विस्तारः (द्रष्टुं नोद्यम्)
९ महापङ्क्तिः
१० अनुष्टुप्
विश्वेदेवा ऋषयः
(चातुर्मास्येषु) साकमेधपर्वगत त्र्यम्बकहविर्ब्राह्मणं , तन्मन्त्राश्च २-७
भास्करोक्त-विनियोगः
1अथ त्र्यम्बकान्विदधाति - प्रतिपूरुषमेककपालान्निर्वपतीति ॥ ‘अथौषधय इमं देवं त्र्यम्बकैरयजन्त’ इत्यादि ब्राह्मणम् ।
विश्वास-प्रस्तुतिः
(प्रतिस्त्रीकम्) प्र॒ति॒पू॒रु॒षम् (इति) एक॑कपाला॒न् निर्व॑प॒त्य्, (ततश्च) एक॒म् अति॑रिक्तम्।
Keith
For each he offers on one potsherd, and one over.
मूलम्
प्र॒ति॒पू॒रु॒षमेक॑कपाला॒न्निर्व॑प॒त्येक॒मति॑रिक्तम्।
भट्टभास्कर-टीका
पूरुषं पूरुषं प्रतिपूरुषं, पुरुषशब्दपर्यायः पूरुषशब्दः । उपलक्षणत्वात् स्त्रियोपि गृह्यन्ते ।
यजमानस्य यावन्तोमात्यास् सस्त्रीकाः
तावतः एककपालान् निर्वपति;
एकम् अतिरिक्तं सङ्ख्यया निर्वपेत् इति साधु। ‘गतिरनन्तरः’ इति पूर्पदप्रकृतिस्वरत्वम् । ‘जाता एव प्रजा रुद्रान्निरवदयते’ इत्यादि ब्राह्मणम् ॥
भास्करोक्त-विनियोगः
2त्र्यम्बकानादाय गार्हपत्यमुपतिष्ठते - यावन्त इति ॥
विश्वास-प्रस्तुतिः
याव॑न्तो गृ॒ह्याः᳚ (वयं) स्मस् -
तेभ्य॒ᳵ कम्(=सुखम्) अ॑करम् ।
Keith
As many as we are of the house, to them have I made prosperity.
मूलम्
याव॑न्तो गृ॒ह्याः᳚ स्मस्तेभ्य॒ᳵ कम॑करम् ।
भट्टभास्कर-टीका
गृहे भवा गृह्याः । व्यत्ययेनाद्युदात्तत्वाभावः । यावन्तः यत्परिमाणा वयं गृह्याः पुमांसस्त्रियश्च स्मो भवामः; तेभ्यस् सर्वेभ्यो ऽस्मभ्यं कं सुखम् एभिस् त्र्यम्बकैर् अकरं करोमि । यद्वा - सर्वेभ्यस्सुखकरं त्रैय्यम्बकयागाख्यमेतत्कर्म करोमीति । छान्दसो लुङ् । ‘मन्त्रे घस’ इति च्लेर्लुक् । पुरुषव्यत्ययो वा, कं कुर्वीतेति ।
विश्वास-प्रस्तुतिः
पशू॒नाꣳ शर्मा॑सि,
शर्म॒ यज॑मानस्य।
शर्म॑ मे य॒च्छ ।
Keith
Thou art the protection of cattle,
the protection of the sacrifice;
give me protection.
मूलम्
पशू॒नाꣳ शर्मा॑सि,
शर्म॒ यज॑मानस्य।
शर्म॑ मे य॒च्छ ।
भट्टभास्कर-टीका
कस्मादेवमुच्यसे ? इति चेत् - पशूनां सर्वेषां शर्मासि शर्म सुखं शरणं वा त्वमसि । ‘नामन्यतरस्याम्’ इति नाम उदात्तत्वम् ।
किञ्च - यजमानस्य च शर्मासि स त्वं मम च शर्म यच्छ देहि ॥
भास्करोक्त-विनियोगः
3त्र्यम्बकात् सकृत् सकृद् अवदाय जुहोति - एक एवेति ॥
विश्वास-प्रस्तुतिः
एक॑ ए॒व रु॒द्रो
न द्वि॒तीया॑य तस्थे ।
Keith
Rudra alone yieldeth to no second.
मूलम्
एक॑ ए॒व रु॒द्रो न द्वि॒तीया॑य तस्थे ।
भट्टभास्कर-टीका
असहाय एव ऐश्वर्येण रुद्रः तुल्योत्कृष्टरहितः ; परस्मिन् पदे स्थितत्वात् । तदेव स्पष्टयति - न द्वितीयाय स्वव्यतिरिक्ताय कस्मैचिदपि तस्थे तिष्ठते आत्मानं प्रकाशयति । यथा द्वितीयेन स्वप्रभावो न परिच्च्छिद्यते तथैव सर्वदा भवति । तस्मात्सर्वदोत्कृष्टरहितत्वादेक एवेति । ‘श्लाघह्नुङ्स्थाशपाम्’ इति सम्प्रदानत्वम् । ‘प्रकाशनस्थेयाख्ययोश्च’ इत्यात्मनेपदम् । यद्वा - एक एव रुद्र इति निस्सामान्यमैश्वर्यं प्रतिपादयति । यस्मादेवं तस्मादेष देवः कदाचिदपि द्वितीयाय सहायाय न तस्थे सहायार्थं न तिष्ठतीति सहायापेक्षी न क्वचिदपि कार्येषु भवतीति ।
विश्वास-प्रस्तुतिः
आ॒खुस् ते॑ रुद्र प॒शुस् तञ् जु॑षस्व ।
Keith
The mole is thy beast, O Rudra; rejoice in it.
मूलम्
आ॒खुस्ते॑ रुद्र प॒शुस्तञ्जु॑षस्व ।
भट्टभास्कर-टीका
हे रुद्र आखुः मूषकः पशुः भागभूतः । श्रुतिप्रामाण्यादवगम्यते । यद्वा - आखुः उत्करस्थः पुरोडाशः तव पशुः पशुवत्प्रीतिहेतुः । यथोक्तम् - ‘आखूत्कर एकं पुरोडाशमुपवपति’ इति । यद्वा - आखुस्थानीयस्तव पशुः द्विपाच्चतुष्पाच्च सर्वः ; तस्मात्तमाखूत्करस्थं पुरोडाशं जुषस्व ।
विश्वास-प्रस्तुतिः
ए॒ष ते॑ रुद्र भा॒गस्,
स॒ह (साहचर्येण) स्वस्रा ऽम्बि॑कया॒ तञ् जु॑षस्व।
Keith
This is thy portion, O Rudra, with thy sister Ambika; rejoice in it.
मूलम्
ए॒ष ते॑ रुद्र भा॒गस्स॒ह स्वस्राऽम्बि॑कया॒ तञ्जु॑षस्व।
भट्टभास्कर-टीका
अपि च - हे रुद्र स एवाखूत्करस्थस्तव भागः सर्वत्रैयम्बकादानात्मकः ; तस्मात्तमपि भगवत्याम्बिकया देव्या सह जुषस्व । लक्षितलक्षणया स्वस्रा भगिनी लक्ष्यते । भगिन्या भगवत्या । यद्वा - स्वसृत्वेन सहजत्वं लक्ष्यते तेन चाविनाभावः । यद्वा - स्वमात्मानं सरति भजत इति स्वसा देहार्धभूता । पृषोदरादिः । सुष्ठु वात्मना अस्यते प्राप्यते इति स्वसा । असु गत्यादिषु, तस्मात् ‘सुञ्यसेरृन्’ इति ऋप्रत्ययः, व्युत्पत्त्यनवधारणान्ननिहन्यते ॥
भास्करोक्त-विनियोगः
4ततश्च त्वत्प्रसादाद् अस्माकम् इत्थम् अस्त्व् इत्य् आशास्ते - भेषजं गव इति पङ्क्त्या पञ्चपदया ॥
विश्वास-प्रस्तुतिः ...{Loading}...
भेष॒जङ् गवे ऽश्वा॑य ..
पुरु॑षाय भेष॒जम् ।
अथो॑ अ॒स्मभ्य॑म् भेष॒जꣳ…
सुभे॑षजम् [10] यथाऽस॑ति ॥
सु॒गम् मे॒षाय॑ मे॒ष्या॑ ॥
सर्वाष् टीकाः ...{Loading}...
Keith
(Give) medicine for ox, for horse, for man,
And medicine for us, medicine
That it be rich in healing,
Good [1] for ram and sheep.
मूलम्
भेष॒जङ्गवेऽश्वा॑य ..
पुरु॑षाय भेष॒जम् ।
अथो॑ अ॒स्मभ्य॑म्भेष॒जꣳ…
सुभे॑षजम् [10] यथाऽस॑ति ॥
सु॒गम्मे॒षाय॑ मे॒ष्या॑ ॥
भट्टभास्कर-टीका
भेषजं गवेश्वायेति प्रथमः पादः । सर्वत्र जातावेकवचनम् । गोभ्योश्वेभ्यः पुरुषेभ्यश्च भेषजमौषधं यथा असति भवेत् ; तथा जुषस्व । अथो अपि च अस्मभ्यं यथा भेषजं रोगशमनं च भवेत्, सुभेषजं च शरीरसिद्ध्यादिकारणं यथा भवेत्, सुगं सुष्ठुगम्यं सेव्यं यथा भवेत् । सुष्ठु वा गम्यतेऽनेन सर्वमभिमतं यथा तथा तं जुषस्व ।
किञ्च - मेषेभ्यो मेषीभ्यश्च भेषजं यथा स्यात् तथा जुषस्व । अस्तेर्लेटि शपो लुकि ‘लेटोडाटौ’ इत्यडागमः । गोशब्दात् ‘सावेकाचः’ इति प्राप्तं विभक्त्युदात्तत्वं ‘न गोश्वन्’ इति प्रतिषिध्यते ॥
मूलम् (संयुक्तम्)
अवा᳚म्ब रु॒द्रम॑दिम॒ह्यव॑ दे॒वन्त्र्य॑म्बकम् ॥ यथा॑ न॒श्श्रेय॑स॒ᳵ कर॒द्यथा॑ नो॒ वस्य॑स॒ᳵ कर॒द्यथा॑ नᳶ पशु॒मत॒ᳵ कर॒द्यथा॑ नो व्यवसा॒यया᳚त् ॥
भास्करोक्त-विनियोगः
5इदानीम् आरोग्यानन्तरं धनसमृद्ध्य्-आदिकम् आशास्ते - अवाम्बेति।
विश्वास-प्रस्तुतिः
अवा᳚म्ब रु॒द्रम् अ॑दिम॒हि(←दा) ..
अव॑ दे॒वन् त्र्य॑म्बकम् ॥
यथा॑ न॒श्(=अस्मान्) श्रेय॑स॒ᳵ करत् ..
यथा॑ नो॒ वस्य॑स॒ᳵ(=वसीयसः) करत् .. ।
यथा॑ नᳶ पशु॒मत॒ᳵ कर॒त् ..
यथा॑ नो व्यवसा॒यया᳚त् ॥
मूलम्
अवा᳚म्ब रु॒द्रम॑दिम॒हि ..
अव॑ दे॒वन्त्र्य॑म्बकम् ॥
यथा॑ न॒श्श्रेय॑स॒ᳵ करत् ..
यथा॑ नो॒ वस्य॑स॒ᳵ करत् .. ।
यथा॑ नᳶ पशु॒मत॒ᳵ कर॒त् ..
यथा॑ नो व्यवसा॒यया᳚त् ॥
Keith
We have appeased, O lady, Rudra,
The god Tryambaka;
That he may make us prosperous,
That he may increase our wealth,
That he may make us rich in cattle,
That he may embolden us.
भट्टभास्कर-टीका
षट्पदा जगतीयम् ॥ अत्र देवीं प्रत्याशास्ते । हे अम्ब जगतां मातः देवं (अम्ब) वयम् अवादिमहि अवदानैस् तोषयामः ।
अवदानसाध्या देवतातृप्तिरवदानेन लक्ष्यते ।
छान्दसो लुञ्, व्यत्ययेनात्मनेपदम्, ‘स्थाघ्वोरिच्च’ इतीत्वकित्त्वे, ‘ह्रस्वादङ्गात्’ इति सिचो लुक् ।
त्र्यम्बकञ्च देवम् अवादिमहीत्येव ।
आदरार्थं द्वितीयं ब्रवीति गुणान्तरख्यापनार्थं वा ।
त्र्यम्बकम् इति त्रीणि अम्बकानि लोचनानि यस्य ।
यद्वा - अबि शब्दे, अम्बका वेदाः त्र्यम्बकः वेदत्रयीप्रतिपाद्यः ।
अथ वा - अम गत्यादिषु, अमनहेतवोम्बाः द्यौरापः पृथिवी चेति, तदाराधनीयत्वात् । त्रयो वा अग्नयः तिस्रो वा गतयः त्रीणि वा ज्योतींषि । छान्दस इयङादेशः ।
तस्माद् एवं महानुभावं देवं त्र्यम्बकम् अवादिमहि ।
किमर्थम् ?
यथा नो ऽस्मान् श्रेयसः विद्याधनपुत्रादिभिः प्रशस्यतरान् करत् कुर्यात् तदर्थमित्यर्थः । पूर्ववल्लेटि शपो लुक् ।
यथा नो ऽस्मान् वस्यसः वसीयसः वसुमत्तरान् कुर्यात् । वसुमच्छब्दादीयसुनि ‘विन्मतोर्लुक्’ टिलोपः, छान्दसः ईकारलोपः । वस्तृशब्दाद्वा ‘तुश्छन्दसि’ इतीयसुन्, अतिशयेन वस्तॄन्, यथा चास्मान् पशुमतः बहुपशुकान् कुर्यात् ‘ह्नस्वनुङ्भ्यां मतुप्’ इति मतुप उदात्तत्वम् ।
यथा च नो ऽस्मान् व्यवसाययात् व्यवसित-कर्माः कुर्यात् अविघ्नेनेदं कर्म समापयेत् । व्यवपूवात्स्यतेर्णिचि ‘शा च्छासाह्वा’ इति युगागमः, लेट्याडागमः ॥
भास्करोक्त-विनियोगः
6त्रिः प्रदक्षिणं परियन्ति - त्र्यम्बकमिति ।
१२ त्र्यम्बकं यजामहे ...{Loading}...
त्र्य॑म्बकं यजामहे
सु॒गन्धिं॑ पुष्टि॒-वर्ध॑नम्।
उ॒र्वा॒रु॒कम् (स्थूलफलम्) इ॑व॒ बन्ध॑नान्
मृ॒त्योर् मु॑क्षीय॒, मा ऽमृता॑त्॥
012 ...{Loading}...
अधिमन्त्रम् - sa
- देवता - रुद्रः (मृत्युविमोचिनी ऋक्)
- ऋषिः - वसिष्ठः
- छन्दः - अनुष्टुप्
Thomson & Solcum
त्रि꣡यम्बकं यजामहे
सुग꣡न्धिम् पुष्टिव꣡र्धनम्
उर्वारुक꣡म् ऽव° ब꣡न्धनान्
मृत्यो꣡र् मुक्षीय मा꣡मृ꣡तात्
Vedaweb annotation
Strata
Popular for linguistic reasons, and possibly also for non-linguistic reasons
Pāda-label
popular;; epic anuṣṭubh (424)
popular;; epic anuṣṭubh (424)
popular;; epic anuṣṭubh (424)
popular;; epic anuṣṭubh (424)
Morph
tryàmbakam ← tryàmbaka- (nominal stem)
{case:NOM, gender:M, number:SG}
yajāmahe ← √yaj- (root)
{number:PL, person:1, mood:IND, tense:PRS, voice:MED}
puṣṭivárdhanam ← puṣṭivárdhana- (nominal stem)
{case:NOM, gender:M, number:SG}
sugándhim ← sugándhi- (nominal stem)
{case:ACC, gender:M, number:SG}
bándhanāt ← bándhana- (nominal stem)
{case:ABL, gender:M, number:SG}
iva ← iva (invariable)
{}
urvārukám ← urvāruká- (nominal stem)
{case:NOM, gender:N, number:SG}
amŕ̥tāt ← amŕ̥ta- (nominal stem)
{case:ABL, gender:N, number:SG}
mā́ ← mā́ (invariable)
{}
mr̥tyóḥ ← mr̥tyú- (nominal stem)
{case:ABL, gender:M, number:SG}
mukṣīya ← √muc- (root)
{number:SG, person:1, mood:OPT, tense:AOR, voice:MED}
पद-पाठः
त्र्य॑म्बकम् । य॒जा॒म॒हे॒ । सु॒गन्धि॑म् । पु॒ष्टि॒ऽवर्ध॑नम् ।
उ॒र्वा॒रु॒कम्ऽइ॑व । बन्ध॑नात् । मृ॒त्योः । मु॒क्षी॒य॒ । मा । अ॒मृता॑त् ॥
Hellwig Grammar
- tryambakaṃ ← tryambakam ← tryambaka
- [noun], accusative, singular, masculine
- “Shiva; Tryambaka.”
- yajāmahe ← yaj
- [verb], plural, Present indikative
- “sacrifice; worship; worship.”
- sugandhim ← sugandhi
- [noun], accusative, singular, masculine
- “fragrant.”
- puṣṭivardhanam ← puṣṭi
- [noun], feminine
- “prosperity; growth; increase; puṣṭi; luxury; wealth; comfort; increase; corpulence.”
- puṣṭivardhanam ← vardhanam ← vardhana
- [noun], accusative, singular, masculine
- “increasing; fortifying; promotive; prolonging.”
- urvārukam ← urvāruka
- [noun], accusative, singular, masculine
- “pumpkin.”
- iva
- [adverb]
- “like; as it were; somehow; just so.”
- bandhanān ← bandhanāt ← bandhana
- [noun], ablative, singular, neuter
- “bandhana; dressing; saṃdhilepa; attachment; fetter; paralysis; enclosure; imprisonment; cord; spell; fastening; tying; shutting; joining; tendon; binding; stalk; hardening; bondage; captivity; constipation; kapha; bandhana; ligament.”
- mṛtyor ← mṛtyoḥ ← mṛtyu
- [noun], ablative, singular, masculine
- “death; Yama; māraṇa; Mṛtyu.”
- mukṣīya ← muc
- [verb], singular, Aorist conj./subj.
- “liberate; emit; get rid of; shoot; release; put; tousle; secrete; fill into; shoot; spill; lose; ejaculate; exclude; free; remove; loosen; let go of; add; shed; want; save; defecate; heal; fart; open; abandon; discard; precipitate; reject; lay; unleash; exhale; discharge.”
- māmṛtāt ← mā ← mad
- [noun], accusative, singular
- “I; mine.”
- māmṛtāt ← amṛtāt ← amṛta
- [noun], ablative, singular, masculine
- “immortal; amṛta; imperishable.”
सायण-भाष्यम्
अत्र शौनकः – त्रिरात्रं नियतोपोष्य श्रपयेत्पायसं चरुम् । तेनाहुतिशतं पूर्णं जुहुयाच्छंसितव्रतः ॥ समुद्दिश्य महादेवं त्र्यम्बकं त्र्यम्बकेत्यृचा । एतत्पर्वशतं कृत्वा जीवेद्वर्षशतं सुखी’ (ऋग्वि. २. ३१४-१५)॥ [ त्रयाणां ब्रह्मविष्णुरुद्राणामम्बकं पितरं यजामहे इति शिष्यसमाहितो वसिष्ठो ब्रवीति । किंविशिष्टमित्यत आह। सुगन्धिं प्रसारितपुण्यकीर्तिम् । पुनः किंविशिष्टम्। पुष्टिवर्धनं जगद्बीजम् । उरुशक्तिमित्यर्थः। उपासकस्य वर्धनम् । अणिमादिशक्तिवर्धनम् । अतस्त्वत्प्रसादादेव मृत्योः मरणात् संसाराद्वा मुक्षीय मोचय । यथा बन्धनादुर्वारुकं कर्कटीफलं मुच्यते तद्वन्मरणात् संसाराद्वा मोचय । किं मर्यादीकृत्य । आमृतात् । सायुज्यतामोक्षपर्यन्तमित्यर्थः । अथ तैत्तिरीयभाष्ये( तै. सं. १ .८. ६. २) – शोभनः शरीरगन्धः पुण्पगन्धो वा यस्यासौ सुगन्धिः। यथा वृक्षस्य संपुष्पितस्य दूराद्गन्धो वात्येवं पुण्यस्य कर्मणो दूराद्गन्धो वाति’ (तै. आ. १०. ९) इति श्रुतेः । पुष्टिं शरीरधनादिविषयां वर्धयतीति पुष्टिवर्धनः । तादृशं त्र्यम्बकं यजामहे पूजयामः । लोके यथोर्वारुकफलानि बन्धनाद्वृन्तात् स्वयमेव मुच्यन्ते तद्वदहं त्र्यम्बकप्रसादेन मृत्योर्मुक्षीय मोचनयुक्तो भूयासम् । अमृताच्चिरजीवितात् स्वर्गादेवर्वा मा मुक्षीय । चतुर्थपादार्थे मन्त्रस्य तात्पर्यातिशयं दर्शयति - त्र्यम्बकं यजामह इत्याह मृत्योर्मुक्षीय मामृतादिति वावैतदाह ’ (तै.ब्रा. १.६.१०.५) इति ॥] ॥३०॥
भट्टभास्कर-टीका
अनुष्टुबेषा ॥ इदानीं मृत्युञ्जयम् आशास्ते । त्र्यम्बकं व्याख्यातम् ।
(त्र्यम्बकम् इति त्रीणि अम्बकानि लोचनानि यस्य ।
यद्वा - अबि शब्दे, अम्बका वेदाः त्र्यम्बकः वेदत्रयीप्रतिपाद्यः ।
अथ वा - अम गत्यादिषु, अमनहेतवोम्बाः द्यौरापः पृथिवी चेति, तदाराधनीयत्वात् । त्रयो वा अग्नयः तिस्रो वा गतयः त्रीणि वा ज्योतींषि । छान्दस इयङादेशः ।)
सुगन्धिं नित्यशोभनं यशोगन्धिं, सर्वसुकृतमयत्वात् । ‘गन्धस्येत्वे तदेकान्तग्रहणम्’ इतीत्वम् ।
पुष्टिवर्धनं गोभूमिवित्तविद्यादिपुष्टिहेतुं ईदृशं देवं यजामहे ।
किमर्थम् ? यथा उर्वारुकं फलं बन्धनात् प्रसवबन्धनात् पक्वं स्वयं मुच्यते एवमहमपि मृत्योर् अनेन मुक्षीय मुक्तो भूयासं,
मामृतान् मुक्षीय** अमरणो भूयासम् ।
मुचेराशिषि लिङि सीयुटि ‘लिङ्सिचावात्मनेपदेषु’ इति कित्त्वम् । बहुव्रीहौ ‘नञो जरमर’ इत्युत्तरपदाद्युदात्तत्वम्, भावप्रधानो द्रष्टव्यः । त्रपुसमुर्वारुकमिति केचित् । हिममित्यन्ये ।
अन्य आहुः -
पुरुषेण वाह्यात् काष्ठादिभारात् यद् भारातिरिक्तं तद् उर्वारुकम् इति,
तद्यथा बन्धनव्यवसायान् मुच्यते न वाहक-वशं भवति
एवमहं मृत्योर्मुक्षीय मृत्युवशं मा गां मां मृत्युर्मा गात् इति ।
उरोर् भाराद् वारणीयम् उर्वारुकम् इति ॥
Wilson
English translation:
“We worship Tryambaka, whose fame is fragrant, the augmenter of increase; may I be liberated fromdeath, and, like the urvāruka from its stalk, but not to immortality; let us worship Trayambaka, whose fame isfragrant, the augmenter of increase; may I be liberated from death like the urvāruka from its stalk, but not untoimmortality.”
Commentary by Sāyaṇa: Ṛgveda-bhāṣya
Tryambaka: the father, ambuka of the three deities, Brahma, Viṣṇu and Rudra; also identified withmahatva (Ṛgvidhāna); whose fame is fragrant: sugandhim = prasāritapuṇya kīrtim, whose fame of virtue isspread; in like manner as the fragrance of a tree full in flower sheds sweetness, so spreads the fragrance of holyactions; the augmenter of increase: puṣṭi vardhanam, the augmenter of nutrition, jagad-vījam, the seed of theworld; or, the multiplier of good things subservient to objects of bodily enjoyment, wealh,śarīradhanādiviṣayān vardhayati yaḥ; may I be liberated: mṛtyor makṣiya = may I be liberated from theworld, or the revolutions of life and death; may I attain mokṣa;
Urvāruka = karkaṭi, a species of cucumber; or,karkandhu, which, when ripe falls of itself from its stalk; but not to immortality: māmṛtāt mā ā amṛta, not toor until the immortal or immortality; either the long life of the gods or svarga paradise;
Tryambaka =nātratrayopetām rudram, the triocular rudra;
Sugandhim = divya gandhopetam, of celestial fragrance (yathāvṛkṣasya sampuṣpitasya dūrādgandho vātyevam puṇyasya kṛrmaṇo dūrādgandho vāti: TaittirīyaĀraṇyaka)
Jamison Brereton
We sacrifice to Tryambaka the fragrant, increaser of prosperity.
Like a cucumber from its stem, might I be freed from death, not from deathlessness.
꣡
Jamison Brereton Notes
09-12 ...{Loading}...
Jamison Brereton Notes
For the Sākamedha rites reflected in these vss., see published introduction. and, e.g., ŚB II.5.3, esp. 3ff.; ĀpŚS VIII.9; sec. lit. including Hillebrandt, Ritual-Litteratur, 117-19; Keith, Religion and Philosophy, 322-23, etc.
Griffith
Tryambaka we worship, sweet augmenter of prosperity.
As from its stem the cucumber, so may I be released from death, not reft of immortality.
Keith
To Tryambaka we make offering,
The fragrant, increaser of prosperity;
Like a cucumber from its stem,
From death may I be loosened, not from immortality.
Geldner
Wir opfern dem Tryambaka, dem duftenden, den Wohlstand mehrenden. Wie ein Kürbis vom Stiel, so möchte ich mich vom Tod, nicht vom Nichtsterben losmachen.
Grassmann
Den Triambaka verehren wir, den schönduftenden, Nahrung mehrenden. Wie eine Kürbissfrucht vom Stiele, so löse mich vom Tod unsterblicher [māmṙta zu lesen].
Elizarenkova
Мы приносим жертву Триямбаке
Благоухающему, усиливающему процветание.
Как тыква от (своей) ножки,
Я хотел бы избавиться от смерти – не от бессмертия!
अधिमन्त्रम् (VC)
- रुद्रः
- वसिष्ठः
- अनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
फिर मनुष्यों को किसकी उपासना करनी चाहिये, इस विषय को अगले मन्त्र में कहते हैं ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! जिस (सुगन्धिम्) अच्छे प्रकार पुण्यरूपय यशयुक्त (पुष्टिवर्धनम्) पुष्टि बढ़ानेवाले (त्र्यम्बकम्) तीनों कालों में रक्षण करने वा तीन अर्थात् जीव, कारण और कार्य्यों की रक्षा करनेवाले परमेश्वर को हम लोग (यजामहे) उत्तम प्रकार प्राप्त होवें उसकी आप लोग भी उपासना करिये और जैसे मैं (बन्धनात्) बन्धन से (उर्वारुकमिव) ककड़ी के फल के सदृश (मृत्योः) मरण से (मुक्षीय) छूटूँ, वैसे आप लोग भी छूटिये जैसे मैं मुक्ति से न छूटूँ, वैसे आप भी (अमृतात्) मुक्ति की प्राप्ति से विरक्त (मा, आ) मत हूजिये ॥१२॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में उपमालङ्कार है। हे मनुष्यो ! हम सब लोगों का उपास्य जगदीश्वर ही है, जिसकी उपासना से पुष्टि, वृद्धि, उत्तम यश और मोक्ष प्राप्त होता है, मृत्यु सम्बन्धि भय नष्ट होता है, उस का त्याग कर के अन्य की उपासना हम लोग कभी न करें ॥१२॥ इस सूक्त में वायु के दृष्टान्त से विद्वान् और ईश्वर के गुण और कृत्य के वर्णन करने से इस सूक्त के अर्थ की इससे पूर्व सूक्त के अर्थ के साथ सङ्गति जाननी चाहिये ॥ यह ऋग्वेद में पाँचवे अष्टक में चौथा अध्याय तीसवाँ वर्ग तथा सप्तम मण्डल में उनसठवाँ सूक्त समाप्त हुआ ॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: हे मनुष्या ! यं सुगन्धिं पुष्टिवर्धनं त्र्यम्बकं वयं यजामहे तं यूयमपि यजध्वं यथाऽहं बन्धनादुर्वारुकमिव मृत्योर्मुक्षीय तथा यूयं मुच्यध्वं यथाऽहममृतादा मा मुक्षीय तथा यूयमपि मुक्तिप्राप्तेर्विरक्ता मा भवत ॥१२॥
दयानन्द-सरस्वती (हि) - विषयः
पुनर्मनुष्यैः क उपासनीय इत्याह ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (त्र्यम्बकम्) त्रिष्वम्बकं रक्षणं यस्य रुद्रस्य परमेश्वरस्य यद्वा त्रयाणां जीवकारणकार्याणां रक्षकस्तं परमेश्वरम् (यजामहे) सङ्गच्छेमहि (सुगन्धिम्) सुविस्तृतपुण्यकीर्तिम् (पुष्टिवर्धनम्) यः पुष्टिं वर्धयति तम् (उर्वारुकमिव) यथोर्वारुकफलम् (बन्धनात्) (मृत्योः) मरणात् (मुक्षीय) मुक्तो भवेयम् (मा) निषेधे (आ) मर्यादाम् (अमृतात्) मोक्षप्राप्तेः ॥१२॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - अत्रोपमालङ्कारः । हे मनुष्या ! अस्माकं सर्वेषां जगदीश्वर एवोपास्योऽस्ति यस्योपासनात् पुष्टिर्वृद्धिः शुद्धकीर्तिर्मोक्षश्च प्राप्नोति मृत्युभयं नश्यति तं विहायान्यस्योपासनां वयं कदापि न कुर्यामेति ॥१२॥ अत्र वायुदृष्टान्तेन विद्वदीश्वरगुणकृत्यवर्णनादेतदर्थस्य पूर्वसूक्तार्थेन सह सङ्गतिर्वेद्या ॥ इत्यृग्वेदे पञ्चमाष्टके चतुर्थोऽध्यायस्त्रिंशो वर्गः सप्तमे मण्डले एकोनषष्टितमं सूक्तं च समाप्तम् ॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - या मंत्रात उपमालंकार आहे. हे माणसांनो ! आम्हा सर्व लोकांचे उपास्य जगदीश्वरच आहे. ज्याच्या उपासनेने पुष्टी, वृद्धी, उत्तम यश व मोक्ष प्राप्त होतो. मृत्यूसंबंधी भय नष्ट होते. त्याचा त्याग करून इतराची उपासना करू नये. ॥ १२ ॥
भास्करोक्त-विनियोगः
7शुष्के स्थाणौ तान्बध्नाति - एष त इति ॥
विश्वास-प्रस्तुतिः
ए॒ष ते॑ रुद्र भा॒गस्, तञ् जु॑षस्व ।
Keith
This is thy portion, O Rudra; rejoice in it;
मूलम्
ए॒ष ते॑ रुद्र भा॒गस्तञ्जु॑षस्व ।
भट्टभास्कर-टीका
हे भगवन् रुद्र एष तव भागः, तं जुषस्व गृहाण !
विश्वास-प्रस्तुतिः
तेना॑व॒सेन॑ (दत्तान्नभागरूपेण) प॒रो मूज॑व॒तो ऽती॒ह्य्,
अव॑तत-धन्वा॒ पिना॑क-हस्त॒ᳵ कृत्ति॑वासाः ॥ [11]
मूलम्
तेना॑व॒सेन॑ प॒रो मूज॑व॒तोऽती॒ह्यव॑ततधन्वा॒ पिना॑कहस्त॒ᳵ कृत्ति॑वासाः ॥ [11]
भट्टभास्कर-टीका
तेनानेनावसेन पथाम् अवनेन पथः येन अवते ।
गत्यर्थादौणादिकोस्वप्रत्ययः ।
परः परस्तात् । मूजवान्नाम पर्वतः उच्छ्रिततया प्रसिद्धः तस्यापि परस्तात् अतीहि अतिक्रम्य गच्छ ।
यद्वा - मूङ् बन्धने, बन्धजस्संसारो मूजः तद्वतः प्रपञ्चादतीहि । परशब्दाच्छान्दसोसिच्प्रत्ययः ।
अवततधन्वा अवतारितज्याकरवत्तादृशं धनुर्यस्य इति बहुव्रीहौ ‘धनुषश्च’ इत्यानङ्, ‘गतिरनन्तरः’ इति गतेः प्रकृतिस्वरत्वम् । पिनाकहस्तः पिनाकाख्यं धनुर्दण्डं हस्ते अलङ्कारार्थं वहन्न हि ते निरायुधस्यापि चोरादिभयमस्ति । कृत्तिवासाः वैयाघ्रनागचर्ममात्रं वसानः । कवचादि नेति भावः । ईदृशो दूरतरः गन्तुमर्हति । देव वयं न बिभीमः प्रसादादृते कस्त्वां पश्यन्न बिभेतीति । साकमेधास्समाप्ताः ॥
इत्यष्टमे षष्ठोनुवाकः ॥