०१ सोमसङ्कल्पः

अथ सोमेन यक्ष्यमाणो ब्राह्मणानार्षेयानृत्विजो वृणीते । यूनस्स्थविरान् वा अनूचानानूर्ध्ववाचोऽ-नङ्गहीनान् । तेभ्यस्सोमं प्राह । वसन्तेऽमावास्यायां पौर्णमास्यां वा सुत्या यथा स्यात्तथोपक्रमः कर्तव्यः । प्रथमसोमे १:- अपरेण गार्हपत्यं दर्भेष्वासीनो दर्भान् धारयमाणः । पवित्रपाणिः पत्न्या सह प्राणानायम्य सङ्कल्पं करोति । त्रिपुरुषसोमपीथविच्छेदनसन्धानार्थं ऐन्द्राग्नपशुं, दौर्ब्राह्मण्य निर्हरणार्थं आश्विनं पशुं, अग्नीषोमीयेन पशुना सहालम्भ्यौ कुर्वन्२ सोमेन यक्ष्ये । ज्योतिष्टोमेनाग्निष्टोमेन रथन्तरेण साम्ना द्वादशशतदक्षिणेन सप्रवर्ग्येण तेन परमेश्वरं प्रीणयानि । एका दीक्षा इति पक्षे एकादश्यामुपक्रमः । तिस्रो दीक्षा इति पक्षे नवम्यामुपक्रमः । यस्य पित्रादयः इष्टप्रथमयज्ञास्स ऐन्द्राग्नेनेष्ट्वाथ सोमेन यजेत । अपि वा अग्नीषोमीयेन सहोपालम्भ्यं कुर्यात् । अथ सङ्कल्पः । प्रातरग्निहोत्रं हुत्वा अपरेण गार्हपत्यं दर्भेष्वासीनो दर्भान् धारयमाणः । पवित्रपाणिः पत्न्या सह प्राणानायम्य, देशकालौ सङ्कीर्त्य ममोपात्त — सोमेन यक्ष्ये ज्योतिष्टोमेनाग्निष्टोमेन रथन्तरेण साम्ना द्वादशशतदक्षिणेन सप्रवर्ग्येण तेन परमेश्वरं प्रीणयानि । विद्युदसि विद्य मे पाप्मानमृतात्सत्यमुपैमि यक्ष्यमाणोऽप उपस्पृशति ।