०१ तानूनप्त्रावदानम् अभिमर्शनम् अवघ्राणं च

अथाध्वर्युः आतिथ्याया ध्रौवात् स्रुचि चमसे वा तानूनप्त्रं समवद्यति । आपतये त्वा गृह्णामि । प्राणायेदम् । परिपतये त्वा गृह्णामि १ । मनस इदम् । तनूनप्त्रे त्वा गृह्णामि । अग्नय इदम् । शाक्वराय त्वा गृह्णामि । शक्त्या इदम् । शक्मन्नोजिष्ठाय त्वा गृह्णामि २ । जीवात्मन इदम्३ । तूष्णीं सकृदाप्याय्य ध्रौवसमाप्तिः । यजमानः - अनु मे दीक्षां दीक्षापतिर्मन्यतामनु तपस्तपस्पतिरञ्जसा सत्यमुपगेषꣳ सुविते मा धाः तानूनप्त्रमभिमृशति । अनाधृष्टमस्यनाधृष्यं देवनामोजोऽभिशस्तिपा अनभिशस्तेन्यम् ऋत्विजस्सर्वे युगपत् स्पृशन्ति ४ । प्रजापतौ त्वा मनसि जुहोमि यजमानस्तानूनप्त्रं त्रिरवजिघ्रति । सकृन्मन्त्रेण द्विस्तूष्णीम् । प्रजापतय इदम् ।