३२ ‘ऋद्ध्यास्म',

२, यमनक्षत्राणां याज्यानुवाक्याः ...{Loading}...

अनूराधाः - मित्रः
01 ऋद्ध्यास्म ...{Loading}...

ऋ॒द्ध्यास्म॑ ह॒व्यैर् नम॑सोप॒सद्य॑,, मि॒त्रन् दे॒वं+++(।)+++, मि॑त्र॒धेय॑न् +++(=मित्रेण सम्पाद्यन्)+++ नो अस्तु
अ॒नू॒रा॒धान् ह॒विषा॑ व॒र्धय॑न्तः
श॒तञ् जी॑वेम॒ श॒रदः॒ सवी॑राः।

01 ऋद्ध्यास्म ...{Loading}...
मूलम्

ऋ॒द्ध्यास्म॑ ह॒व्यैर्नम॑सोप॒सद्य॑ ।
मि॒त्रन्दे॒वम्मि॑त्र॒धेय॑न्नो अस्तु ।
अ॒नू॒रा॒धान् ह॒विषा॑ व॒र्धय॑न्तः ।
श॒तञ्जी॑वेम श॒रद॒स्सवी॑राः ।

भट्टभास्कर-टीका

1अनूराधानां - ऋध्यास्येति ॥ ऋध्यास्म समृद्धा भूयास्म हव्यैः हविर्भिः नमसा प्रणिपातेन च मित्रं देवं उपसद्य उपसङ्गम्य ऋध्यास्म स च देवोऽस्माकं मित्रधेयं मित्रमस्तु । स्वार्थिको धेयप्रत्ययः । यद्वा - मित्रेण यत् धेयं देयं तन्नोऽस्तु । वयं च अनूराधान् नक्षत्रं हविषा तदीयेन वर्धयन्तः शतं जीवेम शरदः सवीराः गतम् ॥

02 चित्रन्नख्षत्रमुदगात्पुरस्तात् ...{Loading}...

चि॒त्रम् नक्ष॑त्र॒म् उद॑गात् पु॒रस्ता॑त्।
अ॒नू॒रा॒धास॒ इति॒ यद् वद॑न्ति
तन् मि॒त्र ए॑ति प॒थिभि॑र् देव॒यानैः॑।
हि॒र॒ण्ययै॒र् वित॑तैर् अ॒न्तरि॑क्षे॥

02 चित्रन्नख्षत्रमुदगात्पुरस्तात् ...{Loading}...
मूलम्

चि॒त्रन्नख्ष॑त्र॒मुद॑गात्पु॒रस्ता᳚त् ।
अ॒नू॒रा॒धास॒ इति॒ यद्वद॑न्ति ।
तन्मि॒त्र ए॑ति प॒थिभि॑र्देव॒यानैः᳚ ।
हि॒र॒ण्ययै॒र्वित॑तैर॒न्तरि॑ख्षे ।

भट्टभास्कर-टीका

2चित्रमिति ॥ चित्रं चाथनीयं इदं नक्षत्रं पुरस्तात् उदगात् उदेति । अनूराधास इति यन्नक्षत्रं वदन्ति लौकिका अपि । तत नक्षत्रं मित्रः एति पथिभिः देवयानैः देवा यैर्गच्छन्ति । हिरण्ययैः हितरमणीयैः अन्तरिक्षे विततैः ॥

{मि॒त्राय॒ स्वाहा॑ ऽनूरा॒धेभ्यः॒ स्वाहा॑।
मि॒त्र॒धेया॑य॒ स्वाहा॒ ऽभिजि॑त्यै॒ स्वाहा॑।}

१५ अनुराधाः ...{Loading}...
विश्वास-टिप्पनी

β, δ, η, ρ Scorpionis

ज्येष्ठा - इन्द्रः
03 इन्द्रो ज्येष्ठामनु ...{Loading}...

इन्द्रो॑ ज्ये॒ष्ठाम् अनु॒ नक्ष॑त्रम् एति
यस्मि॑न् वृ॒त्रव्ँ वृ॑त्र॒तूर्ये॑ +++(=वृत्रवधे)+++ त॒तार॑
तस्मि॑न् व॒यम् अ॒मृत॒न् दुहा॑नाः
क्षुध॑न् तरेम॒ दुरि॑ति॒न् दुरि॑ष्टिम्।

03 इन्द्रो ज्येष्ठामनु ...{Loading}...
मूलम्

इन्द्रो᳚ ज्ये॒ष्ठामनु॒ नख्ष॑त्रमेति ।
यस्मि॑न्वृ॒त्रव्ँ वृ॑त्र॒तूर्ये॑ त॒तार॑ ॥13॥
तस्मि॑न्व॒यम॒मृत॒न्दुहा॑नाः ।
ख्षुध॑न्तरेम॒ दुरि॑ति॒न्दुरि॑ष्टिम् ।

भट्टभास्कर-टीका

3ज्येष्ठायाः - इन्द्र इति ॥ ज्येष्ठां नक्षत्रं इन्द्रोऽन्वेति अनुगच्छति । यस्मिन् नक्षत्रे निमित्तभूते वृत्रतुर्ये वृत्रवधार्थे संङ्ग्रामे वृत्रं इन्द्रः ततार आक्रम्य हतवान् । वयमपि तस्मिन् नक्षत्रे निमित्ते अमृतं दुहानाः क्षुधं तरेम नाशयेम । दुरितिं दुरिष्टिं च दुर्यागफलम् ॥

04 पुरन्दराय वृषभाय ...{Loading}...

पु॒र॒न्द॒राय॑ वृष॒भाय॑ धृ॒ष्णवे॑।
अषा॑ढाय॒ +++(=अपरिभूताय)+++ सह॑मानाय मी॒ढुषे॑ +++(=सेचकाय {वृष्ट्या})+++।
इन्द्रा॑य ज्ये॒ष्ठा मधु॑म॒द् दुहा॑ना
उ॒रुङ् कृ॑णोतु॒ यज॑मानस्य लो॒कम्।॥

04 पुरन्दराय वृषभाय ...{Loading}...
मूलम्

पु॒र॒न्द॒राय॑ वृष॒भाय॑ धृ॒ष्णवे᳚ ।
अषा॑ढाय॒ सह॑मानाय मी॒ढुषे᳚ ।
इन्द्रा॑य ज्ये॒ष्ठा मधु॑म॒द्दुहा॑ना ।
उ॒रुङ्कृ॑णोतु॒ यज॑मानाय लो॒कम् ।

भट्टभास्कर-टीका

4पुरंदरायेति ॥ पुरंदराय मेघानां दारयित्रे । ‘वाचंयमपुरंदरौ’ इति निपातः । वृषभाय वर्षयित्रे धृष्णवे धर्षणशीलाय शत्रूणाम् । अषाढाय केनचिदप्यनभिभूताय सहमानाय सर्वस्याभिभवित्रे मीढुषे सेक्त्रे ईदृशाय इन्द्राय मधुमत् मधुर हविः दुहाना क्षारयन्ती ज्येष्ठा नक्षत्रं यजमानाय उरुं लोकं स्थानं कृणोतु करोतु ॥

{इन्द्रा॑य॒ स्वाहा॑ ज्ये॒ष्ठायै॒ स्वाहा॑।
ज्यैष्ठ्या॑य॒ स्वाहा॒ ऽभिजि॑त्यै॒ स्वाहा॑।}

१६ ज्येष्ठा ...{Loading}...
विश्वास-टिप्पनी

+++(α, σ, and τ Scorpionis इति केचित्। Antares इत्यन्ये - द्वितीया रोहिणीवेति ब्राह्मणम्।)+++

मानसतरङ्गिणीकृत्
  • “The TB describes this star as a second Rohiṇī keeping with the red color of the star.”
मूलम् - निरृतिः
05 मूलम्प्रजाव्ँ वीरवतीव्ँ ...{Loading}...

मूल॑म् प्र॒जाव्ँ वी॒रव॑तीव्ँ विदेय+++(=लभेय)+++।
परा॑च्य्+++(=पराङ्मुखा)+++ एतु॒ निरृ॑तिᳶ परा॒चा +++(मार्गेण)+++।
गोभि॒र् नक्ष॑त्रम् +++(एव)+++ प॒शुभि॒स् सम॑क्तम्,
अह॑र् भूया॒द् यज॑मानाय॒ मह्य॑म्।

05 मूलम्प्रजाव्ँ वीरवतीव्ँ ...{Loading}...
मूलम्

मूल॑म्प्र॒जाव्ँ वी॒रव॑तीव्ँ विदेय ।
परा᳚च्येतु॒ निर्ऋ॑तिᳶ परा॒चा ।
गोभि॒र्नख्ष॑त्रम्प॒शुभि॒स्सम॑क्तम् ।
अह॑र्भूया॒द्यज॑मानाय॒ मह्य᳚म् ॥14॥

भट्टभास्कर-टीका

5मूलस्य - मूलमिति ॥ मूलं नक्षत्रं प्रजां वीरवतीं विक्रान्तपुरुषवतीं ईदृश्याः प्रजाया हेतुम् । तद्धेतुत्वात्ताच्छब्द्यम् । विदेय लप्सीय । मूलहेतुकां वा प्रजां विदेय । पराची परागता वैमुख्यं भजमाना निर्ऋतिः कृच्छ्रापत्तिः मूलस्य देवता एतु इतो गच्छतु पराचा अपुनरावृत्तिकेन मार्गेण । तथासति गोभिः पशुभिश्चान्यैः समक्तं सङ्गतं नक्षत्रं अहः मूलस्येयं संज्ञेत्येके । अहराख्यं नक्षत्रं अहरिव प्रकाशकं निर्ऋतिव्यपगमेनेत्यन्ये । तदीदृशं नक्षत्रं मह्यं यजमानाय गोभिः पशुभिः समक्तं भूयात् ॥

06 अहर्नो अद्य ...{Loading}...

अह॑र् नो अ॒द्य सु॑वि॒ते +++(=सुप्राप्ते {कर्मफले})+++ द॑धातु। मूल॒न् नक्ष॑त्र॒म् इति॒ यद् वद॑न्ति
परा॑चीव्ँ वा॒चा निरृ॑तिन् नुदामि
शि॒वम् प्र॒जायै॑ शि॒वम् अ॑स्तु॒ मह्य॑म्॥

06 अहर्नो अद्य ...{Loading}...
मूलम्

अह॑र्नो अ॒द्य सु॑वि॒ते द॑धातु ।
मूल॒न्नख्ष॑त्र॒मिति॒ यद्वद॑न्ति ।
परा॑चीव्ँ वा॒चा निर्ऋ॑तिन्नुदामि ।
शि॒वम्प्र॒जायै॑ शि॒वम॑स्तु॒ मह्य᳚म् ।

भट्टभास्कर-टीका

6अहर्न इति ॥ अहराख्यं नक्षत्रं अहरिव प्रकाशतां गतं वा अद्य अस्मिन्कर्मणि नः सुविते सुष्ठु गन्तव्ये फले दधातु । मूलं नक्षत्रमिति यद्वदन्ति लोकेऽपि, अथ तद्देवतां निर्ऋतिं वाचा मन्त्रेण पराचीं अपुनरावृतां नुदामि । यत इतो गमयामि, ततश्च शिवं कल्याणं प्रजायै मदीयायै मह्यं चास्तु ॥

{प्र॒जाप॑तये॒ स्वाहा॒ मूला॑य॒ स्वाहा॑।
प्र॒जायै॒ स्वाहा॑।}

१७ मूलम् ...{Loading}...
विश्वास-टिप्पनी

+++(ζ, η, θ, ι, κ, λ, and ν Scorpionis। मूलायाङ्खल्व् आकाशगङ्गाकेन्द्रम् अपि वर्तते!)+++

मानसतरङ्गिणीकृत्

“In the Rāmāyaṇa it is associated with Rākṣasa-s who are supposed to have emanated from Nirṛtti.”

अषाढाः पूर्वाः - आपः
07 या दिव्या ...{Loading}...

या दि॒व्या आपᳶ॒ पय॑सा सम्बभू॒वुः+++(=आकाशगङ्गा पार्श्वे वर्तमाना)+++।
+++(मेघादिरूपा)+++ या अ॒न्तरि॑क्ष उ॒त +++(नद्यादिषु)+++ पार्थि॑वी॒र् याः।
यासा॑म् अषा॒ढा अ॑नु॒यन्ति॒ काम॑म्।
ता न॒ आपः॒ शꣳ स्यो॒ना +++(=सुखहेतवः)+++ भ॑वन्तु

07 या दिव्या ...{Loading}...
मूलम्

या दि॒व्या आप॒ᳶ पय॑सा सम्बभू॒वुः ।
या अ॒न्तरि॑ख्ष उ॒त पार्थि॑वी॒र्याः ।
यासा॑मषा॒ढा अ॑नु॒यन्ति॒ काम᳚म् ।
ता न॒ आप॒श्शꣵ स्यो॒ना भ॑वन्तु ।

भट्टभास्कर-टीका

7अषाढानाम् - या दिव्या हति ॥ याः दिव्याः दिवि भवाः वर्ष्या आपः पयसा अन्नहेतुना पेयत्नेन वा इत्थंभूताः सम्बभूवुः सम्भवन्ति पयसा मह भवन्ति उत्पद्यन्ते । याः च अन्तरिक्षे सम्भवन्ति । अपि च पार्थिवीः पार्थिव्यश्च । ‘पृथिव्या ञाञौ’ इत्यञ्प्रत्ययः ‘वा छन्दसि’ इति पूर्वसवर्णदीर्घत्वम् । यासां अपां कामं इच्छां अषाढाः नक्षत्त्रं अनुयन्ति अनुगच्छन्ति ता आपः स्योनाः सुखरूपाः नः शं सुखहेतवो भवन्तु ॥

08 याश्च कूप्या ...{Loading}...

याश् च॒ कूप्या॒ याश् च॑ ना॒द्या॑स् समु॒द्रियाः॑।
याश् च॑ वैश॒न्तीर् +++(=पल्वलभवाः)+++ उ॒त प्रा॑स॒चीर् +++(=प्रागता)+++ याः।
यासा॑म् अषा॒ढा मधु॑ भ॒क्षय॑न्ति
ता न॒ आपः॒ शꣳ स्यो॒ना +++(=सुखहेतवः)+++ भ॑वन्तु

08 याश्च कूप्या ...{Loading}...
मूलम्

याश्च॒ कूप्या॒ याश्च॑ ना॒द्या᳚स्समु॒द्रियाः᳚ ।
याश्च॑ वैश॒न्तीरु॒त प्रा॑स॒चीर्याः ॥15॥
यासा॑मषा॒ढा मधु॑ भ॒ख्षय॑न्ति॒ ।
ता न॒ आप॒श्शꣵ स्यो॒ना भ॑वन्तु ।

भट्टभास्कर-टीका

8याश्चेति ॥ याश्च आपः कूप्याः कूपे भवाः । ‘भवे छन्दसि’ इति यत् । नाद्याः नद्यां भवाः ‘पाथोनदीभ्यां ङ्यण्’ । याश्च समुद्रियाः समुद्रे भवाः । ‘समुद्राभ्राद्धः’ । वैशन्तीः वेशन्ते कासारे भवा वैशन्त्यः । ‘वेशन्तहिमवद्भ्यामण्’ । उतापि प्रासचीः प्रासच्यः प्रकर्षेण समवेताः प्रसचने भवाः नानोदकसङ्घाताः यासामपां मधु मधुरं रसं अषाढाः नक्षत्रं भक्षयन्ति । ता न इत्यादि । गतम् ॥

  • ता आपः स्योनाः सुखरूपाः नः शं सुखहेतवो भवन्तु ॥

{अ॒द्भ्यः स्वाहा॑ ऽषा॒ढाभ्यः॒ स्वाहा॑।
स॒मु॒द्राय॒ स्वाहा॒ कामा॑य॒ स्वाहा॑।}

१८ अषाढाः ...{Loading}...
विश्वास-टिप्पनी

+++(δ, γ, η and ε Sagittarii। जलरूपाया आकाशङ्गङ्गायाः केन्द्रम् अस्य पार्श्वे।)+++

अषाढाः उत्तराः - विश्वे देवाः
09 तन्नो विश्वे ...{Loading}...

तन् नो॒ विश्वे॒ उप॑ शृण्वन्तु दे॒वाः।
तद् अ॑षा॒ढा अ॒भिसंय॑न्तु य॒ज्ञम्।
तन् नक्ष॑त्रम् प्रथताम् प॒शुभ्यः॑।
कृ॒षिर् वृ॒ष्टिर् यज॑मानाय कल्पताम्

09 तन्नो विश्वे ...{Loading}...
मूलम्

तन्नो॒ विश्वे॒ उप॑शृण्वन्तु दे॒वाः ।
तद॑षा॒ढा अ॒भिसय्ँय॑न्तु य॒ज्ञम् ।
तन्नख्ष॑त्त्रम्प्रथताम्प॒शुभ्यः॑ ।
कृ॒षिर्वृ॒ष्टिर्यज॑मानाय कल्पताम् ।

भट्टभास्कर-टीका

9उत्तराषाढानाम् - तन्न इति ॥ तत् अस्मदभिमतं विश्वे देवाः उपशृण्वन्तु अस्मत्सकाशमागत्य शृण्वन्तु तत् साधनं यज्ञं अषाढा अभिसंयन्तु आभिमुख्येन प्राप्नुवन्तु । तत् अषाढारव्यं नक्षत्रं अस्माकं पशुभ्यः पश्वर्थं प्रथतां पृथूभवतां, तथा सति कृषिः वृष्टिर्यजमानाय कल्पतां संपद्यताम् ॥

10 शुभ्राᳵ कन्या ...{Loading}...

शु॒भ्राᳵ क॒न्या॑ युव॒तय॑स् सु॒पेश॑सः।
क॒र्म॒कृत॑स् सु॒कृतो॑ वी॒र्या॑वतीः।
विश्वा॑न् दे॒वान् ह॒विषा॑ व॒र्धय॑न्तीः
अ॒षा॒ढाᳵ काम॒म् उपा॑यन्तु य॒ज्ञम्॥

10 शुभ्राᳵ कन्या ...{Loading}...
मूलम्

शु॒भ्राᳵ क॒न्या॑ युव॒तय॑स्सु॒पेश॑सः ।
क॒र्म॒कृत॑स्सु॒कृतो॑ वी॒र्या॑वतीः ।
विश्वा᳚न्दे॒वान् ह॒विषा॑ व॒र्धय॑न्तीः ।
अ॒षा॒ढाᳵ काम॒मुप॑ यान्तु य॒ज्ञम् ॥16॥

भट्टभास्कर-टीका

10शुभ्रा इति ॥ शुभ्राः शोभनाः कन्याः तरुण्यः दीप्तिमत्यो वा । कन दीप्तौ । युवतयः मिश्रिण्थः सुपेशसः सुरूपाः कर्मकृतः कर्मकरणकुशलाः शोभनकारिण्यः वीर्यावतीः प्रसवसामर्थ्यवत्यः विश्वान् देवाननेन हविषा वर्धयन्त्योऽषाढाः अस्मद्यज्ञं उपयान्तु कामं यथायथा कामयामहे तदनुरूपमुपयान्तु ॥

{विश्वे॑भ्यो दे॒वेभ्यः॒ स्वाहा॑ ऽषा॒ढाभ्यः॒ स्वाहा॑।
अ॒न॒प॒ज॒य्याय॒ स्वाहा॒ जित्यै॒ स्वाहा॑।}

१९ अषाढाः ...{Loading}...
विश्वास-टिप्पनी

+++(φ, ζ, tau and σ Sagittarii)+++

अभिजित्
11 यस्मिन्ब्रह्माऽभ्यजयथ्सर्वमेतत् ...{Loading}...

यस्मि॒न् ब्रह्मा॒भ्यज॑य॒त् सर्व॑म् ए॒तत्।
अ॒मुञ् च॑ लो॒कम् इ॒दम् ऊ॑ च॒ सर्व॑म्।
तन् नो॒ नक्ष॑त्रम् अभि॒जिद् वि॒जित्य॑
श्रिय॑न् दधा॒त्व् अहृ॑णीयमानम्।

11 यस्मिन्ब्रह्माऽभ्यजयथ्सर्वमेतत् ...{Loading}...
मूलम्

यस्मि॒न्ब्रह्मा॒ऽभ्यज॑य॒थ्सर्व॑मे॒तत् ।
अ॒मुञ्च॑ लो॒कमि॒दमू॑ च॒ सर्व᳚म् ।
तन्नो॒ नख्ष॑त्रमभि॒जिद्वि॒जित्य॑ ।
श्रिय॑न्दधा॒त्वहृ॑णीयमानम् ।

भट्टभास्कर-टीका

11अभिजितः - यस्मिन्निति ॥ यस्मिन् अभिजिदाख्ये पुण्येनक्षत्रे ब्रह्मा अभ्यजयत् अभितः कार्त्स्येनाजयत् । अमुं च लोकं दिवं इदं च सर्वं पृथिव्यादिकं, ऊ इति निपातोऽनर्थकः पादपूरणार्थः । तत् अभिजिदाख्यं नक्षत्रं अस्मभ्यं विजित्य श्रियं दधातु ददातु । विजयपूर्विकां श्रियमित्यर्थः । यद्वा - जेतव्यान् जित्वा तत आदाय श्रियमस्यभ्यं ददातु । अहृणीयमानं अहीयमानं कुतश्चिदपि । हृणीङ् कण्ड्वादियगन्तः ॥

12 उभौ लोकौ ...{Loading}...

उ॒भौ लो॒कौ ब्रह्म॑णा॒ सञ्जि॑ते॒मौ
तन् नो॒ नक्ष॑त्रम् अभि॒जिद् विच॑ष्टाम् +++(=विख्यापयतु)+++।
तस्मि॑न् व॒यम् पृत॑ना॒स् सञ्ज॑येम
तन् नो॑ दे॒वासो॒ अनु॑जानन्तु॒ काम॑म्॥

12 उभौ लोकौ ...{Loading}...
मूलम्

उ॒भौ लो॒कौ ब्रह्म॑णा॒ सञ्जि॑ते॒मौ ।
तन्नो॒ नख्ष॑त्रमभि॒जिद्विच॑ष्टाम् ।
तस्मि॑न्व॒यम्पृत॑ना॒स्सञ्ज॑येम ।
तन्नो॑ दे॒वासो॒ अनु॑जानन्तु॒ काम᳚म् ।

भट्टभास्कर-टीका

12उभौ लोकाविति ॥ इमौ उभौ लोकौ ब्रह्मणा संजिता सहजितौ अभिजिन्महिम्ना । तदभिजित् नक्षत्रं आत्मीयं महिमानं अस्मदर्थं विचष्टां पश्यतु प्रकटयतु । यद्वा - उभौ लोकौ ब्रह्मणा संजितौ यस्मिन्नक्षत्रे, तदभिजिन्नक्षत्रं अस्मान् विचष्टां सानुग्रहं पश्यतु । तस्मात् वयमपि तस्मिन् नक्षत्रे पृतनाः सङ्ग्रामान् संजयेम, तस्माच्च तत् अभिप्रेतं देवा अनुजानन्तु कामं यथेष्टम् ॥

{ब्रह्म॑णे॒ स्वाहा॑ ऽभि॒जिते॒ स्वाहा॑।
ब्र॒ह्म॒लो॒काय॒ स्वाहा॒ ऽभिजि॑त्यै॒ स्वाहा॑।}

२० अभिजित् ...{Loading}...
विश्वास-टिप्पनी

+++(Vega)+++

मानसतरङ्गिणीकृत्
  • “However, its name meaning the all conquering is equivalent to the Iranian name for the same star Vanant. This suggests that it might have been an ancient association.”
  • “The Aitareya brāhmaṇa indicates that it was used to mark the day just before the svarasāman days during the annual sattra. Tilak we believe rightly realized this was the reason why Abhijit was important in the early period to mark this ritual day which in turn is critical for marking the days leading up to the Viśuvān day.”
  • “It is far away from the ecliptic and has been dropped even by the time of the mahAbhArata where indra mentions this to skanda in a cryptic legend. This probably was due to precession making it no longer suitable for marking the days for the specific abhijit ritual in the annual sattra. Since this was recorded in the bhArata itself, I believe it is evidence for the actual coeval use of the kRttikAdi system in early history before its precession by the time of the bhArata.”
  • " we have the great Ring Nebula M 57 which is one of the best planetary nebulae for a small scope. I have even managed it with my 20 x 70 binocs on good nights. The double-double (Epsilon Lyrae) NW of abhijit is a good wide multiple system for beginners. The globular cluster of M 56 is also a good sight at the lower part of the constellation."
श्रोणा / श्रवणम् - विष्णुः
13 शृण्वन्ति श्रोणाममृतस्य ...{Loading}...

शृ॒ण्वन्ति॑ श्रो॒णाम् अ॒मृत॑स्य गो॒पाम्।
पुण्या॑म् अस्या॒ उप॑शृणोमि॒ वाच॑म्।
म॒हीन् दे॒वीव्ँ विष्णु॑-पत्नीम् अजू॒र्याम्+++(=अज्वराम्)+++।
प्र॒तीची॑म् एनाꣳ ह॒विषा॑ यजामः

13 शृण्वन्ति श्रोणाममृतस्य ...{Loading}...
मूलम्

शृ॒ण्वन्ति॑ श्रो॒णाम॒मृत॑स्य गो॒पाम् ।
पुण्या॑मस्या॒ उप॑शृणोमि॒ वाच᳚म् ॥17 ॥
म॒हीन्दे॒वीव्ँ विष्णु॑पत्नीमजू॒र्याम् ।
प्र॒तीची॑मेनाꣳ ह॒विषा॑ यजामः ।

भट्टभास्कर-टीका

13श्रोणायाः - शृण्वन्त्विति ॥ श्रोणां नक्षत्रं शृण्वन्तीति सर्वे, सर्वत्र ख्यातेति यावत् । शृण्वन्ति वा एतां वदन्तीं सर्वे, वदितुं कुशलेति यावत् । अमृतस्य अमृतत्वस्य गोपां गोप्त्रीम् । आयप्रत्ययान्तात् क्विप्यतो लोपः । तादृशीं अस्याः पुण्यां वाचं अमृतत्वकरीं अहं उपशृणोमि समीपतः शृणोमि । तामिमां महीं महतीं देवीं विष्णुपत्नीं विष्णुदेवत्यां अजूर्यां केनचिदप्यहिंस्यां एनां प्रतीचीं अस्मदाभिमुख्येनाञ्चतीं हविषा यजामः ॥

14 त्रेधा विष्णुरुरुगायो ...{Loading}...

त्रे॒धा विष्णु॑र् उरु-गा॒यो+++(गेयो)+++ विच॑क्रमे
म॒हीन् दिव॑म् पृथि॒वीम् अ॒न्तरि॑क्षम्।
तच् छ्रो॒णैति॒ +++(अत्र)+++ श्रव॑+++(=कीर्तिम्)+++ इ॒च्छमा॑ना
पुण्य॒ꣳ॒ श्लोक॒य्ँ यज॑मानाय कृण्व॒ती

14 त्रेधा विष्णुरुरुगायो ...{Loading}...
मूलम्

त्रे॒धा विष्णु॑रुरुगा॒यो विच॑क्रमे ।
म॒हीन्दिव॑म्पृथि॒वीम॒न्तरि॑ख्षम् ।
तच्छ्रो॒णैति॒ श्रव॑ इ॒च्छमा॑ना ।
पुण्य॒ꣵ॒ श्लोक॒य्ँयज॑मानाय कृण्व॒ती ।

भट्टभास्कर-टीका

14त्रेधेति ॥ विष्णुरुरुगायः उरुभिः महात्मभिः गातव्यः स्तोतव्यः त्रेधा विचक्रमे विक्रान्तवान् । महीं महतीं दिवं पृथिवीं अन्तरिक्षं च श्रोणायां, तस्मादियं श्रोणा श्रवः अन्नं यशो वा इच्छमाना उत्पादयन्ती यजमानाय एति गच्छति ॥ कर्मणः संप्रदानत्वात् चतुर्थी । यजमानाय च पुण्यं श्लोकं स्तोत्रं कृण्वती कुर्वती - अहो सम्यगिष्टमनेनेति । यद्वा - पुण्यं श्लोकं यजमानाय प्रजाभिः कुर्वती कारयन्ती ॥

{विष्ण॑वे॒ स्वाहा॑ श्रो॒णायै॒ स्वाहा॑।
श्लोका॑य॒ स्वाहा॑ श्रु॒ताय॒ स्वाहा॑।}

२० श्रोणा ...{Loading}...
विश्वास-टिप्पनी

+++(α, β and γ Aquilae)+++

मानसतरङ्गिणीकृत्
  • " A dense part of the Milky Way with excellent sights of star fields, with globular NGC 6760 eta Aquilae in the wing of the Eagle is a Cepheid variable that varies clearly enough to be perceived by the naked eye under good skies over a period of ~ 1 week. .. This star is < 30 Myr old"
धनिष्ठाः/ श्रविष्ठाः - वसवः
15 अष्टौ देवा ...{Loading}...

अ॒ष्टौ दे॒वा वस॑वस् सो॒म्यासः॑।
चत॑स्रो दे॒वीर् अ॒जराः॒ श्रवि॑ष्ठाः।
ते य॒ज्ञम् पा॑न्तु॒ रज॑सᳶ पु॒रस्ता॑त्।
स॒व्ँव॒त्स॒रीण॑म् अ॒मृतꣳ॑ स्व॒स्ति।

15 अष्टौ देवा ...{Loading}...
मूलम्

अ॒ष्टौ दे॒वा वस॑वस्सो॒म्यासः॑ ।
चत॑स्रो दे॒वीर॒जरा॒श्श्रवि॑ष्ठाः ।
ते य॒ज्ञम्पा᳚न्तु॒ रज॑सᳶ प॒रस्ता᳚त् ।
स॒व्ँव॒थ्स॒रीण॑म॒मृतꣵ॑ स्व॒स्ति ॥18॥

भट्टभास्कर-टीका

15श्रविष्ठानाम् - अष्टाविति ॥ अष्टो वसुनामानः देवाः सोम्याः सोमार्हाः, चतस्रश्च देव्यः श्रविष्ठाः नक्षत्रं, तारकापेक्षं चतुष्ट्वम् । अजराः अविनाशाः । ते वसवः श्रविष्ठाश्च । ते च ता श्च ते, पुंस एकशेषः । यज्ञं इममास्माकीनं पान्तु । रजसः अन्तरिक्षस्य परस्तात् उपरि स्थिताः रजोगुणतो वा रजोगुणापगमादनन्तरमित्यर्थः । संवत्सरीणं संवत्सरभाविनं ‘संपरिपूर्वात्ख च’ इति खः । अमृतं अमृतत्वं स्वस्ति अविघ्नेन यथा भवति तथा यज्ञं पान्तु ॥

16 यज्ञन्नᳶ पान्तु ...{Loading}...

य॒ज्ञन् नᳶ॑ पान्तु॒ वस॑वᳶ पु॒रस्ता॑त्।
द॒क्षि॒ण॒तो॑ ऽभिय॑न्तु॒ श्रवि॑ष्ठाः।
पुण्य॒न् नक्ष॑त्रम् अ॒भि सव्ँवि॑शाम
मा नो॒ अरा॑तिर् अ॒घश॒ꣳ॒सा ऽग॑न्न्

16 यज्ञन्नᳶ पान्तु ...{Loading}...
मूलम्

य॒ज्ञन्न॑ᳶ पान्तु॒ वस॑वᳶ पु॒रस्ता᳚त् ।
द॒ख्षि॒ण॒तो॑ऽभिय॑न्तु॒ श्रवि॑ष्ठाः ।
पुण्य॒न्नख्ष॑त्रम॒भिसव्ँ वि॑शाम ।
मा नो॒ अरा॑तिर॒घश॒ꣳ॒साऽगन्न्॑ ।

भट्टभास्कर-टीका

16यज्ञं न इति ॥ अस्माकं यज्ञं वसवः पुरस्तात् पूर्वस्यां दिशि पान्तु । श्रविष्ठाश्च दक्षिणतः दक्षिणस्यां दिश्यभियन्तु आभिमुख्येन प्राप्नुवन्तु । श्रविष्ठाः पुनः पितृसम्भवाः दक्षप्रजापतेः पितृत्वमप्यस्ति, ततस्तासां दक्षिणतोऽभिगमनं युक्तम् । वयमपीदं पुण्यं नक्षत्रं अभिसंविशाम आभिमुख्येन परिचरामः ततः अघशंसा पापरुचिः अरातिः नः माऽगन् मागमत् । अरात्यपेक्षं स्त्रीत्वम् । गमेर्लुडिः ‘मन्त्रे घस’ इति च्लेर्लुक् ॥

{वसु॑भ्यः॒ स्वाहा॒ श्रवि॑ष्ठाभ्यः॒ स्वाहा॑।
अग्रा॑य॒ स्वाहा॒ परी॑त्यै॒ स्वाहा॑।}

२१ श्रविष्ठा ...{Loading}...
विश्वास-टिप्पनी

+++(α to δ Delphini)+++

मानसतरङ्गिणीकृत्
  • An ancient solstitial constellation.
  • “From an observer’s viewpoint the Blue Flash Nebula NGC 6905 right at the top is a good challenge. … NGC 6934 is a good globular.”
शतभिषग् - वरुणः
17 ख्षत्रस्य राजा ...{Loading}...

क्ष॒त्रस्य॒ राजा॒ वरु॑णो ऽधिरा॒जः।
नक्ष॑त्राणाꣳ श॒तभि॑ष॒ग् वसि॑ष्ठः।
तौ दे॒वेभ्यᳵ॑ कृणुतो दी॒र्घम् आयुः॑।
श॒तꣳ स॒हस्रा॑ भेष॒जानि॑ धत्तः

17 ख्षत्रस्य राजा ...{Loading}...
मूलम्

ख्ष॒त्रस्य॒ राजा॒ वरु॑णोऽधिरा॒जः ।
नख्ष॑त्राणाꣳ श॒तभि॑ष॒ग्वसि॑ष्ठः ।
तौ दे॒वेभ्य॑ᳵ कृणुतो दी॒र्घमायुः॑ ।
श॒तꣳ स॒हस्रा॑ भेष॒जानि॑ धत्तः ।

भट्टभास्कर-टीका

17शतभिषजः - क्षत्त्रस्येति ॥ क्षत्त्रस्य बलस्य क्षत्त्रजातेर्वा राजा स्वामी वरुणः अधिराजः अधिकदीप्तिः नक्षत्राणां मध्ये वसिष्ठः प्रशस्यतमः शतभिषङ्नक्षत्रं, तौ वरुणशतभिषजौ देवेभ्यः अग्न्यादिभ्यः । यद्वा - यजमानस्यापि देवत्वात् । ‘एष वा एतर्हीन्द्रो यो यजते’ इति । ‘अग्निर्वै दीक्षितः तस्मादेनम्’ इति च । ऋत्विजोपि देवाः ‘एते वै देवाः प्रत्यक्षं यद्ब्राह्मणाः’ इति । तेभ्यः दीर्घं आयुः कृणुत कृरुतम् । भेषजानि अनिष्टोपशमनानि शतं सहस्रा सहस्रसंख्यानि धत्तः धत्ताम् ॥

18 यज्ञन्नो राजा ...{Loading}...

य॒ज्ञन् नो॒ राजा॒ वरु॑ण॒ उप॑यातु
तन् नो॒ विश्वे॑ अ॒भि संय॑न्तु दे॒वाः।
तन् नो॒ नक्ष॑त्रꣳ श॒तभि॑षग् जुषा॒णम्
दी॒र्घम् आयुᳶ॒ प्रति॑ रद्+++(=दद्यात्)+++ भेष॒जानि॑॥

18 यज्ञन्नो राजा ...{Loading}...
मूलम्

य॒ज्ञन्नो॒ राजा॒ वरु॑ण॒ उप॑यातु ।
तन्नो॒ विश्वे॑ अ॒भिसय्ँय॑न्तु दे॒वाः ॥19॥
तन्नो॒ नख्ष॑त्रꣳ श॒तभि॑षग्जुषा॒णम् ।
दी॒र्घमायु॒ᳶ प्रति॑रद्भेष॒जानि॑ ।

भट्टभास्कर-टीका

18यज्ञमिति ॥ वरुणो राजा अस्माकं यज्ञमुपयातु । तेनैव वरुणागमहेतुना वरुणराजानः विश्वे देवा अपि । अथ तच्छतभिषक् नक्षत्रं जुषाणं प्रीयमाणं अस्मान्वा प्रीणयितुं अस्मभ्यं दीर्घमायुः भेषजानि च प्रतिरत् वर्धतु ॥

{वरु॑णाय॒ स्वाहा॒ श॒तभि॑षजे॒ स्वाहा॑।
भे॒ष॒जेभ्यः॒ स्वाहा॑।}

२२ शतभिषा ...{Loading}...
विश्वास-टिप्पनी

+++(Sadachbia = γ Aquarii इति केचित्। Fomalhaut स्याद् इत्यन्ये।)+++

मानसतरङ्गिणीकृत्
  • “The taittirIya brAhmaNa associates this with varuNa; however, the taittirIya saMhitA makes it 1 of the 3 indra nakShatra-s.”
  • “There is an asterism of Iranians known as Satavaēsa, which we hold to be the equivalent of the Vedic one. The Iranian asterism was associated with the sea while the Vedic one with Varuṇa. The possibility of Fomalhaut (α Pisces Austrinisis) being this star is not implausible.”
  • “It is believed to be the group of stars around Lambda Aquarii a slowly pulsating red giant. "
  • " First and foremost is the Helix Nebula NGC 7293 which was discovered by Karl Harding, while making his giant star atlas funded along with Gauss by Laplace and Lagrange. It is a glorious sight even with a mere 6in reflector. Then there is M2 which along with M 56 which we saw in the vicinity of abhijit remarkably is is part a former dwarf galaxy termed the Gaia sausage that was swallowed by the Milky Way well before the birth of the sun. Another great planetary is the Saturn Nebula NGC 7009 discovered by Herschel.”
प्रोष्ठपदाः/ भाद्रपदाः पूर्वाः - अज एकपात्
19 अज एकपादुदगात्पुरस्तात् ...{Loading}...

अ॒ज एक॑पा॒द् उद॑गात् पु॒रस्ता॑त्।
विश्वा॑ भू॒तानि॑ प्रति॒ मोद॑मानः।
तस्य॑ दे॒वाᳶ प्र॑स॒वय्ँ य॑न्ति॒ सर्वे॑।
प्रो॒ष्ठ॒प॒दासो॑ अ॒मृत॑स्य गो॒पाः।

19 अज एकपादुदगात्पुरस्तात् ...{Loading}...
मूलम्

अ॒ज एक॑पा॒दुद॑गात्पु॒रस्ता᳚त् ।
विश्वा॑ भू॒तानि॑ प्रति॒मोद॑मानः ।
तस्य॑ दे॒वाᳶ प्र॑स॒वय्ँय॑न्ति॒ सर्वे᳚ ।
प्रो॒ष्ठ॒प॒दासो॑ अ॒मृत॑स्य गो॒पाः ।

भट्टभास्कर-टीका

19प्रोष्ठपदानाम् - अज इति ॥ अज एकपादिति पदद्वयमपि अग्निविशेषस्याख्या अजः अजनः सुष्ठु गन्ता एकः पादोऽस्येति एकपात् एकेन पादेन देवान् रक्षन् । ‘संख्यासुपूर्वस्य’ इति लोपस्समासान्तः । स पुरस्तादुदगात् उदेति भूतजातेषु प्रथममाविर्भवति । विश्वानि च भूतानि प्रति मोदमानः प्रत्येकमनुगृह्णन् । तस्य प्रसवं अनुज्ञां सर्वेऽपि देवाः यन्ति तस्य विधेयतां गच्छन्ति न कोपि लङ्घितुं शक्नोति । प्रोष्ठपदाश्च नक्षत्रं तस्य प्रसवं यन्तीत्येव । अमृतस्य अमृतत्वस्य गोपाः गोपायितारः ॥

20 विभ्राजमानस्समिधान उग्रः ...{Loading}...

वि॒भ्राज॑मानस् समिधा॒न उ॒ग्रः।
आ ऽन्तरि॑क्षम् अरुह॒द् अग॒न्+++(=प्राप्नोत्)+++ द्याम्।
तꣳ सूर्य॑न् दे॒वम् अ॒जम् एक॑पादम्।
प्रो॒ष्ठ॒प॒दासो॒ अनु॑यन्ति॒ सर्वे॑॥

20 विभ्राजमानस्समिधान उग्रः ...{Loading}...
मूलम्

वि॒भ्राज॑मानस्समिधा॒न उ॒ग्रः ।
आऽन्तरि॑ख्षमरुह॒दग॒न्द्याम् ।
तꣳ सूर्य॑न्दे॒वम॒जमेक॑पादम् ।
प्रो॒ष्ठ॒प॒दासो॒ अनु॑यन्ति॒ सर्वे᳚ ॥20॥

भट्टभास्कर-टीका

20विभ्राजमान इति ॥ विभ्राजमानः विशेषेण दीप्यमानः समिधानः समिन्धयन् भावात् उग्रः उद्गूर्णतेजाः उदकस्य वा दाता ईदृशोऽयं अज एकपात् अन्तरिक्षमारुहत् आरोहति । ‘कृमृदृरुहिभ्यः छन्दसि’ इत्यञ्, द्यां च अगन् गच्छति ‘मन्त्रे घस’ इहि च्लेर्लुक् । तं अजं एकपादं देवं सूर्यं सावनं प्रेरकं वा सर्वे प्रोष्ठपदा अनुयन्ति अनुसरन्ति ॥

{अ॒जायैक॑पदे॒ स्वाहा॑ प्रोष्ठप॒देभ्यः॒ स्वाहा॑।
तेज॑से॒ स्वाहा॑ ब्रह्मवर्च॒साय॒ स्वाहा॑।}

२३ प्रोष्ठपदः ...{Loading}...
विश्वास-टिप्पनी

+++(α and β Pegasi)+++

bce-3000 naxatra-chakra
bce-3000 naxatra-chakra
  • धिष्णियाभिस् तार्क्ष्य-सम्बन्धो ऽन्यत्र प्रपञ्चितः। सर्वम् एतद् अन्यत्र प्रपञ्चितम्।
  • ३००० BCE इति काले ऽत्र परिसरे ऽवर्तत +अयनवर्तन-स्थानम्।
प्रोष्ठपदाः/ भाद्रपदाः उत्तराः - अहिर् बिध्नियः
21 अहिर्बुध्नियᳶ प्रथमान ...{Loading}...

अहि॑र् बु॒ध्नियᳶ॒+++(=मूलस्थः)+++ प्रथ॑मान एति
श्रेष्ठो॑ दे॒वाना॑म् उ॒त मानु॑षाणाम्।
तम् ब्रा॑ह्म॒णास् सो॑म॒पास् सो॒म्यासः॑+++(=रमणीयदेहाः)+++।
प्रो॒ष्ठ॒प॒दासो॑ अ॒भिर॑क्षन्ति॒ सर्वे॑।

21 अहिर्बुध्नियᳶ प्रथमान ...{Loading}...
मूलम्

अहि॑र्बु॒ध्निय॒ᳶ प्रथ॑मान एति ।
श्रेष्ठो॑ दे॒वाना॑मु॒त मानु॑षाणाम् ।
तम्ब्रा᳚ह्म॒णास्सो॑म॒पास्सो॒म्यासः॑ ।
प्रो॒ष्ठ॒प॒दासो॑ अ॒भिर॑ख्षन्ति॒ सर्वे᳚ ।

भट्टभास्कर-टीका

21उत्तरप्तोष्ठपदानाम् - अहिर्बुध्निय इति ॥ पदद्वयमग्नेरेव नामान्तरम् । पूर्वोत्तरप्रोष्ठपदनक्षत्रदेवतयोः सूर्याग्न्योः द्विनामत्वमन्यत्र सिद्धं ‘अजोऽस्येकपादहिरसि बुध्नियः’ इति । अस्त्येव ब्राह्मणे धिष्णियप्रकरणे ‘द्वेद्वे नायनी कुरुध्वम्’ इति । ‘अहे बुध्निय मन्त्रं मे गोपाय’ इत्युपस्थाने च । प्रथमानः विश्वं व्याप्नुवन् एति गच्छति । श्रेष्ठः प्रशस्यतमः देवानां मध्ये मानुषाणामपि पूज्यतमः । तं देवं अहिर्बुध्रियं ब्राह्मणाः सोमपाः सोमस्य पातारः सोम्याः सोमार्हाः प्रोष्ठपदाश्चाभिरक्षन्ति अभितः तर्पयन्ति ॥

22 चत्वार एकमभिकर्म ...{Loading}...

च॒त्वार॒ एक॑म् अ॒भि कर्म॑ दे॒वाः।
प्रो॒ष्ठ॒प॒दास॒ इति॒ यान् वद॑न्ति
ते बु॒ध्निय॑म् परि॒षद्यꣳ॑ स्तु॒वन्तः॑
अहिꣳ॑ रक्षन्ति॒ नम॑सोप॒सद्य॑

22 चत्वार एकमभिकर्म ...{Loading}...
मूलम्

च॒त्वार॒ एक॑म॒भिकर्म॑ दे॒वाः ।
प्रो॒ष्ठ॒प॒दास॒ इति॒ यान् वद॑न्ति ।
ते बु॒ध्निय॑म्परि॒षद्यꣵ॑ स्तु॒वन्तः॑ ।
अहिꣳ॑ रख्षन्ति॒ नम॑सोप॒सद्य॑ ।

भट्टभास्कर-टीका

22चत्वार इति ॥ चत्वारोपि देवाः एकं कर्माभिगभ्य संभूय साधयन्ति । यद्वा - कर्मदेवाः सुकृतातिशयेन देवत्वमाप्ताः ‘ये कर्मणा देवानपियन्ति’ इति । प्रोष्ठपदास इति यान्वदन्ति लोके ते चत्वारोपि संभूय कर्माणि साधयन्ति । ते पूर्वोक्तदेवाः प्रोष्ठपदाः बुध्नियं परिषद्यं परित उपास्यं उपरिं वा सीदन्तं अहिं च स्तुवन्तः नमसा नमस्कारादिना अन्नेन हविषा वा उपसद्य उपसङ्गम्य रक्षन्ति तर्पयन्ति । यद्वा - एकं किंचित् प्रशस्तं कर्म चत्वारस्ते अभिगच्छन्ति, ते तत्कर्मकारिणो जनाः बुध्नियं अहिं च स्तुवन्तः नमस्कारादिना उपसद्य रक्षन्ति तर्पयन्ति ॥

{अह॑ये बु॒ध्निया॑य॒ स्वाहा॑ प्रोष्ठप॒देभ्यः॒ स्वाहा॑।}

२४ प्रोष्ठपदः ...{Loading}...
विश्वास-टिप्पनी

+++(γ Pegasi and α Andromedae)+++

bce-3000 naxatra-chakra
bce-3000 naxatra-chakra
  • यदा मृगशीर्षे बभूव विषुवस्थानम्, अत्रासीत् सौरं दक्षिणतमम् अयनम्। विश्व-स्कम्भमूलस्थो ऽहिर्बुध्नियः। स च प्रोष्ठपदास्व् अपि कल्पितः प्रायेण तेनैव कारणेन।
  • धिष्णियाभिस् तार्क्ष्य-सम्बन्धो ऽन्यत्र प्रपञ्चितः। सर्वम् एतद् अन्यत्र प्रपञ्चितम्।
मानसतरङ्गिणीकृत्
  • The yavana-s saw it representing the ancestress of themselves & the Iranics.
  • “Of course M 31 the great Andromeda galaxy & its satellite galaxies M 32 and M 110. Probably someone sitting on a planet there is writing likewise about the Milky Way & the Magellanic clouds.”
रेवती - पूषा
23 पूषा रेवत्यन्वेति ...{Loading}...

पू॒षा रे॒वत्य् अन्वे॑ति॒ पन्था॑म्।
पु॒ष्टि॒पती॑ पशु॒पा वाज॑+++(=अन्न)+++बस्त्यौ+++(बलौ)+++।
इ॒मानि॑ ह॒व्या प्रय॑ता जुषा॒णा
सु॒गैर् नो॒ यानै॒र् उप॑याताय्ँ य॒ज्ञम्।

23 पूषा रेवत्यन्वेति ...{Loading}...
मूलम्

पू॒षा रे॒वत्यन्वे॑ति॒ पन्था᳚म् ।
पु॒ष्टि॒पती॑ पशु॒पा वाज॑बस्त्यौ ॥21॥
इ॒मानि॑ ह॒व्या प्रय॑ता जुषा॒णा ।
सु॒गैर्नो॒ यानै॒रुप॑याताय्ँ य॒ज्ञम् ।

भट्टभास्कर-टीका

23रेवत्याः - पूषेति ॥ पूषा रेवती च पन्थां एकं मार्गं अन्वेति अनुगच्छति संहत्यकारिणौ वर्तते । तौ कौ? पुष्टिपती पुष्टेः पातारौ पशुपा पशूनां पालयितारौ । ‘सुपां सुलुक्’ इत्याकारः । वाजबस्त्यौ वाजेन अन्नेन बस्त्यौ बलहेतू जगताम् । बले वा साधू । बस्तिशब्दः दासीभारादिषु द्रष्टव्यः । यद्वा - वाजो बस्त्यो ययोस्तादृशौ तौ इमानि अस्मदीयानि हव्यानि प्रयता प्रयतानि जुषाणा सेवमानौ सुगैः शोभनगमनसाधनैः यौनैर्वाहनैः नः यज्ञं उपयातां उपगच्छताम् ॥

24 ख्षुद्रान्पशून्रख्षतु ...{Loading}...

क्षु॒द्रान् प॒शून् र॑क्षतु रे॒वती॑ नः।
गावो॑ नो॒ अश्वा॒ꣳ॒ अन्वे॑तु पू॒षा।
अन्न॒ꣳ॒ रक्ष॑न्तौ बहु॒दा विरू॑पम्।
वाजꣳ॑+++(=अन्नम्)+++ सनुता॒य्ँ+++(=दत्ताम्)+++ यज॑मानाय य॒ज्ञम्॥

24 ख्षुद्रान्पशून्रख्षतु ...{Loading}...
मूलम्

ख्षु॒द्रान्प॒शून्र॑ख्षतु रे॒वती॑ नः ।
गावो॑ नो॒ अश्वा॒ꣳ॒ अन्वे॑तु पू॒षा ।
अन्न॒ꣳ॒ रख्ष॑न्तौ बहु॒धा विरू॑पम् ।
वाजꣳ॑ सनुता॒य्ँयज॑मानाय य॒ज्ञम् ।

भट्टभास्कर-टीका

24क्षुद्रानिति ॥ नः क्षुद्रान् अजादीन् पशून् रेवती रक्षतु । नः गावः गाः । आत्वाभावः छान्दसः । अश्वांश्च पूषाऽन्वेतु रक्षतु । तौ द्वावपि अन्नं विरूपं विविधरूपं बहुधा रक्षन्तौ वाजं अन्नवन्तं यज्ञं यजमानाय सनुतां दत्ताम् । षणु दाने ॥

{पू॒ष्णे स्वाहा॑ रे॒वत्यै॒ +++(=ζ Piscium)+++ स्वाहा॑।
प॒शुभ्यः॒ स्वाहा॑।}

२५ रेवती ...{Loading}...
विश्वास-टिप्पनी

+++(ζ Piscium)+++

मानसतरङ्गिणीकृत्
  • “Classical astronomy identifies it with ζ Piscium. This is a really undistinguished star. So we cannot be sure if that is what was originally meant or a higher up star like β Andromedae was used. Narahari Achar holds that the goddess Pathyā Revatī mentioned in the Svastisūkta of the Atri-s implied this asterism. While this is not impossible we are not entirely sure of that especially given the undistinguished nature of the star identified with it.”
  • “The constellation of Pisces while clearly discernable under dark skies is a dim one. This goes against the early H tendency to use bright asterisms to mark nakShatra-s even if they are far from the ecliptic. What were the stars defining revatI? The nakShatra-kalpa of the atharvan tradition holds say ekA revatI: hence, there was only one star in it. siddhAnta astronomy takes that to be zeta Piscium. While close to the ecliptic, at mag 5.2 that is really a faint start to have been the original. 2. We know that the preceding proShThapada literally meant the constellation of the feet of the stool. That makes it unambiguous that square of Pegasus was seen as a stool by the Arya-s, and revatI should be to the west of that. Hence, we suspect that originally revatI was probably beta Andromedae.”
  • 2nd deity: “The next puzzling issue regarding revatI is the assignment of dual deities with it - puShTipatI pashupA. One of those is transparently named as pUShan. Who is the other one? Most likely it is the goddess pathyA revatI, whom the gopathabrAhmaNa of3 the AV holds to be the wide of the goat-riding pUShan, with the 2 being the guardians of paths, and in this case horses, cows and other domesticates+ food. … The aitareya brAhmaNa mentions the sun following the path laid our out pathyA (revatI). Given the solar connections of puShan, this coupling is most likely.”
अश्विनौ
25 तदश्विनावश्वयुजोपयाताम् ...{Loading}...

तद् अ॒श्विना॑व् अश्व॒युजोप॑याताम्
शुभ॒ङ् गमि॑ष्ठौ सु॒यमे॑भि॒र् अश्वैः॑।
स्वन् नक्ष॑त्रꣳ ह॒विषा॒ यज॑न्तौ
मध्वा॒ सम्पृ॑क्तौ॒ यजु॑षा॒ सम॑क्तौ

25 तदश्विनावश्वयुजोपयाताम् ...{Loading}...
मूलम्

तद॒श्विना॑वश्व॒युजोप॑याताम् ।
शुभ॒ङ्गमि॑ष्ठौ सु॒यमे॑भि॒रश्वैः᳚ ।
स्वन्नख्ष॑त्रꣳ ह॒विषा॒ यज॑न्तौ ।
मध्वा॒ सम्पृ॑क्तौ॒ यजु॑षा॒ सम॑क्तौ ॥22॥

भट्टभास्कर-टीका

25अश्वयुजोः - तदिति ॥ अश्विनौ देवते अश्वयुजा अश्वयुग्भ्यां सह । तृतीयाद्विवचनस्याकारः । तत् मदीयं कर्म उपयाताम् । शुभं गमिष्ठौ अतिशयेन शोभनं गन्तारौ । गन्तृशब्दात् ‘तुच्छन्दसि’ इति इष्ठनि ‘तुरिष्ठेमेयस्सु’ इति लोपः । सुयमेभिः सुदान्तैः अश्वैः, स्वं आत्मीयं नक्षत्रं अश्वयुगाख्यं हविषा यजन्तौ पूजयन्तौ, मध्या मधुरसेन हविषा संपृक्तौ यजुषा मन्त्रेण समक्तौ सम्यक् प्रकाशितौ ॥

26 यौ देवानाम्भिषजौ ...{Loading}...

यौ दे॒वाना॑म् भि॒षजौ॑ हव्यवा॒हौ।
विश्व॑स्य दू॒ताव् अ॒मृत॑स्य गो॒पौ।
तौ नक्ष॑त्रञ् जुजुषा॒णोप॑याताम्
नमो॒ ऽश्विभ्या॑ङ् कृणुमो ऽश्व॒युग्भ्या॑म्॥

26 यौ देवानाम्भिषजौ ...{Loading}...
मूलम्

यौ दे॒वाना᳚म्भि॒षजौ॑ हव्यवा॒हौ ।
विश्व॑स्य दू॒ताव॒मृत॑स्य गो॒पौ ।
तौ नख्ष॑त्रञ्जुजुषा॒णोप॑याताम् ।
नमो॒ऽश्विभ्या᳚ङ्कृणुमोऽश्व॒युग्भ्या᳚म् ।

भट्टभास्कर-टीका

26यौ देवानामिति ॥ अश्विनौ देवानां भिषजौ हव्यवाहौ हविषां वोढारौ वृष्टिद्वारेण । विश्वस्य लोकस्य दूतौ दूतवद्धितकारिणौ अमृतस्य अमृतत्वस्य गोपौ गोपायितारौ । तौ नक्षत्रं आत्मीयं जुजुषाणा सेवमानौ । छान्दसस्य लिटः कानजादेशः । तावस्मद्यज्ञं उपयाताम् । ताभ्यां अश्विभ्यां अश्वयुग्भ्यां च नमः कृणुमः कुर्मः ॥

{अ॒श्विभ्या॒ꣳ॒ स्वाहा॑ऽश्व॒युग्भ्या॒ꣳ॒ स्वाहा॑।
श्रोत्रा॑य॒ स्वाहा॒ श्रुत्यै॒ स्वाहा॑।}

२६ अश्विनी ...{Loading}...
विश्वास-टिप्पनी

+++(β and α Arietis)+++

  • “अश्विनौ व्यात्तम्” इत्युत्तरनारयणे। भरणीविषुवकाले। विवरणानि अत्र
  • पश्चाद् विशुवस्थानम् अत्र।
भरणी - यमः
27 अप पाप्मानम्भरणीर्भरन्तु ...{Loading}...

अप॑ पा॒प्मान॒म् भर॑णीर् +++(=35, 39, 41 Arietis)+++ भरन्तु
तद् य॒मो राजा॒ भग॑वा॒न्॒ विच॑ष्टाम्
लो॒कस्य॒ राजा॑ मह॒तो म॒हान् हि।
सु॒गन् नᳶ॒ पन्था॒म् अभ॑यङ् कृणोतु

27 अप पाप्मानम्भरणीर्भरन्तु ...{Loading}...
मूलम्

अप॑ पा॒प्मान॒म्भर॑णीर्भरन्तु ।
तद्य॒मो राजा॒ भग॑वा॒न्॒विच॑ष्टाम् ।
लो॒कस्य॒ राजा॑ मह॒तो म॒हान् हि ।
सु॒गन्नᳶ पन्था॒मभ॑यङ्कृणोतु ।

भट्टभास्कर-टीका

27भरणीनाम् - अपेति ॥ भरणीः नक्षत्रं नः पापं अपभरन्तु अपहरन्तु । ‘हृग्रहोर्भः’ इति भत्वम् । यमश्च राजा भगवान् ऐश्वर्यवान् तदस्मदभिमतं विचष्टां पश्यतु, यथा नः सिद्ध्यति तथेति । महतः लोकस्य राजा स्वामी स्वयमपि महान् । सुगं देशान्तरगमने शोभनगमनं नः पन्था पन्थानं कर्ममार्गं वा लोकान्तरगमने अभयं हिंसारहितं कृणोतु करोतु ॥

28 यस्मिन्नख्षत्रे यम ...{Loading}...

यस्मि॒न् नक्ष॑त्रे य॒म एति॒ राजा॑।
यस्मि॑न्न् एनम् अ॒भ्यषि॑ञ्चन्त दे॒वाः।
तद् अ॑स्य चि॒त्रꣳ ह॒विषा॑ यजाम
अप॑ पा॒प्मान॒म् भर॑णीर् भरन्तु

28 यस्मिन्नख्षत्रे यम ...{Loading}...
मूलम्

यस्मि॒न्नख्ष॑त्रे य॒म एति॒ राजा᳚ ।
यस्मि॑न्नेनम॒भ्यषि॑ञ्चन्त दे॒वाः ।
तद॑स्य चि॒त्रꣳ ह॒विषा॑ यजाम ।
अप॑ पा॒प्मान॒म्भर॑णीर्भरन्तु ।

भट्टभास्कर-टीका

28यस्मिन्निति ॥ यस्मिन्नक्षत्रे यमः राजा एति स्वामित्वेनानुप्रविशति । किं च - यस्मिन्नक्षत्रे एनं देवाः पितृराज्ये अभ्यषिञ्चन्त । तत् भरणीनक्षत्रं अस्य यमस्य संबन्धि चित्रं चायनीयं वयं हविषा यजाम ।

अप पाप्मानमिति । गतम् ॥

  • भरणीः नक्षत्रं नः पापं अपभरन्तु अपहरन्तु । ‘हृग्रहोर्भः’ इति भत्वम् ।

    • अप॑ पा॒प्मान॒म्भर॑णीर्भरन्तु ।
      तद्य॒मो राजा॒ भग॑वा॒न्॒विच॑ष्टाम् ।
      लो॒कस्य॒ राजा॑ मह॒तो म॒हान् हि ।
      सु॒गन्नᳶ पन्था॒मभ॑यङ्कृणोतु ।

    • 27भरणीनाम् - अपेति ॥ भरणीः नक्षत्रं नः पापं अपभरन्तु अपहरन्तु । ‘हृग्रहोर्भः’ इति भत्वम् । यमश्च राजा भगवान् ऐश्वर्यवान् तदस्मदभिमतं विचष्टां पश्यतु, यथा नः सिद्ध्यति तथेति । महतः लोकस्य राजा स्वामी स्वयमपि महान् । सुगं देशान्तरगमने शोभनगमनं नः पन्था पन्थानं कर्ममार्गं वा लोकान्तरगमने अभयं हिंसारहितं कृणोतु करोतु ॥

{य॒माय॒ स्वाहा॑ ऽप॒भर॑णीभ्य॒स् स्वाहा᳚ ।
रा॒ज्याय॒ स्वाहा॒ ऽभिजि॑त्यै॒ स्वाहा᳚ ॥55॥}

२७ भरणी ...{Loading}...
विश्वास-टिप्पनी

+++(35, 39, and 41 Arietis)+++

अमावास्या
29 निवेशनी ...{Loading}...

नि॒वेश॑नी स॒ङ्गम॑नी॒ वसू॑ना॒व्ँ,
विश्वा॑ रू॒पाणि॒ वसू॑न्य् आवे॒शय॑न्ती
स॒ह॒स्र॒पो॒षꣳ सु॒भगा॒ ररा॑णा॒
सा न॒ आग॒न् वर्च॑सा सव्ँविदा॒ना॥

29 निवेशनी ...{Loading}...
मूलम्

नि॒वेश॑नी स॒ङ्गम॑नी॒ वसू॑ना॒व्ँविश्वा॑ रू॒पाणि॒ वसू᳚न्यावे॒शय॑न्ती ।
स॒ह॒स्र॒पो॒षꣳ सु॒भगा॒ ररा॑णा॒ सा न॒ आ ग॒न्वर्च॑सा सव्ँविदा॒ना ।

मूलम्

नि॒वेश॑नी॒

भट्टभास्कर-टीका

निवेशनी वसूनाम्, निविशते वसूनि यस्यां तादृशी, संगमनी संगच्छन्ती वसून्यनया तादृशशीलया विश्वानि च रूपाणि यानि रूपवन्ति वसूनि तानि आवेशयन्ती अस्मात्प्रत्युत्कर्षन्ती सहस्नपोषं सहस्रपुष्टियुक्तं यथा तथा रराण ददातु । रातेर्व्यत्ययेनात्मनेपदम्, शपः श्लुः । सुभगा शोभनधना सा तादृशी सती अमावास्या नो ऽस्मान् आगन् आगच्छतु वर्चसा दीप्त्या उपलक्षिता संविदाना सम्यग्जानती । ‘समो गमृच्छि’ इत्यात्मनेपदम्, गमेश्छान्दसे लङि शपो लुक्, ‘मो नो धातोः’ ॥

भट्टभास्कर-टीका

29-30अमावास्यायाः - ‘निवेशनी, यत्ते देवा अदधुः’ इति व्याख्याते चैते ‘पूर्णा पश्चात्’ इत्यत्र ॥

30 यत्ते देवा ...{Loading}...

यत् ते॑ दे॒वा अद॑धुर् भाग॒-धेय॒म्
अमा॑वास्ये सव्ँवस॑न्तो महि॒त्वा।
सा नो॑ य॒ज्ञम् पि॑पृहि+++(←पालनपूरणयोः)+++ विश्व-वारे+++(←वरणे?)+++
र॒यिन् नो॑ धेहि सुभगे सु॒वीर॑म्॥

30 यत्ते देवा ...{Loading}...
मूलम्

यत्ते॑ दे॒वा अद॑धुर्भाग॒धेय॒ममा॑वास्ये स॒व्ँवस॑न्तो महि॒त्वा ।
सा नो॑ य॒ज्ञम्पि॑पृहि विश्ववारे र॒यिन्नो॑ धेहि सुभगे सु॒वीर᳚म् ।

मूलम्

यत्ते॑ दे॒वा अद॑धुः ॥23॥

भट्टभास्कर-टीका

हे अमावास्ये ते तव देवाः भागधेयं इमं होमं यत् यस्मात् अदधुः दत्तवन्तः । अमा सह सूर्याचन्द्रमसावस्यां संवसत इत्यमावास्या । ‘अमावस्यदन्यतरस्याम्’ इति निपात्यते, पादादित्वादामन्त्रिताद्युदात्तत्वम् । देवा विशेष्यन्ते - संवसन्तः संभूयैकत्र वसन्तमहित्वा तव माहात्म्येन । यस्मात्तव भागमिमं होममदधुः, तस्मात् हे विश्ववारे विश्वकालवति विश्वैर्वा वरणीये सा तादृशी देवैर्दत्तभागा नोस्माकमिमं यज्ञं होमात्मकं पिपृहि पूरय कामैः, पालय वा । पॄ पालनपूरणयोः, शपः श्लुः, धातोर्ह्रस्वत्वम्, अभ्यासस्य चेत्वम् । यद्वा - पृ प्रीतौ, प्रीत्या गृहाणेत्यर्थः । महित्वशब्दात्तृतीयैकवचनस्याजादेशः । किंच - हे सुभगे कल्याणधने अनेन हविषा प्रीता त्वं नः अस्मभ्यं रयिं धनं सुवीरं कल्याणवीरयुक्तं धेहि धनं देहीति । ‘वीरवीर्यौ च` इत्युत्तर पदात्तत्वम् ॥


अथ द्वितीया - हे अमावास्ये! तुभ्यं देवाः यस्माद्भागधेयमादधुः संवसन्तः सहासीना महिम्ना माहात्म्येन, सा त्वं हे विश्ववारे! विश्वकाले नोऽस्माकं यज्ञं पिपृहि पालय, हे सुभगे नोऽस्मभ्यं सुवीरं शोभनपुत्रादिकं धनं धेहि इति ॥

{अ॒मा॒वा॒स्या॑यै॒ स्वाहा॒ कामा॑य॒ स्वाहा ग॑त्यै॒ स्वाहा॑।}