०५ चातुर्मास्येषु साकमेधे पितृमेधादि

विस्तारः (द्रष्टुं नोद्यम्)

६-७ पङ्क्तिः,
९ आस्तारपङ्क्तिः
१०-१२ गायत्री
१३ शक्वरी
विश्वेदेवा ऋषयः
(चातुर्मास्येषु) साकमेधपर्वगतमहापितृयज्ञहवींषि, तद्ब्राह्मणं, तन्मन्त्राश्च २-१०

भास्करोक्त-विनियोगः

1अथ पितृयज्ञहवींषि विदधाति - सोमाय पितृमते पुरोडाशमित्यादि ॥ ‘संवत्सरो वै सोमः पितृमान्’ इत्यादि ब्राह्मणम् ।

विश्वास-प्रस्तुतिः

सोमा॑य पितृ॒मते॑(←‘ह्रस्वनुडभ्यां मतुप्’) पुरो॒डाश॒ꣳ॒ षट्-क॑पाल॒न् निर्व॑पति,
पि॒तृभ्यो॑ बर्हि॒षद्भ्यो॑ धा॒नाᳶ,
पि॒तृभ्यो᳚ ऽग्निष्व्-आ॒त्तेभ्यो॑ ऽभिवा॒न्या॑यै(=अन्यवत्स-दोह्या) दु॒ग्धे म॒न्थम्(=द्रवयुक्तास् सक्तवः)

Keith

He offers to Soma with the Pitrs a cake on six potsherds,
to the Pitrs who sit on the straw fried grains,
for the Pitrs prepared by Agni he milks a beverage from a cow which has to be won over (to another calf).

मूलम्

सोमा॑य पितृ॒मते॑ पुरो॒डाश॒ꣳ॒ षट्क॑पाल॒न्निर्व॑पति
पि॒तृभ्यो॑ बर्हि॒षद्भ्यो॑ धा॒नाᳶ पि॒तृभ्यो᳚ऽग्निष्वा॒त्तेभ्यो॑ऽभिवा॒न्या॑यै दु॒ग्धे म॒न्थम् ।

भट्टभास्कर-टीका

‘ह्रस्वनुडभ्यां मतुप्’ इति मतुप उदात्तत्वम् ।
बर्हिषि सीदन्तीति बर्हिषदः मासाः । अन्त्यलोपश्छान्दसः ।
तण्डुलप्रभवा लाजा धानाः । अर्धमासाः पितरो ऽग्निष्वात्ताः
‘आदितश्च’ इति चकारादिडभावः, तृतीयासमासे ‘संज्ञायामनाचितादीनाम्’ इत्युत्तरपदान्तोदात्तत्वम् ।
अभिवान्या अन्यवत्सा[त्स]दोह्या,
तस्या दुग्धे सक्तूनोप्य मन्थति स मन्थः । द्रवयुक्तास् सक्तवो मन्थाः । ‘अर्ध उपमन्थति’ इत्यादि ब्राह्नाणम् ॥

भास्करोक्त-विनियोगः

2हविश्शेषान् सम्प्लोम्नाय(=??)
पिण्डान् कृत्वा वेद्यास्त्रिसृषु स्रक्तिषु निदधाति पूर्वस्यां दक्षिणस्यां अपरस्यामिति - एतत्ते ततेत्यादि ॥

एतत् ते तत ...{Loading}...
विश्वास-प्रस्तुतिः

ए॒तत् ते॑ तत॒ ये च॒ त्वाम् अनु॑।
[ए॒तत् ते॑] पितामह [ये च॒ त्वाम् अनु॑]।
[ए॒तत् ते॑] प्रपितामह॒ [ये च॒ त्वाम् अनु॑]।
अत्र॑ पितरो यथाभा॒गम्म॑न्दध्वम् ।

Keith

This for thee, O father, and for thy line;
This for thee, O grandfather, great-grandfather, and for thy line

मूलम्

ए॒तत्ते॑ तत॒ ये च॒ त्वामन्वे॒तत्ते॑ पितामह प्रपितामह॒ ये च॒ त्वामनु॑ ।

भट्टभास्कर-टीका

एनदन्नं ते तव भवतु हे तत तात ।
ये च त्वामनुगता आश्रिताः अन्ये, तेषाञ्चैतदन्नं भवतु । एतत्ते अन्नं हे पितामह, ये च त्वामनुगताः तेषां च । पितुः पिता पितामहः । एवमेतत्ते अन्नं हे प्रपितामह, ये चान्ये त्वामनुगताः, तेषाञ्च । पितामहस्य पिता प्रपितामहः ।


हे तत तात एतदशनं तव ये चान्ये त्वामनुगताः । एतत्ते पितामह, ये च त्वामनुगताः । एतत्ते प्रपितामह, ये च त्वामनुगताः ।

विश्वास-प्रस्तुतिः

अत्र॑ पितरो यथाभा॒गम् म॑न्दध्वम् ।

Keith

Do ye Pitrs rejoice in your portions.


Rejoice therein, O fathers, according to your shares.

मूलम्

अत्र॑ पितरो यथाभा॒गम्म॑न्दध्वम् ।

भट्टभास्कर-टीका

अधुना सर्वेपि सामान्येनोच्यन्ते । अत्र अस्मिन् कर्मणि हे पितरः पातारः पितृप्रभृतयो वा पितृपितामहप्रपितामहाः यथाभागं योयो यस्य भागः तेनतेन । ‘यथाऽसादृश्ये’ इत्यव्ययीभावः । यूयं मन्दध्वं मोदध्वम् । मदि स्तुतिमोदमदस्वप्नगतिषु ॥

02 सुसन्दृशन् त्वा ...{Loading}...
मूलम्

सु॒स॒न्दृश॑न् त्वा व॒यम्
मघ॑वन् मन्दिषी॒महि॑ ॥

Keith

May we gladden thee,
O bountiful one, fair to see;

भट्टभास्कर-टीका

इन्द्रात्मना स्तूयते । हे मघवन् इन्द्र सुसन्दृशं सुष्ट्वनुग्रहदृष्ट्या सर्वस्य द्रष्टारम् ।
यद्वा - शोभना सन्दृष्टिर्यस्य द्रष्टॄणां तादृशं त्वां वयं मन्दिषीमहि तर्पयामः ।
आमन्त्रितस्याविद्यमानवत्त्वान् निघाताभावः,
‘लिङ्याशिषि’ इत्यार्धधातुकत्वाल् लसार्वधातुकानुदात्तत्वाभावः ।

विश्वास-प्रस्तुतिः ...{Loading}...

प्र नू॒नम् पू॒र्ण-व॑न्धुरस्(=रथाग्रः)
स्तु॒तो या॑सि॒ वशा॒ꣳ॒ अनु॑ ॥
योजा॒ न्व् इ॑न्द्र ते॒ हरी᳚ ॥ [7]

सर्वाष् टीकाः ...{Loading}...

Keith

Forth now with full chariot seat
Being praised, dost thou fare according to our will;
Yoke, O Indra, thy two bay steeds [1].

मूलम्

सुस॒न्दृश॑न्त्वा व॒यम्मघ॑वन्मन्दिषी॒महि॑ ॥
प्र नू॒नम्पू॒र्णव॑न्धुरस्स्तु॒तो या॑सि॒ वशा॒ꣳ॒ अनु॑ ॥
योजा॒ न्वि॑न्द्र ते॒ हरी᳚ ॥ [7]

भट्टभास्कर-टीका

त्वञ् च सन्तृप्तः
पूर्णवन्धुरः अस्माभिर् दत्तैः हविर्भिः पूरित-रथ-पृष्ठः स्तुतश् च अस्माभिर् आत्मीयैर् वा वन्दिभिः नूनं प्रयासि,
इत्थं कृतकृत्यो यातुमारभसे इति तर्कयामि । पञ्चमो लकारः । प्रजायाः नूनं कृतकृत्य एव वशानिष्टान्देशाननुलक्षीकृत्य प्रयाहि अनुक्रमेण वा ।

कथं याहीत्याह - योजा योजयित्वा । निपातोयं योजयित्वेति समानार्थः । ते हरितावश्वौ । न्विति क्षिप्रनाम । पुराणवचनो वा, पुरातनी या तव पुराणप्रक्रियेति द्योत्यते । यद्वा - योजा योजनी योगकरी [योजनीयौ गत्वरौ] क्षिप्रं वाहनार्थं रथे । ण्यन्तात्कर्मणि घञ्, ‘सुपां सुलुक्’ इत्याकारः । लोटि वा विकरणव्यत्ययेन शप्, वर्णव्यत्ययेन तस्याकारः । क्षिप्रं हरी यानार्थं योजयेत्यर्थः ॥

भास्करोक्त-विनियोगः

4गार्हपत्यमुपतिष्ठते - अक्षन्नमीमदन्तेति पञ्चपदया पङ्क्त्या । ह्यन्तः प्रथमः पादः ॥

०२ अक्षन्नमीमदन्त ह्यव ...{Loading}...

अक्ष॒न्न्(=भुक्तवन्तः), अमी॑मदन्त॒ ह्य् अव॑ प्रि॒या अ॑धूषत(=अकम्पयन् [=वक्तुम् अशक्नुवन्])
अस्तो॑षत॒(=अस्तुवन्) स्वभा॑नवो॒ विप्रा॒
नवि॑ष्ठया म॒ती(त्या), (अतो रथे) योजा॒(=योजय) न्वि् इ॑न्द्र ते॒ हरी॑ ॥

002 ...{Loading}...
अधिमन्त्रम् - sa
  • देवता - इन्द्रः
  • ऋषिः - गोतमो राहूगणः
  • छन्दः - पङ्क्तिः
Thomson & Solcum

अ꣡क्षन्न् अ꣡मीमदन्त हि꣡
अ꣡व प्रिया꣡ अधूषत
अ꣡स्तोषत स्व꣡भानवो
वि꣡प्रा न꣡विष्ठया मती꣡
यो꣡जा नु꣡ इन्द्र ते ह꣡री

Vedaweb annotation

Strata
Normal on metrical evidence alone


Pāda-label
genre M
genre M
genre M
genre M
genre M;; repeated line


Morph
ákṣan ← √ghas- (root)
{number:PL, person:3, mood:IND, tense:AOR, voice:ACT}

ámīmadanta ← √mad- (root)
{number:PL, person:3, mood:IND, tense:AOR, voice:MED}

hí ← hí (invariable)
{}

adhūṣata ← √dhū- (root)
{number:PL, person:3, mood:IND, tense:AOR, voice:MED}

áva ← áva (invariable)
{}

priyā́ḥ ← priyá- (nominal stem)
{case:NOM, gender:M, number:PL}

ástoṣata ← √stu- (root)
{number:PL, person:3, mood:SBJV, tense:AOR, voice:MED}

svábhānavaḥ ← svábhānu- (nominal stem)
{case:NOM, gender:M, number:PL}

matī́ ← matí- (nominal stem)
{case:INS, gender:F, number:SG}

náviṣṭhayā ← náviṣṭha- (nominal stem)
{case:INS, gender:F, number:SG}

víprāḥ ← vípra- (nominal stem)
{case:NOM, gender:M, number:PL}

hárī ← hári- (nominal stem)
{case:NOM, gender:M, number:DU}

indra ← índra- (nominal stem)
{case:VOC, gender:M, number:SG}

nú ← nú (invariable)
{}

te ← tvám (pronoun)
{case:DAT, number:SG}

yójā ← √yuj- (root)
{number:SG, person:1, mood:SBJV, tense:AOR, voice:ACT}

पद-पाठः

अक्ष॑न् । अमी॑मदन्त । हि । अव॑ । प्रि॒याः । अ॒धू॒ष॒त॒ ।
अस्तो॑षत । स्वऽभा॑नवः । विप्राः॑ । नवि॑ष्ठया । म॒ती । योज॑ । नु । इ॒न्द्र॒ । ते॒ । हरी॒ इति॑ ॥

Hellwig Grammar
  • akṣannakṣanghas
  • [verb], plural, Root aorist (Ind.)
  • “eat.”

  • amīmadantamad
  • [verb], plural, Redupl. Aorist (Ind.)
  • “rut; intoxicate; delight; revel; rejoice; drink; ramp; exult.”

  • hyhi
  • [adverb]
  • “because; indeed; for; therefore; hi [word].”

  • ava
  • [adverb]
  • “down.”

  • priyāpriyāḥpriya
  • [noun], nominative, plural, masculine
  • “beloved; pleasant; dear; fond(p); wanted; priya [word]; favorite; good; liked; suitable; proper.”

  • adhūṣatadhū
  • [verb], plural, Athematic s aor. (Ind.)
  • “shake; remove; chase away.”

  • astoṣatastu
  • [verb], plural, Athematic s aor. (Ind.)
  • “laud; praise; declare; stu.”

  • svabhānavosva
  • [noun]
  • “own(a); respective(a); akin(p); sva [word]; individual; present(a); independent.”

  • svabhānavobhānavaḥbhānu
  • [noun], nominative, plural, masculine
  • “sun; Surya; Calotropis gigantea Beng.; sunbeam; beam; luminosity; copper; light; twelve; appearance; Bhānu; flare.”

  • viprāviprāḥvipra
  • [noun], nominative, plural, masculine
  • “Brahmin; poet; singer; priest; guru; Vipra.”

  • naviṣṭhayānaviṣṭha
  • [noun], instrumental, singular, feminine
  • “late(a).”

  • matīmati
  • [noun], instrumental, singular, feminine
  • “intelligence; decision; mind; hymn; purpose; idea; opinion; belief; desire; wish; conviction; plan; devotion.”

  • yojāyuj
  • [verb], singular, Aorist conj./subj.
  • “mix; use; endow; yoke; accompany; to practice Yoga; connect; hire; administer; compound; affect; add; concentrate; unite; join; prosecute; combine; supply; compound; attach to; appoint; fill; process; mobilize; mount; complement; eat; join; treat; coincide; affect; challenge.”

  • nvnu
  • [adverb]
  • “now; already.”

  • indra
  • [noun], vocative, singular, masculine
  • “Indra; leader; best; king; first; head; self; indra [word]; Indra; sapphire; fourteen; guru.”

  • tetvad
  • [noun], dative, singular
  • “you.”

  • harīhari
  • [noun], accusative, dual, masculine
  • “Vishnu; monkey; Krishna; horse; lion; Indra; Hari; Surya; Hari; haritāla; Hari; snake; frog.”

सायण-भाष्यम्

हे इन्द्र त्वया दत्तान्यन्नान्यक्षन् । यजमाना भुक्तवन्तः । भुक्त्वा चामीमदन्त हि । तृप्ताश्चासन् । प्रियाः स्वकीयास्तनूरवाधूषत । अकम्पयन् । अतिशयितरसास्वादनेन वक्तुमशक्नुवन्तः शरीराण्यकम्पयन् । तदनन्तरं स्वभानवः स्वायत्तदीप्तयो विप्रा मेधाविनस्ते नविष्ठया नवितृतमया मती मत्या स्तुत्याऽस्तोषत । अस्तुवन् । अन्यत्पूर्ववद्योज्यं ॥ अक्षन् । अदेर्लुङि लुङ् सनोर्घस्लृ (पा २-४-३७) इति घस्लादेशः । मन्त्रे घसेत्यादिना च्लेर्लुक् । गमहनेत्यादिनोपधालोपः । खरि चेति चर्त्वम् । शासिवसिघसीनां चेति षत्वम् । अडागम उदात्तः । अमीमदन्त । मद तृप्तियोगे । चुरादिरात्मनेपदी । लुङि च्लेश्चङि णिलोपोपधाह्रस्वत्वद्विर्भावसन्वद्भावेत्वदीर्घाः । अधूषत । धूञ् कम्पने । लुङि सिचि व्यत्ययेन गुणाभावः । यद्वा । छन्दस्युभयथेति सिचः सार्वधातुकत्वेन ङित्त्वात् क्ङिति चेति प्रतिषेधः । अथवा धू विधूनने । तौदादिकः । कुटादिः । अस्मात्कर्मणि लुङि गाङ् कुटादिभ्य इति सिचो ङित्त्वाद्गुणाभावः नविष्ठया । णुस्तुतौ । करणभूताया अपि स्तुतेः स्वव्यापारे कर्तृत्वात्तृच् । तदन्तात् तुश्छन्दसीतीष्ठन्प्रत्ययः । तुरिष्ठेमेयःस्स्विति तृलोपः । मती । सुपां सुलुगिति तृतीयायाः पूर्वसवर्णदीर्घत्वम् । मन्त्रे वृषेषपचमनेति क्तिन उदात्तत्वं ॥ २ ॥

भट्टभास्कर-टीका

अक्षन् भुक्तवन्तः । अदेर्लुङि ‘लुङ्सनोर्घसॢ’ इति घस्लादेशः, ‘मन्त्रे घस’ इत्यादिना च्लेर्लुक्, घसिभसोर्हलि च’ इत्युपधालोपः, ‘शासिवसिघसीनाञ्च’ इति षत्वम् । अमीमदन्त अतृप्यन् । मद तृप्तियोगे, चौरादिकः, तिङः परत्वान्न निहन्यते, हियोगाद्वा ।
किञ्च – प्रियाः तनूः अवाधूषत अकम्पयन् भोजनस्य साद्गुण्यमनुस्मृत्येव । घूञ् कम्पने, सिचि व्यत्ययेन गुणाभावः । ‘छन्दस्युभयथा’ इति सार्वधातुकत्वेन सिचो ङित्त्वाद्वा । अपि च - विप्रा मेधाविनः विशेषज्ञाः स्वभानवः स्वायत्तदीप्तयः अस्तोषत स्तुवन्ति भोजनं, अहो दत्तं मुहुश्श्रद्धया चेति । नविष्ठया नप्तृतमया । णु स्तवने, तृजन्तात् ‘तुश्छन्दसि’ इतीष्ठन् प्रत्ययः, ‘तुरिष्ठेमेयस्सु’ इति तृलोपः । मती मत्या । ‘सुपां सुलुक्’ इति पूर्वसवर्णः, ‘मन्त्रे वृष’ इति क्तिन उदात्तत्वम् । ‘योजा नु’ इत्यादि गतम् ॥

  • कथं याहीत्याह - योजा योजयित्वा । निपातोयं योजयित्वेति समानार्थः । ते हरितावश्वौ । न्विति क्षिप्रनाम । पुराणवचनो वा, पुरातनी या तव पुराणप्रक्रियेति द्योत्यते । यद्वा - योजा योजनी योगकरी [योजनीयौ गत्वरौ] क्षिप्रं वाहनार्थं रथे । ण्यन्तात्कर्मणि घञ्, ‘सुपां सुलुक्’ इत्याकारः । लोटि वा विकरणव्यत्ययेन शप्, वर्णव्यत्ययेन तस्याकारः । क्षिप्रं हरी यानार्थं योजयेत्यर्थः ॥
Wilson

English translation:

“(Your worshippers) have eaten the food which you had given, and have rejoiced, and have trembled through their precious (bodies); self-illuminated sages have glorified you with commendable thoughts; therefore, Indra, quickly yoke your horses.”

Jamison Brereton

They have eaten; for they have brought themselves to exhilaration; they have shaken down dear things.
They have been praised—the self-radiant (Maruts)—with the newest inspired thought.
– Now, Indra, I will hitch up your two fallow bays.

Jamison Brereton Notes

Most tr. take the two verbs ákṣann ámīmadanta as parallel (e.g., Geldner “Sie haben ja geschmaust, gezecht”), but the position of the hí after the second verb strongly suggests that the second verb belongs to a separate clause that provides the causal grounds for another clause. My translation reflects this: “for they have brought themselves to exhilaration” explains what “they have eaten” actually refers to: the consumption of soma or soma plus food-offerings. Then in b, as a consequence of their having received nourishment from us, they repay us with goods.

Most tr. take priyā́(ḥ) in b as nom. pl. masc. referring to the Maruts; this requires supplying an object for adhūṣata (e.g., Renou “des biens”). I take it rather as an acc. pl. fem., implicitly referring to a fem. noun like íṣaḥ ‘refreshments’; cf. X.134.3 áva tyā́bṛhatī́r íṣaḥ … dhūnuhi “shake down these lofty refreshments,” with the same VP.

With Oldenberg, etc., víprā must be a fem. instr. sg. modifying matī́.

Griffith

Well have they eaten and rejoiced; the friends have risen and passed away.
The sages luminous in themselves have. praised thee with their latest hymn. Now, Indra, yoke thy two Bay Steeds.

Keith

They have eaten, they have rejoiced,
The dear ones have dispelled (evil),
The radiant sages have been praised with newest hymn;
Yoke, O Indra, thy two bay steeds.

Geldner

Sie haben ja geschmaust, gezecht; die lieben Freunde haben herabgeschüttelt. Die selbstglänzenden Barden sind mit dem neuesten Gedicht gepriesen worden. - Ich will dir jetzt das Falbenpaar schirren, o Indra.

Grassmann

Die weisen, herrlich glänzenden, sie speisten jetzt, berauschten sich Und schütteten uns liebes zu; gerühmt sind sie mit neustem Lied. Schirr, Indra, nun dein Füchsepaar.

Elizarenkova

Они уже насытились (и) опьянились.
Милые (друзья) стряхнули нам вниз (блага).
Обладающие собственным блеском, вдохновенные
Прославлены самой новой молитвой.
Запрягай же, Индра, пару твоих буланых коней!

अधिमन्त्रम् (VC)
  • इन्द्र:
  • गोतमो राहूगणः
  • विराडास्तारपङ्क्ति
  • पञ्चमः
दयानन्द-सरस्वती (हि) - विषयः

फिर वह कैसा हो, इस विषय को अगले मन्त्र में कहा है ॥

दयानन्द-सरस्वती (हि) - पदार्थः

पदार्थान्वयभाषाः - हे (इन्द्र) सभापते ! जो (ते) तेरे (हरी) धारण-आकर्षण करनेहारे वाहन वा घोड़े हैं उनको तू हमारे लिये (नु योज) शीघ्र युक्त कर, हे (स्वभानवः) स्वप्रकाशस्वरूप सूर्यादि के तुल्य (विप्राः) बुद्धिमान् लोगो ! आप (नविष्ठया) अतिशय नवीन (मती) बुद्धि के सहित होके (प्रियाः) प्रिय हूजिये, सबके लिये सब शास्त्रों की (हि) निश्चय से (अस्तोषत) प्रशंसा आप किया करिये, शत्रु और दुःखों को (अवाधूषत) छुड़ाइये, (अक्षन्) विद्यादि शुभगुणों में व्याप्त हूजिये, (अमीमदन्त) अतिशय करके आनन्दित हूजिये और हमको भी ऐसे ही कीजिये ॥ २ ॥

दयानन्द-सरस्वती (हि) - भावार्थः

भावार्थभाषाः - मनुष्यों को योग्य है कि श्रेष्ठ गुण-कर्म्म-स्वभावयुक्त सब प्रकार उत्तम आचरण करनेहारे सेना और सभापति तथा सत्योपदेशक आदि के गुणों की प्रशंसा और कर्मों से नवीन-नवीन विज्ञान और पुरुषार्थ को बढ़ाकर सदा प्रसन्नता से आनन्द का भोग करें ॥ २ ॥

दयानन्द-सरस्वती (हि) - अन्वयः

अन्वय: हे इन्द्र ! यौ ये तव हरी वर्त्तेते तावस्मदर्थं नु योज। हे स्वभानवो विप्रा ! भवन्तः सूर्यादय इव नविष्ठया मती सह सर्वेषां प्रिया भवन्तु सर्वाणि शास्त्राणि ह्यस्तोषत शत्रून् दुःखान्यवाधूषताक्षन्नमीमदन्तास्मानपीदृशान् कुर्वन्तु ॥ २ ॥

दयानन्द-सरस्वती (हि) - विषयः

पुनः स कीदृश इत्युपदिश्यते ॥

दयानन्द-सरस्वती (हि) - पदार्थः

पदार्थान्वयभाषाः - (अक्षन्) शुभगुणान् प्राप्नुवन्तु (अमीमदन्त) आनन्दन्तु (हि) खलु (अव) विरुद्धार्थे (प्रियाः) प्रीतियुक्ताः सन्तः (अधूषत) शत्रून् दुःखानि वा दूरीकुरुत (अस्तोषत) स्तुत (स्वभानवः) स्वकीया भानवो दीप्तयो येषां ते (विप्राः) मेधाविनः (नविष्ठया) अतिशयेन नूतनया (मती) बुद्ध्या (योज) योजय (नु) शीघ्रम् (इन्द्र) सभाध्यक्ष (ते) (हरी) ॥ २ ॥

दयानन्द-सरस्वती (हि) - भावार्थः

भावार्थभाषाः - मनुष्यैरुत्तमगुणकर्मस्वभावयुक्तस्य सर्वथा प्रशंसिताचरणस्य सेनाद्यध्यक्षस्योपदेशकस्य वा गुणप्रशंसनाऽनुकरणाभ्यां नवीनौ विज्ञानपुरुषार्थौ वर्धयित्वा सर्वदा प्रसन्नतयाऽऽनन्दो भोक्तव्यः ॥ २ ॥

सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः

भावार्थभाषाः - माणसांनी श्रेष्ठ गुणकर्म स्वभावयुक्त सर्व प्रकारे उत्तम आचरण करणारी सेना व सभापती आणि सत्योपदेश इत्यादींच्या गुणांची प्रशंसा करावी व कर्मानी नवनवे विज्ञान व पुरुषार्थ वाढवून सदैव प्रसन्न राहून आनंद भोगावा. ॥ २ ॥

भास्करोक्त-विनियोगः

5अन्वाहार्यपचनमुपतिष्ठते - अक्षन् पितर इति ॥

विश्वास-प्रस्तुतिः

अख्ष॑न्(=भुक्तवन्तः) पि॒तरो, ऽमी॑मदन्त पि॒तरो, ऽती॑तृपन्त पि॒तरो, ऽमी॑मृजन्त पि॒तरः॑ ॥

Keith

The Pitrs have eaten, the Pitrs have rejoiced, the Pitrs have been glad, the Pitrs have purified themselves.

मूलम्

अख्ष॑न्पि॒तरोऽमी॑मदन्त पि॒तरोऽती॑तृपन्त पि॒तरोऽमी॑मृजन्त पि॒तरः॑ ॥

भट्टभास्कर-टीका

अक्षन् भुक्तवन्तः पितरः पित्रादयः अममिदन्त तृप्ताश्चाभूवन् । अतीतृपन्त अस्मांश्चातर्पयन् । ण्यन्ताल्लुङि च्लेश्चङि ‘उरत् ’ इत्यत्वम् । अमीमृजन्त शोधितवन्तः अस्मान् ॥

भास्करोक्त-विनियोगः

6पितॄन् प्रवाहयति - परेतेति । पञ्चपदा बृहती ॥

विश्वास-प्रस्तुतिः ...{Loading}...

परे॑त पितरस् सोम्या
गम्भी॒रैᳶ प॒थिभिᳶ॑ पू॒र्व्यैः ।
अथा॑ पि॒तॄन्थ् सु॑वि॒दत्रा॒ꣳ॒
अपी॑त य॒मेन॒ ये स॑ध॒माद॒म् मद॑न्ति

सर्वाष् टीकाः ...{Loading}...

Keith

Go away, O ye Pitrs, Soma loving,
With your majestic ancient paths;
Then reach ye the kindly Pitrs
Who carouse in company with Yama.

मूलम्

परे॑त पितरस्सोम्या गम्भी॒रैᳶ प॒थिभिᳶ॑ पू॒र्व्यैः ।
अथा॑ पि॒तॄन्थ्सु॑वि॒दत्रा॒ꣳ॒ अपी॑त य॒मेन॒ ये स॑ध॒माद॒म्मद॑न्ति ॥

भट्टभास्कर-टीका

हे पितरः ते यूयं परेत सम्प्रति गृहान् प्रति गच्छत । सोम्यास्सोमार्हाः । ‘सोममर्हति’ इति यः । गम्भीरः सुलभान्नतोयैः पथिभिः मार्गैः पूर्व्यैः पूर्वकृतैः प्रहतैरित्यर्थः । ‘पूर्वैः कृतमिनयौ च’ इति यः । अथ तथा गत्वा ते यूयं पितृन् अस्मत्पूर्वपुरुषान् सुविदत्रान् शोभनज्ञानान् कल्याणमतीनिति यावत् । सुष्ठु विन्दतीति सुविदत्राः । ‘सुञि विदेः कत्रन्’ इति कत्रन्प्रत्ययः, कृदुत्तरपदप्रकृतिस्वरत्वम्, ‘दीर्घादटि समानपादे’ इति संहितायां रुत्वम् । ‘निपातस्य च’ इत्यथेत्यस्य दीर्घत्वम् । तानपीत अनुप्राप्नुत एकीभवत ।
पुनश्च ते विशेष्यन्ते - यमेन ये सधमादं सहस्थानस्थं मदं यथा तथा मदन्ति माद्यन्ति तेन सह मोदन्ते, तानपीतेति । ‘सधमादस्थयोः’ इति सधादेशः, चौरादिकान्मदेर्ण्यन्तात्क्विप्, क्रियाविशेषणत्वेपि व्यत्ययेन नपुंसकत्वाभावः, णमुलन्तो वा । यमेन सहाभीक्ष्णं मदन्तीति माद्यतेर्व्यत्ययेन शप् । मादयतेर्वा व्यत्ययेन परस्मैपदम्, ‘छन्दस्युभयथा’ इति सार्वधातुकत्वाण्णिलोपः ॥

भास्करोक्त-विनियोगः

7अथ तैस्सह तं देशं गतम् इव कृत्वा मन आह्वयति - मन इति तिसृभिर्गायत्रीभिः ॥

विश्वास-प्रस्तुतिः ...{Loading}...

(पितॄन् अनु प्रेषितम्)
मनो॒ न्व् आ हु॑वामहे
नाराश॒ꣳ॒सेन॒ स्तोमे॑न (←शाकले “सोमेन”)
पितृ॒णाञ् (←६.४.५ छन्दस्युभयथा) च॒ च॒ मन्म॑भिः(=मननीयैः)

सर्वाष् टीकाः ...{Loading}...

Keith

Mind let us summon hither
With the praise of Naraśansa
And the reverence of the Pitrs.

मूलम्

मनो॒ न्वा हु॑वामहे नाराश॒ꣳ॒सेन॒ स्तोमे॑न ।
पितृ॒णाञ् च॒ मन्म॑भिः ॥

भट्टभास्कर-टीका

मनः आहुवामहे आह्वयामः । पूर्ववत् सम्प्रसारणम् । नु क्षिप्रं पूर्ववदिति वा ।
नाराशंसेन नराणां सर्वेषामपि शंसनीयेन मनोहरेण स्तोमेन स्तोत्रेण शस्यन्ते स्तूयन्ते तेन वाचिकेन स्तोमेन मानसेन
पितॄणाञ्च मन्मभिः मननीयैर् इष्टतमैः स्वधादिभिः पदैर्युक्तेन स्तोमेनाह्वयामहे ॥

भास्करोक्त-विनियोगः

8अथ द्वितीया ॥

विश्वास-प्रस्तुतिः ...{Loading}...

[8] न एतु मन॒ᳶ पुन॒ᳵ
क्रत्वे॒ दख्षा॑य जी॒वसे᳚ ॥
ज्योक् च॒ सूर्य॑न् दृ॒शे ॥

सर्वाष् टीकाः ...{Loading}...

Keith

Let mind return to us [2]
For vigour, for insight, for life,
And that long we may see the sun.

मूलम्

आ [8] +न॒ ए॒तु॒ मन॒ᳶ पुन॒ᳵ क्रत्वे॒ दख्षा॑य जी॒वसे᳚ ॥
ज्योक्च॒ सूर्य॑न्दृ॒शे ॥

भट्टभास्कर-टीका

तस्मान्नः अस्मान् पुनरैतु । किं प्रयोजनं ? क्रत्वे कर्मणे कर्मानुष्ठानार्थम् । ‘जसादिषु वा वचनं प्राङ्णौ चङ्युपधायाः’ इति गुणाभावः । दक्षाय क्रियानुष्ठानसामर्थ्याय । तदपि किमर्थं ? इत्याह - जीवसे जीवितुं दीर्घमायुर्यथा स्यात् । ‘तुमर्थे सेसेन्’ इति सेप्रत्ययः । किमेतावदेव प्रयोजनम् ? ज्योक् चिरं सूर्यं दृशे द्रष्टुं मोक्षार्थञ्चेत्यर्थः । स ह्यात्मेत्युक्तं, आत्मदर्शनाच्च मोक्ष इति, यथा - ‘आत्मा वा अरे द्रष्टव्यः’ इति । ‘दृशे विख्ये च’ इति केप्रत्ययान्तो निपात्यते ॥

भास्करोक्त-विनियोगः

9अथ तृतीया ॥

१२ पुनर् नः पितरो ...{Loading}...

पुन॑र् नᳶ पि॒तरो॒ (तान् अनुगतं) मनो॒
ददा॑तु॒ दैव्यो॒ जनः॑ ॥
जी॒वव्ँ व्रातꣳ॑(=समूहम्) सचेमहि(=सेवेमहि)

१२ पुनर् नः पितरो ...{Loading}...
भट्टभास्कर-टीका

पुनः नः अस्माकं मनः हे पितरः सर्वेषां पातारः । व्यत्ययेन निघाताभावः । युष्मत्-प्रसादेन दैव्यः दिवि भवः जनो ददातु । ‘देवाद्यञञौ’ इति यञ् । वचनव्यत्ययो वा ।
पितरो ददातु । ततश्च वयं त्वत्प्रसादेन जीवं जीवितं व्रातं सङ्घातात्मानं वर्षशतप्रमाणं सचेमहि सेवेमहि, तादृशजीवितं लभेमहीति ॥

Keith

May the Pitrs restore mind to us,
May the host of the gods;
May we belong to the band of the living.

मूलम् (संयुक्तम्)

यद॒न्तरि॑ख्षम्पृथि॒वीमु॒त द्याय्ँयन्मा॒तर॑म्पि॒तर॑व्ँवा जिहिꣳसि॒म ॥ अ॒ग्निर्मा॒ तस्मा॒देन॑सो॒ गार्ह॑पत्य॒ᳶ प्र मु॑ञ्चतु दुरि॒ता यानि॑ चकृ॒म क॒रोतु॒ माम॑ने॒नस᳚म् ॥ [9]

भास्करोक्त-विनियोगः

10गार्हपत्यसमीपं गच्छन् जपति - यदन्तरिक्षमिति षट्पदा शक्वरी । केचित् पङ्क्तिमाहुः ॥

विश्वास-प्रस्तुतिः ...{Loading}...

यद् अ॒न्तरि॑ख्षम् पृथि॒वीम् उ॒त द्याय्ँ
यन् मा॒तर॑म् पि॒तर॑व्ँ वा जिहिꣳसि॒म
अ॒ग्निर् मा॒ तस्मा॒द् एन॑सो॒ ..
गार्ह॑पत्य॒ᳶ प्र मु॑ञ्चतु ..
दुरि॒ता यानि॑ चकृ॒म ..
क॒रोतु॒ माम् अ॑ने॒नस᳚म् ॥

सर्वाष् टीकाः ...{Loading}...

Keith

Whatever hurt we have done to atmosphere, to earth, to sky,
To mother or to father,
May Agni of the house free me from this sin;
May he make me blameless
In respect of all the ill we have wrought.

मूलम्

यद॒न्तरि॑ख्षम्पृथि॒वीमु॒त द्याँ …
य्यन्मा॒तर॑म्पि॒तर॑व्ँवा जिहिꣳसि॒म ॥
अ॒ग्निर्मा॒ तस्मा॒देन॑सो॒ ..
गार्ह॑पत्य॒ᳶ प्र मु॑ञ्चतु ..
दुरि॒ता यानि॑ चकृ॒म ..
क॒रोतु॒ माम॑ने॒नस᳚म् ॥

भट्टभास्कर-टीका

यत् यस्मिन् कर्मणि येन प्रतिषिद्धकरणेन कर्मलोपेन वा यदन्तरिक्षं पृथिवीं अपि च द्यां द्युलोकञ्च जिहिंसिम, येन वा मातरं पितरं वा जिहिंसिम हिंसितवन्तः हिंसितारस्तेषां सम्भवेम । छान्दसो लिट् । अयमग्निर्गार्हपत्यः तस्मात्तन्निमित्तादेनसः पापात्प्रमुञ्चतु । आत्माधीनत्वात्सर्वासामात्मन्येक वचनम् । यानि चान्यानि अज्ञातस्वरूपाणि दुश्चरितानि दुःखादिसाधनानि पापानि वयं चकृम यैर्वयं सर्वस्य लोकस्य हिंसितारस्सम्भवाम ; तस्माच्चैनसो मामग्निः प्रमुञ्चत्वेव । ‘शेश्छन्दसि बहुलम्’ इति शेर्लोपः । एवं सर्वप्रकाराणां मया मदीयैश्च कृतानां पापानां विमोचनेन मामननेसं करोत्वयमग्निरिति ॥

इत्यष्टमे पञ्चमोनुवाकः ॥