गृहस्थ-धर्मः

भोजनम्

01 पाणिग्रहणादधि गृहमेधिनोर्व्रतम् ...{Loading}...

पाणिग्रहणादधि गृहमेधिनोर्व्रतम् १

02 कालयोर्भोजनम् ...{Loading}...

कालयोर्भोजनम् २

03 अतृप्तिश्चान्नस्य ...{Loading}...

अतृप्तिश्चान्नस्य ३

जलरक्षणम्

15 नित्यमुदधानान्यद्भिररिक्तानि स्युर्गृहमेधिनोर्व्रतम् ...{Loading}...

नित्यमुदधानान्यद्भिररिक्तानि स्युर्गृहमेधिनोर्व्रतम् १५

अध्ययन-गौणत्वे

19 निवेशे वृत्ते संवत्सरे ...{Loading}...

निवेशे वृत्ते संवत्सरे संवत्सरे द्वौ द्वौ मासौ समाहित आचार्यकुले वसेद्भूयः श्रुतमिच्छन्न् इति श्वेतकेतुः १९

20 एतेन ह्यहं योगेन ...{Loading}...

एतेन ह्यहं योगेन भूयः पूर्वस्मात्कालाच्छ्रुतमकुर्वीति २०

21 तच्छास्त्रैर्विप्रतिषिद्धम् ...{Loading}...

तच्छास्त्रैर्विप्रतिषिद्धम् २१

22 निवेशे हि वृत्ते ...{Loading}...

निवेशे हि वृत्ते नैयमिकानि श्रूयन्ते २२

01 अग्निहोत्रमतिथयः ...{Loading}...

अग्निहोत्रमतिथयः १

02 यच्चान्यदेवं युक्तम् ...{Loading}...

यच्चान्यदेवं युक्तम् २

भृत्याः

10 ये नित्या भाक्तिकास्तेषाम् ...{Loading}...

ये नित्या भाक्तिकास्तेषामनुपरोधेन संविभागो विहितः १०

11 काममात्मानम् भार्याम् पुत्रं ...{Loading}...

काममात्मानं भार्यां पुत्रं वोपरुन्ध्यान्न त्वेव दासकर्मकरम् ११

नियोगः

02 सगोत्रस्थानीयान् न परेभ्यः ...{Loading}...

सगोत्रस्थानीयां न परेभ्यः समाचक्षीत २

03 कुलाय हि स्त्री ...{Loading}...

कुलाय हि स्त्री प्रदीयत इत्युपदिशन्ति ३

04 तदिन्द्रि यदौर्बल्याद्विप्रतिपन्नम् ...{Loading}...

तदिन्द्रि यदौर्बल्याद्विप्रतिपन्नम् ४

05 अविशिष्टं हि परत्वम् ...{Loading}...

अविशिष्टं हि परत्वं पाणेः ५

06 तद्व्यतिक्रमे खलु पुनरुभयोर्नरकः ...{Loading}...

तद्व्यतिक्रमे खलु पुनरुभयोर्नरकः ६

07 नियमारम्भणो हि वर्षीयान् ...{Loading}...

नियमारम्भणो हि वर्षीयान् +++(=गरीयान्)+++ अभ्युदय एवमारम्भणादपत्यात् ७

पर्व-नियमा, मैथुन-नियमा

अन्यत्रोक्ताः।