास-प्रस्तुतिः ...{Loading}...

अति॒ विश्वाः᳚ +++(शरीरम्)+++ परि॒ ष्ठास्
स्ते॒न इ॑व व्र॒जम् अ॑क्रमुः
ओष॑धय॒ᳶ प्राचु॑च्यवु॒र्
यत् किञ् च॑ त॒नुवा॒ꣳ॒ रपः॑ ।

सर्वाष् टीकाः ...{Loading}...
Keith

I Beyond all obstacles,
Like the thief the pen, they have strode,
The plants have shaken away
Every defilement in the body.

मूलम्

अति॒ विश्वाः᳚ परि॒ष्ठास्स्ते॒न इ॑व व्र॒जम॑क्रमुः ।
ओष॑धय॒ᳶ प्राचु॑च्यवु॒र्यत्किञ्च॑ त॒नुवा॒ꣳ॒ रपः॑ ।

सायण-टीका

अथैकादशीमाह— १९१६ अति विश्वा इति । परिष्ठाः शरीरस्योपरि स्थिता उदरमध्ये प्रविष्टा विश्वाः सर्वा ओषधयोऽत्यजीर्णादिदोषमतिलङ्घ्याक्रमुः क्रान्ता देहे व्याप्ता इत्यर्थः । तत्र दृष्टान्तः—स्तेन इव व्रज्रं, यथा रात्रौ गुप्तचोरो गोष्ठं प्रविश्य गामपहर्तुं सावधानो गोशालयां[लां] सर्वतो व्याप्नोति तद्वत् । तनुवां शरीराणां संबन्धि यक्तिंच रपो स्वरशिरोव्याधिगुल्मातिसारादिरूपं पापफलं यत्किंचिदस्ति तत्सर्वमोषधयः प्राचुच्यवुर्वि-नाशितवत्यः ।

विश्वास-प्रस्तुतिः ...{Loading}...

यास् त॑ आत॒स्थुर् आ॒त्मान॒य्ँ
या आ॑विवि॒शुᳶ परुᳶ॑+++(=पर्व)+++-परुः ।
तास् ते॒ यख्ष्म॒व्ँ वि बा॑धन्ताम्
उ॒ग्रो म॑ध्यम॒-शीर्+++(←शयने)+++ इ॑व ।

सर्वाष् टीकाः ...{Loading}...
Keith

Those [3] that have mounted thy self, That have entered every limb,
May they repel thy disease,
Like a dread intercessor.

मूलम्

याः [26] त॒ आ॒त॒स्थुरा॒त्मान॒य्ँया आ॑विवि॒शुᳶ परुᳶ॑परुः ।
तास्ते॒ यख्ष्म॒व्ँवि बा॑धन्तामु॒ग्रो म॑ध्यम॒शीरि॑व ।

सायण-टीका

अथ द्वादशीमाह— यास्त इति । हे यजमान ते तवाऽऽत्मानं शरीरं या ओषधय आतस्थु-राक्रम्य तिष्ठन्ति, या ओषधयः परुःपरुराविविशू रसरूपेण तत्तत्पर्व प्रविष्टवत्यस्ताः सर्वास्ते तव यक्ष्मं रोगं विबाधन्तां विशेषेण नाशयन्तु । तत्र दृष्टान्तः—मध्यमशीरिव, मध्यमेन स्वकीयपरकीयपक्षपातरहितेन शास्त्रीयमार्गेण शेते वर्तत इति मध्यमशीः तादृशो राजा दुष्टान्त्पत्युग्रो भूत्वा यथा विनाशयति तद्वत् ।

विश्वास-प्रस्तुतिः ...{Loading}...

सा॒कय्ँ य॑ख्ष्म॒ प्र प॑त
श्ये॒नेन॑, किकिदी॒विना᳚+++(=blue jay)+++ ।
सा॒कव्ँ वात॑स्य॒ ध्राज्या॑+++(=डयनेन)+++,
सा॒कन् न॑श्य नि॒हाक॑या+++(=चण्डमारुतेन)+++ ।

सर्वाष् टीकाः ...{Loading}...
Keith

O disease, do thou fly forth
With the eagle, the blue jay (kikidivi)
With the rush of the wind,
With the whirlwind do thou disappear.

मूलम्

सा॒कय्ँय॑ख्ष्म॒ प्र प॑त श्ये॒नेन॑ किकिदी॒विना᳚ ।
सा॒कव्ँवात॑स्य॒ ध्राज्या॑ सा॒कन्न॑श्य नि॒हाक॑या ।

सायण-टीका

अथ त्रयोदशीमाह— साकं यक्ष्मेति ।
श्लेष्मावरुद्धकण्ठजन्यध्वनेरनुकरणार्थोऽयं किकिशब्दस्तेन किकिना ध्वनिविशेषेण दीव्यति व्यवहरतीति रोगविशेषः किकिदीविः ।
स च श्लेष्म-जन्यः श्येनवत् तीव्रतरत्वात् पित्तजान्यो रोगः श्येनः ।
हे यक्ष्म राजयक्ष्मादिरोग त्वं पित्त-जन्येन श्लेष्मजन्येन च रोगेण साकं प्रपत प्रकर्षेज नष्टो भव ।
तथा यया पीडया निह-तोऽस्मि हा कष्टमिति शब्दं करोमि सा निहाका तया सह नष्टो भव ।

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒श्वा॒व॒तीꣳ सो॑मव॒तीम्
ऊ॒र्जय॑न्ती॒म् उद्-ओ॑जसम् ।
आ वि॑थ्सि॒+++(=आलभे)+++ सर्वा॒ ओष॑धीर्
अ॒स्मा अ॑-रि॒ष्ट–ता॑तये+++(←तन्)+++ ।

सर्वाष् टीकाः ...{Loading}...
Keith

Rich in steeds, rich in Soma,
Full of strength, full of power,
I have found all the plants
For his safety.

मूलम्

अ॒श्वा॒व॒तीꣳ सो॑मव॒तीमू॒र्जय॑न्ती॒मुदो॑जसम् ।
आ वि॑थ्सि॒ सर्वा॒ ओष॑धीर॒स्मा अ॑रि॒ष्टता॑तये ।

सायण-टीका

अथ चतुर्दशीमाह— अश्वावतीमिति । काचि॑दोषधिजातिरश्वावती, अश्वा अस्यां सन्तित्यश्वा वती, ओषधिसमृद्धौ सत्यां धनद्वारेणाश्वा लभ्यन्त इत्यर्थः । अन्या काचिदो षधिजातिः सोमवती सोमयागोऽस्यामस्तीति सोमवती, धान्यसमृद्धौ सत्यां सोमयागः कर्तुं शक्यत इत्यर्थः । अपरोर्जयन्ती, ऊर्ज बलं प्राणचेष्टां वा करोतीत्यर्थः । अन्या जातिरुदोजाः, उत्कृष्टयोजोऽष्टमधातुरूपं यस्याः सोदोजाः अन्नद्वारेण शरीरधातून्पोषयतीत्यर्थः ।
ताः सर्वा ओषधीरहमावित्सि लब्धवानस्मि । किमर्थम् । अस्मा अरिष्टतातये अरिष्टस्य तातिररिष्टतातिः । अस्य यजमानस्य हिंसाराहित्ययेत्यर्थः । १९१७ तदेवमोषधिवापार्था ऋचश्चतुर्दशाऽऽम्नाताः ।

विश्वास-प्रस्तुतिः ...{Loading}...

याᳶ फ॒लिनी॒र् या अ॑-फ॒ला
अ॑-पु॒ष्पा याश् च॑ पु॒ष्पिणीः᳚ ।
बृह॒स्पति॑-प्रसूता॒स्
ता नो॑ मुञ्च॒न्त्व् अꣳह॑सः ।

सर्वाष् टीकाः ...{Loading}...
Keith

The fruitful, the fruitless,
The flowering, the flowerless,
Impelled by Brhaspati,
May they free us from tribulation.

मूलम्

याᳶ फ॒लिनी॒र्या अ॑फ॒ला अ॑पु॒ष्पा याश्च॑ पु॒ष्पिणीः᳚ ।
बृह॒स्पति॑प्रसूता॒स्ता नो॑ मुञ्च॒न्त्वꣳह॑सः ।

सायण-टीका

अथात्रैव विकल्पिताः षडृच आम्नायन्ते । तत्र प्रथमामाह— या फलिनीरिति । या ओषधयः फलयुक्ता याः फलरहिता याश्च पुष्प रहिता याश्च पुष्पयुक्तास्ताः सर्वा बृहस्पतिप्रसूताः सत्यो नोऽस्मानंहसः पापान्मोचयन्तु ।

विश्वास-प्रस्तुतिः ...{Loading}...

या ओष॑धय॒स् सोम॑-राज्ञी॒ᳶ
प्रवि॑ष्टाᳶ पृथि॒वीम् अनु॑ ।
तासा॒न् त्वम् अ॑स्य् उत्त॒मा
प्र णो॑ जी॒वात॑वे सुव

सर्वाष् टीकाः ...{Loading}...
Keith

The [4] plants whose king is Soma,
And which have entered the earth,
Of them thou art the highest,
Impel us to long life.

मूलम्

याः [27] ओष॑धय॒स्सोम॑राज्ञी॒ᳶ प्रवि॑ष्टाᳶ पृथि॒वीमनु॑ ।
तासा॒न्त्वम॑स्युत्त॒मा प्र णो॑ जी॒वात॑वे सुव ।

सायण-टीका

अथ द्वितीयामाह— या ओषधय इति । सोमो राजा यासां ताः सोमराऽयस्तादृश्यो या ओष-धयः पृथिवीमनु प्रविष्टास्तासां मध्य इदानीमुप्यमाने हे ओषधे त्वमुत्तमाऽसि । अतो नोऽस्माञ्जीवातवे जीवनौषधाय प्रसुव प्रकर्षेण प्रेरय ।

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒व॒पत॑न्तीर् अवदन्
दि॒व ओष॑धय॒ᳶ परि॑ ।
“यञ् जी॒वम् अ॒श्ञवा॑महै॒
रि॑ष्याति॒ पूरु॑षः” ।

सर्वाष् टीकाः ...{Loading}...
Keith

Falling from the sky
The plants said,
‘He, whom we reach while in life,
Shall not come to ill.’

मूलम्

अ॒व॒पत॑न्तीरवदन्दि॒व ओष॑धय॒ᳶ परि॑ ।
यञ्जी॒वम॒श्ञवा॑महै॒ न स रि॑ष्याति॒ पूरु॑षः ।

सायण-टीका

अथ तृतीयामाह— अवपतन्तीरिति । द्युरोकात्पतन्तो वृष्टिबिन्दव ओषधिरूपेणोत्वद्यन्ते । तथा चाग्निहोत्रब्राह्मणे समाम्नायते– “यावन्तः स्तोका अवापद्यन्त । तावतीरोषधयो-ऽजायन्त” इति । अत्रापि दिवः परि स्वर्गस्योऽपरितनप्रदेशादवपतन्तीरधस्ताद्भूमौ पतन्त्य ओषधयोऽवदन्नेतद्ववचनमुक्तवत्यः । कीदृशं वचनमिति तदुच्यते—यं जीवमश्नवामहै व्याप्नुमः स पुरुषो न रिष्याति नैव विनश्यति ।

विश्वास-प्रस्तुतिः ...{Loading}...

याश् चे॒दम् उ॑पशृ॒ण्वन्ति॒
याश् च॑ दू॒रम् परा॑गताः
इ॒ह स॒ङ्गत्य॒ तास् सर्वा॑
अस्मै॒ सन्द॑त्त भेष॒जम् ।

सर्वाष् टीकाः ...{Loading}...
Keith

Those that hear now
And those that are gone far away,
Coming all together here
Give ye him healing.

मूलम्

याश्चे॒दमु॑पशृ॒ण्वन्ति॒ याश्च॑ दू॒रम्परा॑गताः ।
इ॒ह स॒ङ्गत्य॒ तास्सर्वा॑ अस्मै॒ सन्द॑त्त भेष॒जम् ।

सायण-टीका

अथ चतुर्थीमाह— याश्चेदमिति । याश्चौषधिदेवता इदं मदीयं प्रार्थनमुपशृणवन्ति, याश्चा न्या ओषधिदेवता इह कर्मणि संगता भूत्वाऽस्मै यजमानाय भेषजं संदत्त क्षुदादिरोगचिकि-त्सां सम्यक्कुरुत ।

विश्वास-प्रस्तुतिः ...{Loading}...

मा वो॑ रिषत् खनि॒ता,
+++(तथा)+++ यस्मै॑ चा॒हङ् खना॑मि वः ।
द्वि॒पच् चतु॑ष्पद् अ॒स्माक॒ꣳ॒
सर्व॑म् अ॒स्त्व् अना॑तुरम्

सर्वाष् टीकाः ...{Loading}...
Keith

May the digger of you come to no ill,
Nor he for whom I dig you;
May all our bipeds and quadrupeds
Be free from disease.

मूलम्

मा वो॑ रिषत्खनि॒ता यस्मै॑ चा॒हङ्खना॑मि वः ।
द्वि॒पच्चतु॑ष्पद॒स्माक॒ꣳ॒ सर्व॑म॒स्त्वना॑तुरम् ।

सायण-टीका

अथ पञ्चमीमाह— मा वो रिषादमिति । हे ओषधयो वो युष्माकं खनिता चिकित्सायै युष्मदीयं मूलं ग्रहीतुं खननस्य कर्ता मा रिषन्मा विनश्यतु । अहं च यस्मै रुग्णाय चिकित्सार्थं खनामि युष्मन्मूलं ग्रहीतुं खननं करोमि सोऽपि मा विनश्यतु । किं वहुनाऽस्माकं संब-न्धि यद्द्विपच्चतुष्पाद्वा प्राणिजातं युष्मदुपजीवति तत्सर्वमनातुरं रोगरहितमस्तु ।

विश्वास-प्रस्तुतिः ...{Loading}...

ओष॑धय॒स् सव्ँव॑दन्ते॒
सोमे॑न स॒ह राज्ञा᳚ ।
“यस्मै॑ क॒रोति॑ ब्राह्म॒णस्
तꣳ रा॑जन् पारयामसि” ॥ [28]

सर्वाष् टीकाः ...{Loading}...
Keith

The plants hold converse
With Soma, the king,
‘The man for whom the Brahman prepares (us),
We, O king, bring to safety.’

मूलम्

ओष॑धय॒स्सव्ँव॑दन्ते॒ सोमे॑न स॒ह राज्ञा᳚ ।
यस्मै॑ क॒रोति॑ ब्राह्म॒णस्तꣳ रा॑जन्पारयामसि ॥ [28]

सायण-टीका

अथ षष्ठीमाह— ओषधय इति । ओषधय ओषधिदेवताः स्वकीयेन स्वामिना सोमेन राज्ञा १९१८ सह संवादं कुर्वन्ति । कथं संवाद इति तदुच्यते-यस्मै रुग्णाय चिकित्सास्मदीयमूलादिना ब्राह्मणः करोति, हे राजंस्तमातुरं वयं पारयामसि व्याधेरुत्तारयामः । एतैर्मन्त्रैः साध्यमो-षधिवापं विधत्ते— “ओषधीर्वपति ब्रह्मणाऽन्नमव रुन्धेऽर्केऽर्कश्चीयते” [सं. का. ५ प्र. २ अ. ५] इति।
ब्रह्मणौषधिवापहेतुभूतमन्त्रसामर्थ्येनान्नं व्याप्नोति । किंचैवं सत्यर्केऽर्चनीये स्थानेऽर्कोऽर्चनीयोऽग्निश्चितो भवति । मन्त्रसंख्यां विधत्ते— “चतुर्दशभिर्वपति सप्त ग्राम्या ओषधयः सप्ताऽऽरण्या उभयीषामवरुद्ध्या अन्नस्यान्नस्य वपत्यन्नस्यान्नस्यावरुद्ध्यै” [सं. का. ५ प्र. २ अ. ५] इति।
तिलमाषव्रीहियवाः प्रियङ्ग्वणवो गोधूमाश्चेति सप्त ग्राम्या ओषधयः । वेणु श्यामाकनीवारजर्तिला गवीधुका मर्कटका गार्मुताश्चेति सप्ताऽऽरण्या ओषधयः। नाना-विघस्यान्नस्य बीजवापेन नानाविधमन्नमाप्नोति ।
यदुक्तं सूत्रकारेण “सप्त ग्राम्याः कृष्टे सप्ताऽऽरण्या अकृष्टे” इति । तत्र ग्राम्याणां देशविशेषं विधत्ते— “कृष्टे वपति कृष्टे ह्योषधयः प्रतितिष्ठन्ति” [सं. का. ५ प्र. २ अ. ५] इति।
कृष्टे देशे वपति ग्राम्या इति शेषः । मूलानां सर्वतः प्रसरणे दृढावस्थानां प्रतिष्ठा ।
एकैकस्यां सीतायां मूलमारभ्याग्रपर्यन्तमनुगतं वपनं विधत्ते— “अनुसीतं वपति प्रजात्यै” [सं. का. ५ प्र. २ अ. ५] इति।
प्रभूतत्वेनोत्पत्तिः प्रजातिः । सर्वास्वपि सीतासु व्रीजावापं विधत्ते— “द्वादशसु सीतासु वपति द्वादश मासाः संवत्सरः संवत्सरेणवास्मा अन्नं पचति” [सं. का. ५ प्र. २ अ. ५] इति।
यदुक्तं सूत्रकारेण—“यामोषधिं नाधिगच्छेत्तस्याः स्थाने यवान्मधुमिश्रान्व-पेदुप्ता मेऽसीति वा मनसा ध्यायेदधिगतायां यः प्रथम इघ्म आगच्छेत्तस्मिन्ने- १९१९ नामुपसंनह्येह्ये वनस्पतीनां फलग्रहयस्तामिध्य उपसंनह्य प्रोक्षेत्” इति, तदिदं वनस्पति-प्रोक्षणं विधत्ते— “यदग्निचिदनवरुद्धस्याश्नीयादवरुद्धेन व्यृध्येत ये वनस्पतीनां फलग्रहय स्तानिऽध्येपि प्रोक्षेदनवरुद्धस्यावरुद्धे” [सं. का. ५ प्र. २ अ. ५] इति।
यदयमग्निचित्पुरुषोऽनवरुद्धस्य सीतास्वनुप्तस्य द्रव्यास्यान्नमश्नीयात्तदानीम-वरुद्धेन सीतासूप्तेन धान्येनापि वियुक्तो भवेत् । अतोऽत्रानुप्तस्याप्युप्तत्वसिद्धये वनस्प-तीनां मध्ये ये पुष्पमन्तरेण फलं गृह्णन्त्युदुम्बरादयस्तानप्यादायेध्येन सह संनह्य प्रोक्षणं कुर्यात् । ततः सर्वमपि भक्ष्यजातमस्यात्ररुद्धमेव भवति ।

सायणोक्त-विनियोगः

अत्र विनियोगसंग्रहः— “या जा ग्राम्यास्तथाऽऽरण्याः कृष्टाकृष्टभुवोर्वपेत् ।
चतुर्दशभिरन्यास्तु षडत्रैव विकल्पिताः ॥
अत्र मीमांसा।
दशमाध्यायस्य पञ्चमपादे चिन्तितम्— धूनने वपने चाग्नौ सप्त चोक्ताश्चदुर्दश ।
किमाद्यारभ्भनियमः किंवाऽऽरम्भो निजेच्छया ॥
कपालवत्क्रमः प्राप्तः केचित्प्रकरणोदिताः ।
व्यर्थाः स्युस्तेन मन्त्राणामारम्भोऽत्र विकल्पितः ॥
अग्निचयने मन्त्रा आधूननार्था आवपनार्थाश्च बहवः पठिताः । प्रयोगे तु तदेकदेशसंख्याऽनिहिता “सप्तभिराधूनोति, चतुर्दशभिरावपति” इति । तत्र प्रथमा-धिकराणोक्तकपालसामिधेनीन्यायेन प्रथमपठितस्यैव मन्त्रस्योपक्रमः प्राप्नोति। तदयुक्तम्। कुतः । यथोक्तसंख्यातिरिक्तानां प्रकरणपठितानां मन्त्राणां वैयर्थ्यप्रसङ्गात् । तस्मात्प्र-करणेन क्रमं बाधित्वा निजेच्छयैव प्रथममन्यं बोपक्रम्य विहितसंख्या पूरणीया ॥
१९२० इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीय-तैत्तिरीयसंहिताभाष्ये चतुर्थकाण्डे द्वितीयप्रपाठके षष्ठोऽनुवाकः ॥ ६ ॥