३२ होत्रकाणां चमसप्रचारः

अथ होत्राः संयाजयन्ति । तस्मै चमसाध्वर्यवः स्वं स्वं चमसं द्रोणकलशादभ्युन्नीय हरन्ति । मैत्रावरुणचमसमादायाहवनीयं गत्वा आश्राव्य प्रत्याश्राविते संप्रेष्यति प्रशास्तर्यज । वषट्कृतानुवषट्कृते हुत्वा हरति भक्षम् । एवमुत्तरैः प्रचरति । ब्रह्मन्यज इति द्वितीये । पोतर्यज इति तृतीये । नेष्टर्यज इति चतुर्थे । अग्नीद्यज इति पञ्चमे । सर्वत्रानुवषट्कारः । मित्रवरुणाभ्यामिदम् । इन्द्रायेदम् । मरुद्भ्य इदम् । अग्नये पात्नीवते त्वष्ट्र इदम् । अग्नय इदम् । मैत्रावरुणादीनां क्रमेण देवताः । अनुवषट्कारे सर्वत्राग्नये स्विष्टकृत इदम् ।